भाषा

ENहिગુ
ग्रंथ पाठ

अवदानकल्पलता · अध्याय 44

44.1

इति क्षेमन्द्रविरचितायां बोधिसत्त्वावदानकल्पलतायां हिरण्यपाण्यवदानं त्रिचत्वारिंशः पल्लवः ॥
44. अजातशत्रुपितृद्रोहावदानम् ।
दुर्जनदुःसहविषधरभीषणतरतिमिरपतितानाम् ।
आलम्बनजननं भवभयहरणं जिनस्मरणम्

44.2

पुरे राजगृहाभिख्ये भगवान् भूभृतः पुरा ।
कटके गृध्रकूटस्य विजहार तथागतः

44.3

तस्मिन्नवसरे राजा बिम्बिसारः सुतप्रियः ।
अजातशत्रुणा तत्र पुत्रेण क्रूरकारिणा

44.4

सुहृदः पावकस्येव देवदत्तस्य संमतम् ।
घोरान्धबन्धनागारं निःसंचारं प्रवेशितः

44.5

पत्न्या प्रवेशितं तस्य बन्धने गूढभोजनम् ।
ज्ञात्वा स तत्क्षयाकाङ्क्षी क्षुत्क्षामस्य न्यवारयत्

44.6

रूक्षः कृशो ऽतिमलिनः सो ऽभवत् पृथिवीपतिः ।
अकालकालमेघार्तः कृष्णपक्ष इवोडुपः

44.7

संकीर्णवाससंतापात्प्रायः पेशलचेतसाम् ।
करोत्यालिङ्गनं प्रौढा गाढप्रणयिनी विपत्

44.8

स समुद्धिश्य शोकार्तः सुगताध्युषितां दिशम् ।
कृताञ्जलिर्नतशिराः क्षामस्वरमभाषत

44.9

नामस्तुभ्यं भगवते महार्हाय महार्हते ।
दीनोद्धरणसंनद्धसम्यक्संबोधिबोधिचेतसे

44.10

नमस्ते घोरसंसारमकराकरसेतवे ।
जिनाय जनताजन्मक्लेशप्रशमहेतवे

44.11

नमो नित्यप्रबुद्धाय सर्वसत्त्वैकबन्धवे ।
विशुद्धधान्मे बुद्धाय करुणामृतसिन्धवे

44.12

इति भक्तिसुधां शिक्त्वा सुगतश्रवणोचिताम् ।
पुण्यपुष्पप्रसविनीं स चक्रे स्तुतिमञ्जरीम्

44.13

सर्वज्ञस्तस्य विज्ञाय कायक्लेशशमयीं दशाम् ।
बन्धनागारविवरालोकैराप्यायनम् व्यधात्

44.14

अजातशत्रुस्तद्वृत्तं ज्ञात्वा शङ्काकुलः पितुः ।
न्यवारयद्बन्धगृहे सुसूक्ष्मविवराण्यपि

44.15

ततस्तस्य तदादेशात् चक्रुर्बन्धनरक्षिणः ।
क्षुरेण गाढबद्धस्य पादयोस्तद्विकर्तनम्

44.16

स तीव्रवैशसक्लेशव्यथितह् पार्थिवः परम् ।
नमो बुद्धाय बुद्धायेत्यार्तसंक्रन्दनं व्यधात्

44.17

भगवानथ सर्वज्ञः पुरः प्रत्यक्षतां गतः ।
शक्रदत्तासनासीनः कारुण्यात्तमभाषतः

44.18

राजन् किं क्रियते क्रूरकर्मणां गतिरीदृशी ।
शुभाशुभसमुद्भूतं न भुक्तं क्षियते फलम्

44.19

रागद्वेषविषासक्ते नानाव्यसनदुःसहे ।
एवंविधैव निःसारे संसारे दुःखसारता

44.20

संक्लेशकलिले काले विपत्संपद्विसंकटे ।
धैर्यमेव परित्राणं वैराग्यं च निराकुलम्

44.21

संसारघोरगहनान्तरवर्धमानैः दुःखानलव्यतिकरप्रसृतैरसिक्ताः ।
धूमोद्गमैरिव पुनः सुकृतोचितानां बाष्पाम्बुबिन्दुकलिला न दृशो भवन्ति

44.22

भजस्व धैर्यं दुःखे ऽस्मिन् भोगाशां त्यज भूपते ।
परिणामविरोधिन्यः सर्वाः संसारवृत्तयः

44.23

अधुनैव तवासन्ना देहात्ते कुशलस्थितिः ।
इत्युक्त्वा तं समाश्वस्य भगवान् स्वपदं ययौ

44.24

बिम्बिसारो ऽपि देहान्ते तस्मिन्नेव क्षणे दिवि ।
अभूज्जिनर्षभो नाम श्रीमान् वैश्रवणात्मजः

44.25

अजातशत्रुर्जनकं ज्ञात्वा विगतजीवितम् ।
शरीरमस्य सत्कृत्य निनिन्द निजदुष्कृतम्

44.26

तस्यातितीव्रपापार्तं चित्तं दुर्वृत्तदूषितम् ।
पश्चात्तापाग्निपतनं प्रायश्चित्तमिवाकरोत्

44.27

सो ऽवदद्बत संमोहादैश्वर्यमदलुब्धधीः ।
दुर्वृत्तपातकश्वभ्रे पतितो ऽहमधोमुखः

44.28

श्रुतप्रज्ञादरिद्राणां निजनिद्रासुखापहा ।
चिन्ता दहति गात्राणि खलमन्त्रानुवर्तिनाम्

44.29

पतितस्यावसन्नस्य पापपङ्के प्रमादिनह् ।
अनालम्बस्य संत्राणं जिनसंस्मरणं मम

44.30

इति संचिन्त्य सुचिरं स गत्वा सुगतान्तिकम् ।
जुगुप्समानः कुकृतात्परं संकोचमाययौ

44.31

तत्रापवित्रमात्मानं मन्यमानः सपत्रपः ।
प्रणनाम जिनं दूरात् पापस्पर्शभयादिव

44.32

साश्रुनेत्रः परित्राणं स सर्वज्ञं व्यजिज्ञपत् ।
सकम्पः कायसंसक्तं विधुन्वन्निव दुष्कृतम्

44.33

भगवन् कृतपायो ऽहमासन्ननरकानलः ।
उत्तप्तः करुणासिन्धुं त्वामेव शरणं गतः

44.34

मामियं शोणपर्यन्ता दृष्टिस्ते पुष्करप्रभा

44.35

खलमन्त्रप्रवृत्तेन दुर्वृत्तेन प्रमादिना ।
मया विभवलुब्धेन पापेन निहतः पिता

44.36

इति प्रलापिनस्तस्य वचः श्रुत्वा तथागतः ।
ससर्ह तत्पापरजःशुद्ध्यै पुण्यसरस्वतीम्

44.37

राजन्न चिन्तितः पापः खलेनेव स्वकर्मणा ।
प्रेरितस्त्वं पितृवधे पतितः पापसंकटे

44.38

दुःखं तत्तेन भोक्तव्यं प्राप्तव्यं किल्बिषं त्वया ।
तव तस्य च भूपाल तुल्यैषा भवितव्यता

44.39

निजकण्ठसमुत्कीर्णां ललाटपटवर्तिनी ।
शिलाशकललेखेव निश्चला नियतिर्नृणाम्

44.40

कुर्वता कलुषं कर्म खलप्रेरणया त्वया ।
प्रत्यासन्नामृतश्रेयः स्वहस्तेन तिरस्कृतम्

44.41

अद्यापि यदि ते पापं हन्तुं प्राप्तुं च संपदम् ।
वाञ्छास्ति तत्कुरु मतिं पुण्ये पापशमात्मनि

44.42

दीपवृत्त्या सुखं सूते जीवयत्युज्ज्वलं यशह् ।
अमृतस्य प्रकारो ऽयं सुवृत्तः सत्समागमः

44.43

पश्चात्तापाग्नुपातेन साधुना संगमेन च ।
संकीर्तनेन दानेन पापं नश्यति देहिनाम्

44.44

पात्रं पवित्रयति नैव गुणान् क्षिणोति स्नेहं न संहरति नैव मलं प्रसूते ।
दोषावसानरुचिरश्चलतां न धत्ते सत्संगमः सुकृतसद्मनि को ऽपि दीपः

44.45

गुणिगणविपद्दीक्षादक्षः क्षपाक्षणसंनिभः
सकलनयनव्यापाराणां जनेषु निरोधकः ।
असमविषमायासावासः प्रकाशपरिक्षयात्
सृजति हि महामोहाग्दाढं तमः खलसंगमः

44.46

प्रत्येकबुद्धस्त्वं राजन् कालेन क्षीणकिल्बिषः ।
भविष्यसि विवेकेन कृतालेकः शनैः शनैः

44.47

इति तस्य दयाश्वासं चकार बह्गवान् जिनह् ।
पतितेष्वधिकं सन्तः करुणास्निग्धलोचनाः

44.48

ततः प्रणम्य सुगतं प्रयातः स्वपदं नृपः ।
महतः पापभारस्य विवेद लघुतामिव

44.49

तस्मिन् प्रयाते सर्वज्ञः पृष्टस्तत्कर्म कौतुकात् ।
भिक्षुभिः क्षितिपालस्य पूर्ववृत्तमभाषत

44.50

वाराणस्यां निरायासविलासव्यवसायिनः ।
चत्वारः श्रेष्ठितनया बभूवुः श्रीविशृङ्खलाः

44.51

ते कदाचित् सुखक्षीबा मिथः कलिकथास्थिताः ।
प्रत्येकबुद्धमायान्तं ददृशुर्यौवनोद्धताः

44.52

तं दृष्ट्वा जातविद्वेषाः शमसंयमनिन्दकाः ।
ज्येष्ठः सुन्दरको नाम भ्रातॄन् प्रोवाच सस्मितः

44.53

अयं चीवरपात्राङ्कः पानेन गतजीवितः ।
क्षिबो विधीयते भिक्षुरित्ययं मे मनोरथः

44.54

इत्युक्ते चापलात् तेन द्वितीयः कुन्दराभिधः ।
उवाच भिक्षुं क्षिप्त्वेमं हन्तुमिच्छाम्यहं जले

44.55

ततस्तृतीयो ऽप्यवदत् पापः सुन्दरकाभिधः (?) ।
एष भिक्षुर्वरं तस्यां वीथ्यां निक्षिप्यते जवात्

44.56

चतुर्थो ऽप्यवदत् क्रूरमतिः कन्दरकाभिधः ।
भिक्षोः क्षुरेण क्रियते निश्चर्म चरणद्वयम्

44.57

इति तेषां ब्रुवाणानां कलुषो ऽभून्मनोरथः ।
येन जन्मान्तरे प्रापुस्ते स्वेच्छासदृशं फलम्

44.58

धनं पश्यति लोभान्धः क्रिधान्धः शत्रुमेव च ।
कामान्धह् कामिनीमेव दर्पान्धस्तु न किंचन

44.59

धनिद्भूतविकाराणां प्रयात्यनियतात्मनाम् ।
मदमन्दविचाराणामानन्दः क्लेशबन्धताम्

44.60

क्रुध्यन्त्यकारणमकारणमुत्पतन्ति स्निह्यन्त्यकारणमकारणमामनन्ति ।
मोहाहताः खलु हिताहितनिर्विचाराः तृप्ताः परं नृपशवः समदा भवन्ति

44.61

ज्येष्ठः श्रेष्ठिसुतः पापात्स एवापरजन्मनि ।
शारिर्यानाभिधः शाक्यः पीत्वा मद्यं व्यपद्यत

44.62

द्वितीयो ऽपि महान्नाम शाक्यस्तोये क्षयं गतः ।
तृतीयश्च स्वपुत्रेण व्यस्तो राजा प्रसेनजित्

44.63

बिम्बिसारश्चतुर्थो ऽसौ धृतः पुत्रेण बन्धने ।
प्रयुक्तं धनवत्कर्म भुज्यते हि सवृद्धिकम्

44.64

मोहाहतैरिह हि सद्भिरसद्भिरेषां निःशर्म कर्म सहसैव विडम्ब्यते यत् ।
बाष्पाम्बुपूर्णनयनैरनयोपनीतःमस्तोकशोकविवशैरनुभूयते ऽत्र

44.65

सुगतकथितमेतत् पूर्वजन्मप्रवृत्तं विषविषमविपाकं बिम्बिसारस्य वृत्तम् ।
विबुधसदसि भिक्षुः स्पष्टमाकर्ण्य मेने व्यसनशतनिमित्तं दूषितं चित्तमेव

मूल पाठ: Avadānakalpalatā · Edition: P.L. Vaidya. Avadāna-kalpalatā, 2 vols. Darbhanga: Mithila Institute, 1959 (Buddhist Sanskrit Texts, 22) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc