अवदानशतक · अध्याय 61
-------------------- वैद्य, प्. 154 --------------------
भूतपूर्वं भिक्षवो अस्मिन्न् एव भद्रके कल्पे विंशतिवर्षसहस्रायुषि प्रजायां काश्यपो नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्* । स वाराणसीं नगरीम् उपनिश्रित्य विहरति ऋषिपतने मृगदावे । तत्रैभिः प्रव्रजितैः शिक्षाशैथिल्यं कृतम्* । तेन हंसेषूपपन्नाः । यन् ममान्तिके चित्तं प्रसादितं तेन देवेषूपपन्नाः । यत् परिशिष्टानि शिक्षापदानि तेन सत्यदर्शनं कृतम् इति । इति हि भिक्षव एकान्तकृष्णानां कर्मणाम् एकान्तकृष्णो विपाकः, एकान्तशुक्लानाम् एकान्तशुक्लः, व्यतिमिश्राणां व्यतिमिश्रः । तस्मात् तर्हि भिक्षव एकान्तकृष्णानि कर्माण्य् अपास्य व्यतिमिश्राणि च, एकान्तशुक्लेष्व् एव कर्मस्व् आभोगः करणीयः । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥
इदम् अवोचद् भगवान्* । आत्तमनसस् ते भिक्षवो भगवतो भाषितम् अभ्यनन्दन्* ॥
-------------------- वैद्य, प्. 155 --------------------
सप्तमो वर्गः ।
तस्योद्दानम्*.:
सुवर्णाभः सुगन्धिश् च वपुष्मान् बलवान् प्रियः ।
पद्माक्षो दुन्दुभिः पुत्राः सूर्यो मल्लपताकया ॥
अव्श्_61 सुवर्णाभः । (एद्. स्पेयेर्, वोल्. इ)
बुद्धो भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघः कपिलवस्तुनि विहरति न्यग्रोधारामे । कपिलवस्तुनि अन्यतमः शाक्य आढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी । तेन सदृशात् कुलात् कलत्रम् आनीतम्* । स तया सार्धं क्रीडति रमते परिचारयति । तस्य क्रीडतो रममाणस्य परिचारयतः पत्नी आपन्नसत्वा संवृत्ता । सा अष्टानां वा नवानां वा मासानाम् अत्ययात् प्रसूता । दारको जातो ऽभिरूपो दर्शनीयः प्रासादिको ऽतिक्रान्तो मानुषवर्णम् असंप्राप्तश् च दिव्यं वर्णं जाम्बूनदनिष्कसदृशः । सुवर्णवर्णया चानेन प्रभया सर्वं कपिलवस्तु नगरम् अवभासितम्* । तद्दर्शनान् मातापितराव् अन्ये च कुतूहलाभ्यागताः सत्वाः परं विस्मयम् आगताः । चिन्तयन्ति च: कुतो ऽयम् ईदृशः सत्वविशेष इति । तस्य जातौ जातिमहं कृत्वा नामधेयं व्यवस्थाप्यते: किं भवतु दारकस्य नामेति । ज्ञातय ऊचुः: यस्माद् अनेन जातेन सुवर्णवर्णया प्रभया सर्वं कपिलवस्तु नगरम् अवभासितम्*, तस्माद् भवतु दारकस्य सुवर्णाभ इति नामेति । सुवर्णाभो दारको ऽष्टाभ्यो धात्रीभ्यो ऽनुप्रदत्तो द्वाभ्याम् अंसधात्रीभ्यां द्वाभ्यां क्षीरधात्रीभ्यां द्वाभ्यां मलधात्रीभ्यां द्वाभ्यां क्रीडनिकाभ्यां धात्रीभ्याम्* । सो ऽष्टाभिर् धात्रीभिर् उन्नीयते वर्ध्यते क्षीरेण दध्ना नवनीतेन सर्पिषा सर्पिमण्डेनान्यैश् चोत्तप्तोत्तप्तैर् उपकरणविशेषैः । आशु वर्धते ह्रदस्थम् इव पङ्कजम्* । स च पण्डितो व्यक्तो मेधावी श्राद्धो भद्रः कल्याणाशय आत्महितपरहितप्रतिपन्नः कारुणिको महात्मा धर्मकामः ॥
यावद् अपरेण समयेन रूपमदमत्तो बहिर् अधिष्ठानस्य क्रीडति । संबहुलाश् च शाक्या न्यग्रोधारामं गच्छन्ति । ततस् तेन सुवर्णाभेन दृष्टाः पृष्टाश् च: क्व भवन्तो गच्छन्तीति । तैर् उक्तम्*: न्यग्रोधारामं गच्छामो बुद्धं भगवन्तं द्रष्टुम् इति । सुवर्णाभस्य बुद्ध इत्य् अश्रुतपूर्वं नाम श्रुत्वा सर्वरोमकूपाण्य् आहृष्टनि, परमं च कुतूहलम् उत्पन्नम्* । तस्यैतद् अभवत्*: यन्व् अहम् अपि बुद्धं भगवन्तं दर्शनायोपसंक्रामेयम् इति । सो ऽपि न्यग्रोधारामं गच्छति । ततस् तत्र ददर्श सुवर्णाभकुमारो बुद्धं भगवन्तं द्वात्रिंशता महापुरुषलक्षणैः समलंकृतम् अशीत्या चानुव्यञ्जनैर् विराजितगात्रं व्यामप्रभालंकृतं सूर्यसहस्रातिरेकप्रभं जङ्गमम् इव रत्नपर्वतं समन्ततो भद्रकम्* । सहदर्शनाच् चास्य
-------------------- वैद्य, प्. 156 --------------------
यो ऽसौ रूपमदः स प्रतिविगतः । स भगवतः पादाभिवन्दनं कृत्वा पुरस्तान् निषण्णो धर्मश्रवणाय । तस्य भगवता धर्मो देशितः । स तं धर्मं श्रुत्वा प्रव्रज्याभिलाषी संवृत्तः । यावन् मातापितराव् अनुज्ञाप्य भगवत्सकाशम् उपसंक्रान्तः । उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा येन भगवांस् तेनाञ्जलिं प्रणमय्य भगवन्तम् इदम् अवोचत्*: लभेयाहं भदन्त स्वाख्याते धर्मविनये प्रव्रज्याम् उपसंपदं भिक्षुभावम्* । चरेयम् अहं भगवतो ऽन्तिके ब्रह्मचर्यम् इति । ततो भगवान् गजभुजसदृशं सुवर्णवर्णबाहुम् अभिप्रसार्य सुवर्णाभदारकम् इदम् अवोचत्*: एहि कुमार, चर ब्रह्मचर्यम् इति ।
एहीति चोक्तः स तथागतेन मुण्डश् च संघाटिपरीतदेहः ।
सद्यः प्रशान्तेन्द्रिय एव तस्थाव् एवं स्थितो बुद्धमनोरथेन
यावत् सप्ताहावरोपितकेशश्मश्रुर् द्वादशवर्षोपसंपन्नेर्यापथः पात्रकरव्यग्रहस्तो भगवतः पुरस्तात् स्थितः । तस्य भगवता मनसिकारो दत्तः । तेन युज्यमानेन व्यायच्छमानेन घटमानेन इदम् एव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कृतम्* । अर्हन् संवृत्तः त्रैधातुकवीतरागः समलोष्टकाञ्चन आकाशपाणितलसमचित्तो वासीचन्दनकल्पो विद्याविदारिताण्डकोशो विद्याभिज्ञाप्रतिसंवित्प्राप्तो भवलाभलोभसत्कारपराङ्मुखः । सेन्द्रोपेन्द्राणां देवानां पूज्यो मान्यो ऽभिवाद्यश् च संवृत्तः ।
भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: कानि भदन्त सुवर्णाभेन कर्माणि कृतानि येनैवंरूपो दर्शनीयः प्रासादिकः प्रव्रज्य च अचिराद् (स्पेयेर्: चाचिरं) अर्हत्वं साक्षात्कृतम् इति । भगवान् आह: सुवर्णाभेनैव भिक्षवः पूर्वम् अन्यासु जातिषु कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययानि ओघवत् प्रत्युपस्थितान्य् अवश्यंभावीनि । सुवर्णाभेन कर्माणि कृतान्य् उपचितानि । को ऽन्यः प्रत्यनुभविष्यति? न भिक्षवः कर्माणि कृतान्य् उपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ, अपि तूपात्तेष्व् एव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्य् अशुभानि च:
न प्रणश्यन्ति कर्माणि अपि कल्पशतैर् अपि ।
सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम्*
मूल पाठ: Avadānaśataka · Edition: the following editions: (1) Ed. P.L. Vaidya, Darbhanga 1958 (Buddhist Sanskrit Texts ; 19) and (2) Ed. J.S. Speyer, St. Petersbourg, 2 vols., 1906-1909 (Bibliotheca Buddhica ; 3) · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0