भाषा

ENहिગુ
ग्रंथ पाठ

अवदानकल्पलता · अध्याय 33

33.1

इति क्षेमेन्द्रविरचितायां बोधिसत्त्वावदानकल्पलतायां विशाखावदानं द्वात्रिंशः पल्लवः ॥
33. नन्दीपनन्दावदानम् ।
स को ऽपि पुण्यप्रशमानुभावः शुद्धात्मनामस्त्यमृतस्वभावः ।
यस्य प्रभावेण भवन्ति सद्यः क्रूरा अपि क्रोधविषप्रमुक्ताः

33.2

पुरा तथागते जेतवनारामविहारिणि ।
तदाज्ञया भिक्षुगणे गिरिकाननचारिणि

33.3

सुमेरुपरिषण्डायां स्थित्वा ध्यानपरायणाः ।
आययुर्भिक्षवः पाण्डुविच्छायवदनाः कृशाः

33.4

ते ऽथ कृत्वा भगवतः पादपद्माभिवन्दनाम् ।
ऊचिरे भिक्षुभिः पृष्टा देहदौर्बल्यकारणम्

33.5

सुमेरुं त्रिगुणावृत्त्या वेष्टयित्वा व्यवस्थितौ ।
अदृष्टौ वैनतेयस्य नागौ नन्दोपनन्दकौ

33.6

तौ सदा त्रिविधोच्छ्वासं सृजतः कीर्णपावकम् ।
भवन्ति भस्म स्पर्शेन सहसैव शिला अपि

33.7

वयं तद्विषनिश्वासैर्निदग्धा ध्यानयोगिनः ।
विवर्णवदनच्छायाह् केवलं कृशतां गताः

33.8

इति तैः कथिते शास्ता भिक्षुसंघार्थितः पुरः ।
नागयोर्दमने योग्यं मौद्गल्यायनमादिशत्

33.9

स सुमेरुं समासाद्य शृङ्गैरालिङ्गिताम्बरम् ।
सुप्तौ ददर्श नागेन्द्रौ योगेनान्तर्हिताकृतिः

33.10

योध्यमानौ शनैस्तेन बुबुधाते यदा न तौ ।
तदा महानागवपुर्भूत्वा स समवेष्टयत्

33.11

प्रबुद्धौ पीडितौ तेन दृष्ट्वा तं भीषणाकृतिम् ।
विंद्रुतौ नररूपेण तस्थतुर्भयविह्वलौ

33.12

नागरूपं परित्यज्य कृत्वा रूपं स्वकं ततः ।
पलायमानावन्योन्यं त् औ मौद्गल्यायनो ऽवदत्

33.13

नागौ क्क गम्यते तूर्ण भयं संत्यज्यतामिदम् ।
न स नागः स्थितस्तत्र येन विद्रावितौ युवाम्

33.14

सर्वथा यदि नस्त्येअ तद्भयाद् यिवयोर्धृतिः ।
क्रियते किं शरण्यस्य न बुद्धस्याभिवन्दनम्

33.15

इति तेनोक्तमाकर्ण्य विनयात्तौ तमूचतुः ।
प्रसादः क्रियतामार्य भगवद्दर्शनेन नौ

33.16

इति ब्रवाणौ नागेन्द्रौ नीत्वा भगवतो ऽन्तिकम् ।
स त द्वृत्तान्तमावेद्य प्रणम्य समुपाविशत्

33.17

भगवानथ नागेन्द्रौ बभाषे शरणागतौ ।
प्रणामं चक्रतू रत्नप्रभाभूषीतभूतलौ

33.18

शिक्षापदानि संप्राप्य सर्वभूताभयप्रदौ ।
शरणप्राप्तिसमयादधुना निर्भयौ युवाम्

33.19

इत्यालोकनमात्रेण दोषद्वेषविवर्जितौ ।
कृतौ भगवता सम्यक् जग्मतुस्तं प्रणम्य तौ

33.20

संदर्शनेनैव महाशयानां प्रभापदेशेन शरीरलग्नैः ।
सींस्रा अपि द्वेषविषोष्मतप्ताः शमामृतैः शीतलतां व्रजन्ति

33.21

तत्पूर्वजन्मवृत्ताण्तं भिक्षुभिर्भगवान् जिनः ।
प्रभावविस्मयात्पृष्टः सर्वदर्शी जगादा तान्

33.22

कृकिर्नाम पुरा श्रीमान् वाराणस्यां नरेश्वरः ।
काश्यपाख्याद् भगवतः प्राप्तवान् धर्मशासनम्

33.23

अमात्ययोः स विन्यस्य राज्यं नन्दोपनन्दयोः ।
बभूव बोधिसंसक्तः सत्यदर्शननिर्वृतः

33.24

धर्मदह्र्ममयं राज्यं कृत्वा तौ तस्य मन्त्रिणौ ।
सर्वोपकरणैर्युक्तं विहारं काश्यपाय च

33.25

कालेन जातौ नागेन्द्रावेतौ नन्दोपनन्दकौ ।
विहारार्पणपुण्येन पदं मेरुरभूत्तयोः

33.26

इति जिननिगदितफणिवरचरितं परतनुपरिणतिपरिचितसुकृतम् ।
श्रुतवति शमनयमुनिपरिनिवहे विषधरनियमनगुणनुतिरुदभूत्

मूल पाठ: Avadānakalpalatā · Edition: P.L. Vaidya. Avadāna-kalpalatā, 2 vols. Darbhanga: Mithila Institute, 1959 (Buddhist Sanskrit Texts, 22) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc