भाषा

ENहिગુ
ग्रंथ पाठ

अवदानशतक · अध्याय 100

100.1

भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि वाराणस्यां नगर्यां पञ्चमात्राणि तस्करशतानि सेनापतिप्रमुखाणि चौर्येण संप्रस्थितानि । यावत् ते चञ्चूर्यमाणा अन्यतमं खदिरवणम् अनुप्राप्ताः । यावत् सेनापतिनाभिहिताः: पश्यत यूयं कमलायताक्षः कश्चिद् अपरकीयो मनुष्यः संविद्यते, येन वयं यक्षबलिं दत्वा प्रक्रामेमेति । तत्र च खदिरवने प्रत्येकबुद्धः प्रतिवसति । ततस् तैस् तस्करैः पर्यटद्भिर् दृष्ट्वा सेनापतिसकाशं नीतः । ततश् चौरसेनापतिना वध्यताम् अयम् इत्य् आज्ञा दत्ता । ततो ऽसौ प्रत्येकबुद्धस् तेषाम् अनुग्रहार्थं विततपक्ष इव हंसराजः खगपथम् अभ्युद्गम्य विचित्राणि प्रातिहार्याणि विदर्शयितुम् आरब्धः । ततः सेनापतिर् मूलनिकृत्त इव द्रुमः पादयोर् निपत्य अत्ययं देशितवान्* । पिण्डकेन प्रतिपाद्य प्रणिधानं कृतवान्*: अहम् अप्य् एवंविधानां गुणानां लाभी स्याम्*, प्रतिविशिष्टतरं चातः शास्तारम् आरागयेयं मा विरागयेयम् इति ॥
भगवान् आह: किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन चौरसेनापतिः, अयम् एवासौ कोष्ठिलः । भूयः काश्यपे भगवति प्रव्रजितो बभूव । तत्रानेन दश वर्षसहस्राणि ब्रह्मचर्यवासः परिपालितः । तेनेदानीम् अर्हत्वं साक्षात्कृतम्* । इति हि भिक्षव एकान्तकृष्णानां कर्मणाम् एकान्तकृष्णो विपाकः, एकान्तशुक्लानाम् एकान्तशुक्लः, व्यतिमिश्राणां व्यतिमिश्रः । तस्मात् तर्हि भिक्षव एकान्तकृष्णानि कर्माण्य् अपास्य व्यतिमिश्राणि च, एकान्तशुक्लेष्व् एव कर्मस्व् आभोगः करणीयः । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥
इदम् अवोचद् भगवान्* । आत्तमनसस् ते भिक्षवो भगवतो भाषितम् अभ्यनन्दन्* ॥
-------------------- वैद्य, प्. 260 --------------------
अव्श्_100 संगीतिः । (एद्. स्पेयेर्, वोल्. इइ)
बुद्धो भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघः कुशिनगर्यां विहरति मल्लानाम् उपवर्तने यमकशालवने । अथ भगवांस् तद् एव परिनिर्वाणकालसमये आयुष्मन्तम् आनन्दम् आमन्त्रयते स्म: प्रज्ञापय आनन्द तथागतस्य आन्तरेण यमकशालयोर् उत्तराशिरसं मञ्चम्* । अद्य तथागतस्य रात्र्या मध्यमे यामे निरुपधिशेषे निर्वाणधातौ परिनिर्वाणं भविष्यतीति । एवं भदन्तेत्य् आयुष्मान् आनन्दो भगवतः प्रतिश्रुत्य अन्तरेण यमकशालयोर् उत्तराशिरसं मञ्चं प्रज्ञाप्य येन भगवांस् तेनोपसंक्रान्तः । उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते ऽस्थात्* । एकान्तस्थित आयुष्मान् आनन्दो भगवन्तम् इदम् अवोचत्*: प्रज्ञप्तो भदन्त तथागतस्य अन्तरेण यमकशालयोर् उत्तराशिरसं मञ्चः । अथ भगवान्* येन मञ्चस् तेनोपसंक्रान्तः । उपसंक्रम्य दक्षिणेन पार्श्वेन शय्यां कल्पयति पादं पादेनोपधाय आलोकसंज्ञी स्मृतः संप्रजानन् निर्वाणसंज्ञाम् एव मनसि कुर्वन्न् इति ॥
तत्र भगवान् रात्र्या मध्यमे यामे ऽनुपधिशेषे निर्वाणधातौ परिनिर्वृतः । समनन्तरपरिनिर्वृते बुद्धे भगवति अत्यर्थं तस्मिन् समये महापृथिवीचालो ऽभूत्* उल्कापाता दिशोदाहाः । अन्तरीक्षे देवदुन्दुभयो नदन्ति । समनन्तरपरिनिर्वृते बुद्धे भगवति उभौ यमकशालवनस्य द्रुमोत्तमौ तथागतस्य सिंहशय्यां शालपुष्पैर् अवाकिरताम्* । समनन्तरपरिनिर्वृते भगवति अन्यतरो भिक्षुस् तस्यां वेलायां गाथां भाषते:
सुन्दरौ खल्व् इमौ शालवनस्यास्य द्रुमोत्तमौ ।
यद् अवाकिरतां पुष्पैः शास्तारं परिनिर्वृतम्*

100.2

समनन्तरपरिनिर्वृते बुद्धे भगवति शक्रो देवेन्द्रो गाथां भाषते:
अनित्या बत संस्कारा उत्पादव्ययधर्मिणः ।
उत्पद्य हि निरुध्यन्ते तेषां व्युपशमः सुखम्*

100.3

इति
समनन्तरपरिनिर्वृते बुद्धे भगवति ब्रह्मा सहांपतिर् गाथां भाषते:
सर्वभूतानि लोके ऽस्मिन्न् इक्षेप्स्यन्ति समुच्छ्रयम्* ।
एवंविधो यत्र शास्ता लोकेष्व् अप्रतिपुद्गलः ।
तथागतबलप्राप्तः चक्षुमान् परिनिर्वृतः

100.4

समनन्तरपरिनिर्वृते बुद्धे भगवति आयुष्मान् आनिरुद्धो गाथां भाषते:
स्थिता आश्वासप्रश्वासा स्थिरचित्तस्य तायिनः ।
आनिज्यां शान्तिम् आगम्य चक्षुमान् परिनिर्वृतः

100.5

-------------------- वैद्य, प्. 261 --------------------
तदाभवद् भीषणकं तदाभूद् रोमहर्षणम्* ।
सर्वाकारबलोपेतः शास्ता कालं यदाकरोत्*

100.6

असंलीनेन चित्तेन वेदना अधिवासयन्* ।
प्रद्योतस्य् एव निर्वाणं विमोक्षस् तस्य चेतसः

100.7

इति ॥
सप्ताहपरिनिर्वृते बुद्धे भगवति आयुष्मान् आनन्दो भगवतश् चितां प्रदक्षिणीकुर्वन्* गाथां भाषते:
येन कायरतनेन नायको ब्रह्मलोकम् अगमन् महर्द्धिकः ।
दह्यते स्म तनुजेन तेजसा पञ्चभिर् युगशतैः स वेष्टितः (स्पेयेर्: वेष्ठितः)

100.8

सहस्रमात्रेण हि चीवराणां बुद्धस्य कायः परिवेष्टितो ऽभूत्* । (स्पेयेर्: परिवेष्ठितो)
द्वे चीवरे तत्र तु नैव दग्धे अभ्यन्तरं बाह्यम् अथ द्वितीयम्*

100.1

वर्षशतपरिनिर्वृते बुद्धे भगवति पाटलिपुत्रे नगरे राजा अशोको राज्यं कारयति ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं च आकीर्णबहुजनमनुष्यं च प्रशान्तकलिकलहडिम्बडमरं तस्कररोगापगतं शालीक्षुगोमहिषीसंपन्नम्* । धार्मिको धर्मराजो धर्मेण राज्यं पालयति । यावद् अपरेण समयेन देव्या सार्धं क्रीडति रमते परिचारयति । तस्य क्रीडतो रममाणस्य परिचारयतः कालान्तरेण देवी आपन्नसत्वा संवृत्ता । सा अष्टानां वा नवानां वा मासानाम् अत्ययात् प्रसूता । दारको जातो अभिरूपो दर्शनीयः प्रासादिकः कुणालसदृशाभ्यां नेत्राभ्याम्* । तस्य जातौ जातिमहं कृत्वा नामधेयं व्यवस्थाप्यते: किं भवतु दारकस्य नामेति । ज्ञातय ऊचुः: यस्माद् अस्य जातमात्रस्य कुणालसदृशे नेत्रे, तस्माद् भवतु दारकस्य कुणाल इति नामेति । कुणालो दारको ऽष्टाभ्यो धात्रीभ्यो दत्तो द्वाभ्याम् अंसधात्रीभ्यां द्वाभ्यां क्षीरधात्रीभ्यां द्वाभ्यां मलधात्रीभ्यां द्वाभ्यां क्रीडनिकाभ्यां धात्रीभ्याम्* । सो ऽष्टाभिर् धात्रीभिर् उन्नीयते वर्ध्यते क्षीरेण दध्ना नवनीतेन सर्पिषा सर्पिमण्डेनान्यैश् चोत्तप्तोत्तप्तैर् उपकरणविशेषैः । आशु वर्धते ह्रदस्थम् इव पङ्कजम्* । ततस् तं सर्वालंकारविभूषितं राजा उत्सङ्गेन कृत्वा पुनः पुनः प्रेक्ष्य रूपसंपदा प्रहर्षित उवाच: असदृशो मे पुत्रो लोके रूपेणेति ॥
तत्र च समये गान्धारे पुष्पभेरोत्सो नाम ग्रामः । तत्रान्यतमस्य गृहपतेः पुत्रो जातो ऽतिक्रान्तो मानुषं वर्णम् असंप्राप्तश् च दिव्यं वर्णम्* । जन्मनि चास्य दिव्यगन्धोदकपरिपूर्णा
-------------------- वैद्य, प्. 262 --------------------
रत्नमयी पुष्करिणी प्रादुर्भूता, पुष्पसंपन्नं च महद् उद्यानं जङ्गमं च । यत्र यत्र कुमारो गच्छति तत्र तत्र च पुष्करिणी उद्यानं च प्रादुर्भवति । तस्य सुन्दर इति नामधेयं व्यवस्थापितम्* ॥
यावत् क्रमेण कुमारो महान् संवृत्तम्* । ततो ऽपरेण समयेन पुष्पभेरोत्साद् वणिजः केनचिद् एव करणीयेन पाटलिपुत्रं गताः । ते प्राभृतम् आदाय राज्ञः सकाशम् उपगताः । ततः पादयोर् निपत्य प्राभृतं राज्ञे उपनमय्य पुरस्ताद् व्यवस्थिताः । ततो राजा अशोकस् तेषां कुणालं दर्शयति: हं भो वणिजः, कदाचित् कुत्रचिद् भवद्भिः पर्यटद्भिर् एवंविधं रूपविशेषयुक्तं दृष्टपूर्वम् इति ? ततस् ते वणिजः कृतकरपुटाः पादयोर् निपत्य अभयं मार्गयित्वा राजानम् ऊचुः: अस्ति देव अस्मदीये विषये सुन्दरो नाम कुमारो ऽतिक्रान्तो मानुषं वर्णम् असंप्राप्तश् च दिव्यं वर्णम्* । जन्मनि चास्य दिव्यगन्धोदकपरिपूर्णा रत्नमयी पुष्करिणी प्रादुर्भूता, पुष्पफलसमृद्धं च महद् उद्यानं जङ्गमम्* । यत्र यत्र च कुमारो गच्छति तत्र तत्र पुष्करिणी उद्यानं च प्रादुर्भवति । श्रुत्वा राजा अशोकः परं विस्मयम् आपन्नः । कुतूहलजातश् च दूतसंप्रेषणं कृतवान्: एष राजा अशोक आगन्तुम् इच्छति सुन्दरस्य कुमारस्य दर्शनहेतोः । यद् वः कृत्यं वा करणीयं वा तत् कुरुध्वम् इति । ततो महाजनकायो भीताः: यदि राजा महासाधनेन इहागमिष्यति, मा हैव कंचिद् अनर्थम् उत्पादयिष्यतीति । ततः स कुमारो भद्रयानं योजयित्वा शतसहस्रं च मुक्ताहारं प्राभृतस्यार्थे दत्वा अशोकस्य सकाशं प्रेषितः । सो ऽनुपूर्वेण चञ्चूर्यमाणः पाटलिपुत्रं नगरं प्राप्तः । शतसहस्रं च मुक्ताहारं गृहीत्वा राज्ञो ऽशोकस्य सकाशम् अनुप्राप्तः । राजा अशोकश् च सहदर्शनात् सुन्दरस्य कुमारस्य रूपं शोभां वर्णपुष्कलतां च दिव्यां पुष्करिणीम् उद्यानं च दृष्ट्वा परं विस्मयम् उपगतः ॥
ततो राजा अशोकः स्थविरोपगुप्तस्य विस्मयजननार्थं सुन्दरं च कुमारम् आदाय कुक्कुटागारं गतः । तत्रोपगुप्तप्रमुखाण्य् अष्टादशार्हत्सहस्राणि निवसन्ति, तद्द्विगुणाः शैक्षाः पृथग्जनकल्याणकाः । ततः स स्थविरस्य पादाभिवन्दनं कृत्वा पुरस्तान् निषण्णो धर्मश्रवणाय । स्थविरोपगुप्तेनास्य धर्मो देशितः । ततः कुमारः परिपक्वसंततिर् धर्मं श्रुत्वा प्रव्रज्याभिलाषी संवृत्तः । स राजानम् अशोकम् अनुज्ञाप्य स्थविरोपगुप्तस्य सकाशे प्रव्रजितः । तेन युज्यमानेन घटमानेन व्यायच्छमानेन इदम् एव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकिरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कृतम्* । अर्हन् संवृत्तः त्रैधातुकवीतरागः समलोष्टकाञ्चन आकाशपाणितलसमचित्तो वासीचन्दनकल्पो विद्याविदारिताण्डकोशो विद्याभिज्ञाप्रतिसंवित्प्राप्तो भवलाभलोभसत्कारपराङ्मुखः । सेन्द्रोपेन्द्राणां देवानां पूज्यो मान्यो ऽभिवाद्यश् च संवृत्तः ॥
ततो राजा अशोकः संदिग्धः स्थविरं पृच्छति: कानि भदन्त सुन्दरेण कर्माणि कृतानि, येनास्यैवंविधं रूपम्*, कानि पुनः कर्माणि येन दिव्यगन्धोदकपरिपूर्णा रत्नमयी पुष्करिणी प्रादुर्भूता, पुष्पफलसमृद्धं च महद् उद्यानं जङ्गमम्*? स्थविरोपगुप्त आह: सुन्दरेणैव
-------------------- वैद्य, प्. 263 --------------------
महाराज पूर्वम् अन्यासु जातिषु कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययानि ओघवत् प्रत्युपस्थितान्य् अवश्यंभावीनि । सुन्दरेणैव कर्माणि कृतान्य् उपचितानि । को ऽन्यः प्रत्यनुभविष्यति? न भिक्षवः कर्माणि कृतान्य् उपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ, अपि तूपात्तेष्व् एव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्य् अशुभानि च:
न प्रणश्यन्ति कर्माणि कल्पकोटिशतैर् अपि ।
सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम्*

मूल पाठ: Avadānaśataka · Edition: the following editions: (1) Ed. P.L. Vaidya, Darbhanga 1958 (Buddhist Sanskrit Texts ; 19) and (2) Ed. J.S. Speyer, St. Petersbourg, 2 vols., 1906-1909 (Bibliotheca Buddhica ; 3) · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc