भाषा

ENहिગુ
ग्रंथ पाठ

अवदानशतक · अध्याय 48

48.1

इति ॥
भगवान् आह: पापकारिणी नन्दक सा प्रेती । इच्छसि तस्या कर्मप्लोतिं श्रोतुम्*? एवं भदन्त । तेन हि नन्दक शृणु, साधु च सुष्ठु च मनसि कुरु, भाषिष्ये ॥
भूतपूर्वं नन्दक अस्मिन्न् एव भद्रकल्पे विंशतिसहस्रायुषि प्रजायां काश्यपो नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान्* । स वाराणसीं नगरीम् उपनिश्रित्य विहरति ऋषिपतने मृगदावे । वाराणस्याम् अन्यतमा श्रेष्ठिदुहिता । सा धर्माभिलाषिणी । यावद् असौ धर्मं श्रुत्वा संसारदोषदर्शिनी निर्वाणे गुणदर्शिनी संवृत्ता । सा मातापितराव् अनुज्ञाप्य भगवच्छासने प्रव्रजिता । तस्या अर्थं ज्ञातिभिर् भिक्षुणीवर्षकः कारितः । सा तत्र शैक्षाशैक्षीभिर् भिक्षुणीभिः सार्धं प्रतिवसति । यावत् तया प्रमादाच् छिक्षाशैथिल्यं कृतम्* । ततो भिक्षुणीभिर् दुःशीलेति निष्कासिता । ततस् तया दानपतिर् गृहेभ्यः प्रवृत्तकानि छन्दकानि # # # <थे गप् मय् बे fइल्लेद् ओउ ब्य् आच्छिन्नानि; स्पेयेर्: कुर्कुरैः शृगालैश् च.> शैक्षाशैक्षीणां च अवर्णो भाषितः । भिक्षवश् च ये शीलवन्तः, तान् दृष्ट्वा नयने निमीलितवती ॥
किं मन्यसे नन्दक या सा श्रेष्ठिदुहिता, इयं सा प्रेती । यत् तया वर्षके मात्सर्यं कृतम्*, तेन प्रेतेषूपपन्ना । यत् तया नैत्यकसमुच्छेदः कृतस् तेन काकैर् गृध्रैः कुर्कुरैश् चाभिद्रुता । यत् तया शैक्षाशैक्षीणां भिक्षुणीनाम् अवर्नो भाषितः, तेन दौर्गन्ध्यम् आसादितम्* । यत् तया शीलवतो भिक्षून् दृष्ट्वा नयने निमीलिते, तेन जात्यन्धा संवृत्ता । इति हि नन्दक एकान्तकृष्णानां कर्मणाम् एकान्तकृष्णो विपाकः, एकान्तशुक्लानाम् एकान्तशुक्लः, व्यतिमिश्राणां व्यतिमिश्रः । तस्मात् तर्हि ते नन्दक एकान्तकृष्णानि कर्माण्य् अपास्य व्यतिमिश्राणि च, एकान्तशुक्लेष्व् एव कर्मस्व् आभोगः करणीयः । इत्य् एवं ते नन्दक शिक्षितव्यम्* ॥
अस्मिन् खलु धर्मपर्याये भाष्यमाणे दशभिः प्राणिशतसहस्रैः सत्यदर्शनं कृतम्* । तत्र भगवान् भिक्षून् आमन्त्रयते स्म: इमे चान्ये च आदीनवा मात्सर्ये वाग्दुश्चरिते चेति ज्ञात्वा मात्सर्यस्य वाग्दुश्चरितस्य च प्रहाणाय व्यायन्तव्यम्* । इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥
इदम् अवोचद् भगवान् । आत्तमनसस् ते भिक्षवो ऽन्ये च देवासुरगरुडकिन्नरमहोरगादयो भगवतो भाषितम् अभ्यनन्दन्* ॥
-------------------- वैद्य, प्. 120 --------------------
अव्श्_48 श्रेष्ठी । (एद्. स्पेयेर्, वोल्. इ)
बुद्धो भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजमात्रैर् धनिभिः पौरैः श्रेष्ठिभिः सार्थवाहैर् देवैर् नागैर् यक्षैर् असुरैर् गरुडैः किन्नरैर् महोरगैर् इति देवनागयक्षासुरगरुडकिन्नरमहोरगाभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघः श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे । श्रावस्त्याम् अन्यतमः श्रेष्ठी आढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी । सो ऽपरेण समयेन जेतवनं निर्गतः । अथासौ ददर्श बुद्धं भगवन्तं द्वात्रिंशता महापुरुषलक्षणैः समलंकृतम् अशीत्यानुव्यञ्जनैर् विराजितगात्रं व्यामप्रभालंकृतं सूर्यसहस्रातिरेकप्रभं जङ्गमम् इव रत्नपर्वतं समन्ततो भद्रकम्* । दृष्ट्वा च पुनर् भगवतः पादाभिवन्दनं कृत्वा पुरस्तान् निषण्णो धर्मश्रवणाय । तस्मै भगवता संसारवैराग्यिकी धर्मदेशना कृता यां श्रुत्वा संसारदोषदर्शी निर्वाणे गुणदर्शी भूत्वा भगवच्छासने प्रव्रजितः । प्रव्रजितश् च ज्ञातो महापुण्यः संवृत्तो लाभी चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणाम्* । स गृहीतपरिष्कारो लब्धं लब्धं संचयं करोति, न तु सब्रह्मचारिभिः सह संविभागं करोति । स तेन मात्सर्येण सेवितेन भावितेन बहुलीकृतेन परिष्काराध्यवसितः कालगतः स्वके लयने प्रेतेषूपपन्नः ॥
ततो ऽस्य सब्रह्मचारिभिर् मुण्डिकां गण्डीं पराहत्य शरीराभिनिर्हारः कृतः । ततो ऽस्य शरीरे शरीरपूजां कृत्वा विहारम् आगताः । ततो लयनद्वारं विमुच्य पात्रचीवरं प्रत्यवेक्षितुम् आरब्धाः । यावत् पश्यन्ति तं प्रेतं विकृतकरचरणनयनं परमबीभत्साश्रयं पात्रचीवरम् अवष्टभ्यावस्थितम्* । तथाविकृतं दृष्ट्वा भिक्षवः संविग्ना भगवते निवेदितवन्तः । ततो भगवांस् तस्य कुलपुत्रस्यानुग्रहार्थं शिष्यगणस्योद्वेजनार्थं मात्सर्यस्य चानिष्टविपाकसंदर्शनार्थं भिक्षुगणपरिवृतो भिक्षुसंघपुरस्कृतस् तं प्रदेशम् अनुप्राप्तः । ततो ऽसौ ददर्श बुद्धं भगवन्तं द्वात्रिंशता महापुरुषलक्षणैः समलंकृतम् अशीत्या चानुव्यञ्जनैर् विराजितगात्रं व्यामप्रभालंकृतं सूर्यसहस्रातिरेकप्रभं जङ्गमम् इव रत्नपर्वतं समन्ततो भद्रकम्* । सहदर्शनाच् चास्य भगवतो ऽन्तिके प्रसादो जातः । स व्यपत्रपितवान्* । ततो भगवान् सजलजलदगम्भीरदुन्दुभिस्वरः प्रेतं परिभाषितवान्: भद्रमुख त्वयैवैतद् आत्मवधाय पात्रचीवरं समुदानीतम्*, येनास्यपायेषूपपन्नः । साधु ममान्तिके चित्तं प्रसादय, अस्माच् च परिष्काराच् चित्तं विरागय । मा हैव इतः कालं कृत्वा नरकेषूपपत्स्यस इति । ततः प्रेतः संघे पात्रचीवरं निर्यात्य भगवतः पादयोर् निपत्य अत्ययं देशितवान्* । ततो भगवता प्रेतस्य नाम्ना दक्षिणा आदिष्टा:
इतो दानाद् धि यत् पुण्यं तत् प्रेतम् अनुगच्छतु ।
उत्तिष्ठतु क्षिप्रम् अयं प्रेतलोकात् सुदारुणात्*

मूल पाठ: Avadānaśataka · Edition: the following editions: (1) Ed. P.L. Vaidya, Darbhanga 1958 (Buddhist Sanskrit Texts ; 19) and (2) Ed. J.S. Speyer, St. Petersbourg, 2 vols., 1906-1909 (Bibliotheca Buddhica ; 3) · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc