भाषा

ENहिગુ
ग्रंथ पाठ

अथर्वप्रायश्चित्तानि · अध्याय 2

2.1

इति यज्ञप्रायश्चित्तसूत्रे प्रथमो ऽध्यायह् समाप्तः ।
(अव्प्र्_2.1:78।3-4) अथ यस्य पुरोदाशे ऽमेध्यम् आपद्येत का तत्र प्रायश्चित्तिर् ।
(अव्प्र्_2.1:78।4-6) आज्येनाभिघार्य <अप्स्व् अन्तर् [प्स् 1.2.4, ;स्स् 1.4.4]> इति सकृद् एवाप्सु हुत्वाथाहवनीय आज्याहुती जुहुयाद् <असपत्नं पुरस्ताद् [प्स् 10.8.4।12.6.5, ;स्स् 19.16.1]> इत्य् एताभ्याम् ऋग्भ्याम् ।
(अव्प्र्_2.1:78।6-7) अथ यस्य पुरोडाशः क्षामो भवति का तत्र प्रायश्चित्तिः ।
(अव्प्र्_2.1:78।7-8) सो ऽग्नये क्षामवते ऽष्टाकपालं पुरोडाशं निर्वपेत् ।
(अव्प्र्_2.1:78।8) नित्याः पुरस्ताद्धोमाः ।
(अव्प्र्_2.1:78।8-10) संस्थितहोमेषु <पृतनाजितं सहमानम् [प्स् 20.33.9, ;स्स् 7.63.1]> इति मध्यत ओप्य तथा संस्रावभागैः संस्थापयेत् ।
(अव्प्र्_2.1:78।10-11) अथाहवनीये ताभ्याम् ऋग्भ्याम् ।
(अव्प्र्_2.1:78।11-12) अथ यस्याग्निहोत्रं तृतीये नित्यहोमकाले विछिद्येत का तत्र प्रायश्चित्तिः ।
(अव्प्र्_2.1:78।12-13) सो ऽग्नये तन्तुमते ऽष्टाकपालं पुरोडाशं निर्वपेत् ।
(अव्प्र्_2.1:78।13) नित्याः पुरस्ताद्धोमाः ।
(अव्प्र्_2.1:78।13-16) संस्थितहोमेषु <त्वम् अग्ने सप्रथा असि जुष्टो होता वरेण्यः । त्वया यज्ञं वि तन्वते [प्स्क् 20.51.7]> इति मध्यत ओप्य संस्रावभागैः सम्स्थापयेत् ।
% नोते मन्त्र fरोम् प्स्क् 20 उन्त्रचेद् इन् प्सो
(अव्प्र्_2.1:78।16-17) <असपत्नं पुरस्ताद् [सेए अबोवे]> इत्य् एताभ्याम् ऋग्भ्याम् ।
(अव्प्र्_2.1:78।17-18) अथ यस्य सांनाय्यं व्यापद्येत का तत्र प्रायश्चित्तिः ।
(अव्प्र्_2.1:78।18) प्रातर्दोहं द्वैधं कृत्वा तेन यजेत ।
(अव्प्र्_2.1:78।19-20) अथ आहवनीय आज्याहुतिं जुहुयात् <त्रातारम् इन्द्रम् [सेए अबोवे]> इत्य् एतयर्चा ।
(अव्प्र्_2.1:78।20-21) प्रातर्दोहं चेद् अपहरेयुः सायंदोहं द्वैधं कृत्वा तेन यजेत ।
(अव्प्र्_2.1:78।21-22) अथाहवनीय आज्याहुतिं जुहुयात् <त्रातारम् इन्द्रम् [सेए अबोवे]> इत्य् एतयर्चा ।
(अव्प्र्_2.1:78।22-23) अथ चेत् सर्वम् एव सांनाय्यं व्यापद्येत का तत्र प्रायश्चित्तिर् ।
(अव्प्र्_2.1:78।23-25) ऐन्द्रं पुरोडाशं माहेन्द्रं वा सांनाय्यस्यायतने प्रतिष्ठाप्य तेन यजेत ।
(अव्प्र्_2.1:78।25-26) अथाहवनीय आज्याहुतिं जुहुयात् <त्रातारम् इन्द्रम् [सेए अबोवे]> इत्य् एतयर्चा ।
(अव्प्र्_2.1:78।26-27) अथ यस्य हवींषि व्यापद्येरन् का तत्र प्रायश्चित्तिर् ।
(अव्प्र्_2.1:78।27) आज्यस्यैतानि निरुप्य तेन यजेत ।
(अव्प्र्_2.1:78-79।27-1) अथाहवनीय आज्याहुतिं जुहुयात् <त्रातारम् इन्द्रम् [सेए अबोवे]> इत्य् एतयर्चा ।
(अव्प्र्_2.1:79।1-2) अथ चेत् सर्वाण्य् एव हवींषि व्यापद्येरन् का तत्र प्रायश्चित्तिर् ।
(अव्प्र्_2.1:79।2-3) आज्यस्यैतानि निरुप्यैतयाज्यहविषेष्ट्या यजेरन् ।
(अव्प्र्_2.1:79।3) इत्य् अपि हि कीर्तित[ं] ।
(अव्प्र्_2.1:79।3) मध्या[स्] त्व् एव भवन्ति ।
(अव्प्र्_2.1:79।4) तैर् यजेत ।
(अव्प्र्_2.1:79।4-5) अथाहवनीय आज्याहुतिं जुहुयात् <त्रातारम् इन्द्रम् [सेए अबोवे]> इत्य् एतयर्चा

2.2

(अव्प्र्_2.2:79।5-6) अथातो दृष्टाभ्युद्दृष्टाणीत्य् आचक्षते ।
(अव्प्र्_2.2:79।6) अद्य सायम् अमावास्या भविष्यतीति ।
(अव्प्र्_2.2:79।6-7) न प्रतिहरणाय च स स्यात् ।
(अव्प्र्_2.2:79।7-8) अथ स यो ऽन्यो ब्रूयाद् अदर्शं चाद्य पुरस्ताद् इति तं तु किम् इति ब्रूयात् ।
(अव्प्र्_2.2:79।8) अथ वा ।
(अव्प्र्_2.2:79।8-9) स स्याद् एवाधस् ।
(अव्प्र्_2.2:79।9) ताम् एव प्रायश्चित्तिं कृत्वा यजेतेति द्वैपायनः ।
(अव्प्र्_2.2:79।10) कृतस्य वै प्रायश्चित्तिर् भवतीति लाङ्गलिः ।
(अव्प्र्_2.2:79।10-11) समाप्यैव तेन हविषा यद्दैवतं तद् धवि[ः] स्यात् ।
(अव्प्र्_2.2:79।12-13) अथान्यद् धविर् निर्वपेद् अग्नये दात्रे पुरोडाशम् इन्द्राय प्रदात्रे पुरोडाशं विष्नवे शिपिविष्टाय पुरोडाशम् ।
(अव्प्र्_2.2:79।13-14) अथैतान् यथानिरुप्तांस् त्रेधा कुर्याद् यथा ब्राह्मणोक्तं ।
(अव्प्र्_2.2:79।15) नित्याः पुरस्तद्धोमाः ।
(अव्प्र्_2.2:79-80।15-1) संस्थितहोमेष्व् <अग्निं वयं त्रातारं हवामहे य इमं त्रायताम् अस्माद् यक्ष्माद् अस्माद् आमयत[ः] । [प्स् 2.50.1]>
% नोते प्स् मन्त्र
(अव्प्र्_2.2:80।1) <त्रातारम् इन्द्रम् [सेए अबोवे]> ।
(अव्प्र्_2.2:80।1-2) <उरु विष्णो विक्रमस्व [प्स् 20.7.7, ;स्स् 7.26.3च्]>_इति मध्यत ओप्य संस्रावभागैः संस्थापयेत् ।
(अव्प्र्_2.2:80।2-3) पाथिकृतीत्य् आचक्षते पौर्णमास्यमावास्येति चातिपन्ने

2.3

(अव्प्र्_2.3:81।1) अथातो ऽभ्यु[द्]दृष्टानीत्य् आचक्षते ।
(अव्प्र्_2.3:81।1-2) अद्य सायम् अमावास्या भविष्यतीति न प्रतिहरणाय च स स्यात् ।
(अव्प्र्_2.3:81।2-4) अथ स यो ऽन्यो ब्रूयाद् अदर्शं चाद्य पश्चाद् इति तं तु किम् इति ब्रूयात् ।
(अव्प्र्_2.3:81।4) अथ वा स स्याद् एवाधस् ।
(अव्प्र्_2.3:81।4-5) ताम् एव प्रायश्चित्तिं कृत्वा यजेतेति द्वैपायनः ।
(अव्प्र्_2.3:81।5-6) कृतस्य वै प्रायश्चित्तिर् भवतीति लाङ्गलिर् ।
(अव्प्र्_2.3:81।6-8) <येन पथा वैवस्वतो यमो राजा नो ययौ अग्निर् नस् तेन नयतु प्रजा[न]न् वैश्वानरः पथिकृद् विश्वगृष्टिः [प्स् 5.6.7]> ।
% नोते प्स् मन्त्र, नोत् च्लोसेद् ब्य् इति
(अव्प्र्_2.3:81।8-9) समाप्यैव तेन हविषा यद् दैवतं तद् धविः स्यात् ।
(अव्प्र्_2.3:81।9) अथान्यद् धविर् निर्वपेत् ।
(अव्प्र्_2.3:81।9-11) अग्नये पथिकृते पुरोडाशम् इन्द्राय वृत्रघ्ने पुरोडाशं वैश्वानरं द्वादशकपालं पुरोडाशं ।
(अव्प्र्_2.3:81।11) नित्याः पुरस्ताद्धोमाः ।
(अव्प्र्_2.3:81।12) संस्थितहोमेषु <त्वम् अग्ने सप्रथा असि [सेए अबोवे]> ।
(अव्प्र्_2.3:81।12-13) <येन पथा वैवस्वतः [सेए अबोवे]> ।
(अव्प्र्_2.3:81।13) <शास इत्था महान् असि [प्स् 2.88.1, ;स्स् 1.20.4]> ।
(अव्प्र्_2.3:81।13-14) <वैश्वानरो न ऊतये [प्स् 19.9.4, ;स्स् 6.35.1]> इति मध्यत ओप्य संस्रावभागैः संस्थापयेत् ।
(अव्प्र्_2.3:81।14-15) महापाथिकृतीत्य् आचक्षते ।
(अव्प्र्_2.3:81।15) उभयोर् अपि पत्तयोस् ।
(अव्प्र्_2.3:81।15-16) तद् आहुर् न ते विदुर् ये तथा कुर्वन्त्य् ।
(अव्प्र्_2.3:81।16) अथ नु कथम् इति ।
(अव्प्र्_2.3:81।16-18) गार्हपत्याज्यं विलायोत्पूय चतुर्गृहीतं गृहीत्वाहवनीयगार्हपत्याव् अन्तरेणातिव्रज्य जुहुयात् ।
(अव्प्र्_2.3:81।18-20) <असौ य उदयात् पुरो वसानो नीललोहितो ऽथ दृष्टम् अदृष्टं नो दुष्कृतं तत् स्वाहा [?]>_इत्य् ।
(अव्प्र्_2.3:81।20) एवम् एवाभ्यु[द्]दृष्टे ।
(अव्प्र्_2.3:81।20-22) <असौ य उदयात् पश्चाद् वसानो नीललोहितो [त्य] ऽथ दृष्टम् अदृष्टं नो दुष्कृतं करत् स्वाहा [?]>_इति ।
% च्f. wइथ् थे मन्त्र(स्) जुस्त् qउओतेद्: प्स् 20.25.1द्
(अव्प्र्_2.3:81-82।22-1) स य एवम् एतेन तेजसाज्येन यशसा प्रीणाति सो ऽस्यैष दृष्टः प्राणान् यशसा प्रीणाति

2.4

(अव्प्र्_2.4:82।1-2) अथ यो ऽहुत्वा नवं प्राश्नीयाद् अग्नौ वागमयेत् का तत्र प्रायश्चित्तिः ।
(अव्प्र्_2.4:82।2-3) सो ऽग्नये व्रतपतये ऽष्टाकपालं पुरोडाशं निर्वपेत् ।
(अव्प्र्_2.4:82।3) नित्याः पुरस्ताद्धोमाः ।
(अव्प्र्_2.4:82।3-4) संस्थितहोमेष्व् <अग्ने प्राश्नाहि प्रथमस् त्वं हि वेत्थ यथा हविः [?]> ।
(अव्प्र्_2.4:82।4-6) <वन्वन् हविर् यथा देवेभ्यो यजमानं च वर्द्धय [?]> <अग्निश् च देव सवितस् [प्स् 19.27.1]> ।
(अव्प्र्_2.4:82।6-7) <त्वम् अग्ने व्रतपा असि [प्स् 19.47.4, ;स्स् 19.59.1]>। <इदावत्सराय [प्स् 19.51.1]>_इति मध्यत ओप्य संस्रावभागैः संस्थापयेत् ।
% नोते प्स् मन्त्रस्
(अव्प्र्_2.4:82।7-11) यद्य् अनुगतम् अग्निं शङ्कमाना मन्थेयुर् मथिते ऽग्निम् अधिगछेयुर् <भद्राद् अधि श्रेयः प्रेहि [प्स् 20.4.2, ;स्स् 7.8.1]>_इति व्याहृतिभिश् च मथितं समारोप्याथेतरस्मिन् <पुनस् त्वा प्राणः [प्स् 12.19.3 (20.14.2?)]>_इति पञ्चभिर् आज्याहुतीर् हुत्वा यथोक्तं प्राकृता वृत्तिर् ।
(अव्प्र्_2.4:82।11-12) अथ यस्याग्निहोत्री घर्मदुघा दुह्यमाना वाश्येत् का तत्र प्रायश्चित्तिर् ।
(अव्प्र्_2.4:82।12-15) अशनापिपासे एवैषा यजमानस्य संप्रख्याय वाश्यतीति तां तृणम् अप्य् आदयेत् <सूयवसाद् भगवती [प्स् 16.69.10।20.12.4, ;स्स् 7.73.11।9.10.20]>_इत्य् एतयर्चा ।
(अव्प्र्_2.4:82।15-16) अथाहवनीय आज्याहुतीर् जुहुयाद् <धाता दधातु नः [प्स् 1.39.4, ;स्स् 7.17.1]> <पूर्णा दर्व [प्स् 1.106.5, ;स्स् 3.10.7]> इति द्वाभ्याम् ऋग्भ्याम् ।
(अव्प्र्_2.4:82।16-18) अथ यस्याग्निहोत्री घर्मदुघा (वा) दुह्यमानोपविशेत् का तत्र प्रायश्चित्तिर् ।
(अव्प्र्_2.4:82-83।18-1) भयं वा एषा यजमानस्य प्रख्यायोपविशति ।
(अव्प्र्_2.4:83।1-2) तस्या ऊधस्य् उदपात्रं निनयेत्_<शं नो देवीर् अभिष्टये [प्स् 1.1, ;स्स् 1.6.1]>_इति द्वाभ्यां ।
(अव्प्र्_2.4:83।2-4) ताम् अनुमन्त्रयते <यस्माद् भीता निषीदसि ततो नो अभयं कृधि पशून् नः सर्वान् गोपाय नमो रुद्राय मीढुषे [?]>_इत्य् ।
(अव्प्र्_2.4:83।4-5) अथैनाम् उत्थापयत्य् <उत् तिस्ठ देव्य् अदिते देवान् यज्ञेन बोधय । इन्द्राय कृण्वती भागं मित्राय वरुणाय च [च्f. ;स्स् 19.63.1]>_इत्य् ।
(अव्प्र्_2.4:83।5-8) उत्थिताम् अनुमन्त्रयते <उद् अस्थाद् देव्य् अदिते देवान् यज्ञेन बोधय । आयुश् च तस्य भूतिं च यजमानं च वर्धय [च्f. ;स्स् 19.63.1]>_इत्य् ।
(अव्प्र्_2.4:83।8-10) अथाहवनीय आज्याहुतीर् जुहुयान् <मा नो विदन् [प्स् 1.20.1, ;स्स् 1.19.1]> इत्य् एतैर् अभयै रौद्रैश् च

2.5

(अव्प्र्_2.5:83।10-12) अथ यस्य वपाम् आहुतिं वा गृहीतां श्येनः शकुनिः श्वा वान्यो वाहरेद् वातो वा विवमेत् का तत्र प्रायश्चित्तिर् ।
(अव्प्र्_2.5:83।12-13) <दिवं पृथिवीम् [प्स् 3.12.7, ;स्स् 3.21.7]> इत्य् अभिमन्त्र्याथाहवनीय आज्याहुतीर् जुहुयाद् <वात आ वातु भेषजम् [प्स् 19.46.7, कौश्स् 117.3-4]> इति सूक्तेन ।
(अव्प्र्_2.5:83।14) अथ यस्य सोमग्रहो गृहीतो ऽतिस्रावेत् का तत्र प्रायश्चित्तिर् ।
(अव्प्र्_2.5:83।15-16) <द्रप्सश् चस्कन्द [प्स् 18.78.7।20.13.7, ;स्स् 18.4.28]>_इत्य् अभिमन्त्र्याथाहवनीय आज्याहुतीर् जुहुयान् <मनसे चेतसे धिये [प्स् 19.10.1, ;स्स् 6.41.1]>_इति सूक्तेन ।
(अव्प्र्_2.5:83।16-17) अथ यस्याष्टापदी वशा स्यात् का तत्र प्रायश्चित्तिर् ।
(अव्प्र्_2.5:83।17-18) दर्भेण हिरण्यं बद्ध्वाध्यधि गर्भं हिरण्यगर्भेण जुहुयात् ।
(अव्प्र्_2.5:83।18-23) यथामुं सा गर्भम् अभ्यश्चोतयद् यथामुं गर्भं सदर्भम् इव सहिरण्यं तम् उद्धृत्य प्रक्षाल्यानुपदं श्रपयित्वा प्राक्शिरसम् उदक्पाद्यं कामसूक्तेन जुहुयाद् अनंगन् <धीती वा [प्स् 20.1.1, ;स्स् 7.1.1]>_इत्य् अष्टभिर् नभस्वतीभिर् हिरण्यगर्भेण वा । [एद्. धीति]
(अव्प्र्_2.5:83।23-24) अथ यस्यासमाप्ते कर्मणि तान्त्रिको ऽग्निर् उपशाम्येत् का तत्र प्रायश्चित्तिर् ।
(अव्प्र्_2.5:83-84।24-2) <यं त्वम् अग्ने [प्स् 18.69.4, ;स्स् 18.3.6]> <पुनस् त्वादित्या रुद्रा वसवः [प्स् 17.30.6, ;स्स् 12.2.6]>_इत्य् अन्यं प्रणीय प्रज्वाल्य <ममाग्ने वर्चः [प्स् 5.4.1, ;स्स् 5.3.1]>_इति सूक्तेनोपसमाधाय कर्मशेषम् समाप्नुयुर् ।
(अव्प्र्_2.5:84।2-5) अथ यस्यासमाप्ते कर्मणि बर्हिर् आदीप्येत तत्र तन् निर्वाप्य जुहुयाद् <यद् अग्निर् बर्हिर् अदहद् वेद्या वासो अपों भत त्वम् एव नो जातवेदो दुरितात् पाहि तस्मात् [अव्परिश् 37.5.2]> ॥
(अव्प्र्_2.5:84।5-6) <निर्दग्धा नो अमित्रा यथेदं बर्हिस् तथा । अमित्राणां श्रियं भूतिं ताम् एषां परिनिर्जहि [अव्परिश् 37.5.3]> ।
(अव्प्र्_2.5:84।7-8) <यत्कामास् ते जुहुमस् तन् नो अस्तु विशाम्पते । ये देवा यज्ञम् आयान्ति ते नो रक्षन्तु सर्वतः [अव्परिश् 37.5.4]> ।
(अव्प्र्_2.5:84।8-9) <अवदग्धं दुःस्वप्न्यम् अवदग्धा अरातयः सर्वाश् च यातुधान्यः । मा त्वा दभ्यन् यातुधानाः [अव्परिश् 37.5.5 (प्स् 7.7.9)]> ।
(अव्प्र्_2.5:84।9-11) <मा ब्रध्नः शर्मभिः ष्टुहि दर्भो राजा समुद्रियः । परि नः पातु विश्वतः [अव्परिश् 37.5.6 (प्स् 7.7.10)]> ।
(अव्प्र्_2.5:84।11-12) अथान्यद् बर्हिर् उपकल्प्योदकेन संप्रोक्ष्य पुनः स्टृणाति ।
(अव्प्र्_2.5:84।12-14) <इदं बर्हिर् अमृतेनेह सिक्तं हिरण्मयं हरितं तत् स्तृतं नः [अव्परि;स् 37.5.8]> ।
(अव्प्र्_2.5:84।14-15) <तद् वै पुराणम् अभिनवं स्तृणीष्व वासः प्रशस्तं प्रति मे गृहाण [अव्परि;स् 37.5.8]>_इति ।
(अव्प्र्_2.5:84।15-16) अथ यस्य पित्र्ये प्रणीतो ऽग्निर् उपशाम्येत् का तत्र प्रायश्चित्तिर् ।
(अव्प्र्_2.5:84।16-20) भस्मालभ्याभिमन्त्रयेद् <द्विषन्तम् अग्ने द्विषतां च वित्तं । प्रजां द्विषद्भ्यो नय दक्षिणेन । पित्र्ये प्रणीत उपशाम्यमानः पाप्मानम् अग्ने तम् इतो नुदस्व [?]> ।
(अव्प्र्_2.5:84।20-26) <द्विषन्तम् अग्ने द्विषतां च वित्तं गच्छ त्वम् आदाय परावतो ऽन्यान् पित्र्ये प्रणीत उपशाम्यमान इह प्रजां दीर्घम् आयुश् च धेहि । यस् त्वम् अग्ने प्रमत्तानां प्रणीत उपशाम्यसि [?]> <सुकल्पम् अग्ने त[त्] त्वया पुनस् त्वोद्दीपयामसि [प्स् 17.30.5च्द्, ;स्स् 12.2.5च्द्]>_इत्य् उच्यमाने ऽग्निं प्रणीय प्रज्वाल्य_<इन्द्रस्य कुक्षिर् असि [प्स् 20.10.9, ;स्स् 7.111.1]>_इति द्वाभ्यां समिधाव् अभ्यादध्यात्

2.6

(अव्प्र्_2.6:84-85।26-4) अथ यस्य यूपो विरोहेद् असमाप्ते कर्मणि तत्र जुहुयात् <यूपो विरोहञ् छतशाखो अध्वरः समावृतो मोहयिष्यन् यजमानस्य लोके । वेदाभिगुप्तो ब्रह्मणा परिवृतो ऽथर्वभिः शान्तः सुकृताम् एतु लोकम् ॥ यूपो ह्य् अरुक्षद् द्विषतां वधाय न मे यज्ञो यजमानश् च रिष्यात् । सप्तर्षीणां सुकृतां यत्र लोकस् तत्रेमं यज्ञं यजमानं च धेहि [कौश्स् 125.2]> ॥
(अव्प्र्_2.6:85।4-6) <यो वनस्पतीनाम् उपतापो बभूव यद् वा गृहान् घोरम् उताजगाम तन् निर्जगामो हविषा घृतेन शं नो अस्तु द्विपदे शं चतुष्पदे [कौश्स् 135.9]> ॥
(अव्प्र्_2.6:85।6-9) <यो वनस्पतीनाम् उपतापो न आगाद् यद् वा यज्ञं नो ऽद्भुतम् आजगाम । सर्वं तद् अग्ने हुतम् अस्तु भागशः शिवान् वयम् उत्तरेमाभि वाजान् । त्वष्ट्रे स्वाहा [कौश्स् 135.9]>_इति हुत्वा ।
(अव्प्र्_2.6:85।9-10) <त्वष्टा मे दैव्यं वचः [प्स् 19.2.1, ;स्स् 6.4.1]>_इति त्वाष्ट्रं वैश्वरूपम् आलभेत ।
(अव्प्र्_2.6:85।10-11) अथ यस्यासमाप्ते कर्मणि यूपः प्रपतेत् तत्र जुहुयात् ।
(अव्प्र्_2.6:85।12-15) <य इन्द्रेण सृष्टो यदि वा मरुद्भिर् यूपः पपात द्विषतां वधाय । तं निर्जगामो हविषा घृतेन शं नो अस्तु द्विपदे शं चतुष्पदे ॥ त्वष्ट्रे स्वाहा [?]>_इति हुत्वा <त्वष्टा मे दैव्यं वचः [सेए अबोवे]>_इति त्वाष्ट्रं सर्वरूपम् आलभेत ।
(अव्प्र्_2.6:85।15-19) अथ यस्यासमाप्ते कर्मणि यूपे ध्वाङ्क्षो निपतेत् तत्र जुहुयात् <आ पवस्व हिरण्यवद् अश्वावत् सोम वीरवत् । वाजं गोमन्तम् आ भर स्वाहा [.र्व् 9.63.18]>_इति मध्यत ओप्य संस्रावभागैः संस्थापयेत् ।
(अव्प्र्_2.6:85-86।19-1) यदि दुष्टं हविः स्यात् कीटावपन्नं वा तत् तस्मिन् भस्मन्य् उपवपेद् अप्सु वेत्य् एके ।
(अव्प्र्_2.6:86।1-2) <भुवाय स्वाहा । भुवनाय स्वाहा । भुवनपतये स्वाहा । भुवां पतये स्वाहा । विष्णवे स्वाहेति ।
(अव्प्र्_2.6:86।2-3) एते ह वै देवानाम् ऋत्विजस् ।
(अव्प्र्_2.6:86।3-4) त एवास्य तद् धुतम् इष्टं कुर्वन्ति ।
(अव्प्र्_2.6:86।4-6) यत् प्रयाजेष्व् अहुतेषु प्राग् अङ्गारः स्कन्देद् अध्वर्यवे च यजमानाय च पशुभ्यश् चाघं स्याद् यदि दक्षिणा ब्रह्मणे च यजमानाय च ।
(अव्प्र्_2.6:86।6-7) यदि प्रत्यग् घोत्रे च पत्न्यै च । [एद्. धोत्रे]
(अव्प्र्_2.6:86।7-8) यद्य् उदग् अग्नीधे च यजमानाय च पशुभ्यश् चाघं स्यात् ।
(अव्प्र्_2.6:86।8) तम् अनुप्रहरेत् ।
(अव्प्र्_2.6:86।9) <सहस्रसृङ्गः [प्स् 18.16.2, ;स्स् 13.1.2]> । इत्य् एतयर्चा

2.7

(अव्प्र्_2.7:86-87।9-1) अथ यस्याग्नयो मिथः संसृज्येरन् का तत्र प्रायश्चित्तिः ।
(अव्प्र्_2.7:87।1-2) सो ऽग्नये वीतये ऽष्टाकपालं पुरोडाशं (प्राङ्) निर्वपेत् ।
(अव्प्र्_2.7:87।2-3) नित्याः पुरस्ताद्धोमाः ।
(अव्प्र्_2.7:87।3-5) संस्थितहोमेष्व् <अग्न आयाहि वीतये गृणानो हव्यदातये नि होता सत्सि बर्हिषि [स्व् 1.1]>_इति मध्यत ओप्य संस्रावभागैः संस्थापयेत् ।
(अव्प्र्_2.7:87।5-6) अथ यस्याग्नयो ग्राम्येणाग्निना संसृज्येरन् का तत्र प्रायश्चित्तिः ।
(अव्प्र्_2.7:87।6-7) सो ऽग्नये विविचये ऽष्टाकपालं पुरोडाशं निर्वपेत् ।
(अव्प्र्_2.7:87।7) नित्याः पुरस्ताद्धोमाः ।
(अव्प्र्_2.7:87।8-10) संस्थितहोमेष्व् <अग्निम् ई;ले पुरोहितं विविचिं रत्नधातमं प्र ण आयूंषि तारिषत् [?]> । इति मध्यत ओप्य संस्रावभागैः संस्थापयेत् ।
(अव्प्र्_2.7:87।10-11) अथ यस्याग्नयः शावेनाग्निना संसृज्येरन् का तत्र प्रायश्चित्तिः ।
(अव्प्र्_2.7:87।11-12) सो ऽग्नये शुचये ऽष्टाकपालं पुरोडाशं निर्वपेत् ।
(अव्प्र्_2.7:87।12) नित्याः पुरस्तद्धोमाः ।
(अव्प्र्_2.7:87।12-16) संस्थितहोमेष्व् । <अग्निः शुचिव्रततमः शुचिर् विप्रः शुचिः कविः । शुची रोचत आहुतः [त्स् 1.3.14.8ब्ब्, .र्व् 8.44.21]> ॥ <उद् अग्ने शुचयस् तव शुक्रा भ्राजन्त ईरते । तव ज्योतींष्य् अर्चयः [त्स् 1.3.14.8च्च्, .र्व् 8.44.17] स्वाहेति मध्यत ओप्य संस्रावभागैः संस्थापयेत् ।
(अव्प्र्_2.7:87।16-17) अथ यस्याग्नयो दावेनाग्निना संसृज्येरन् का तत्र प्रायश्चित्तिर् ।
(अव्प्र्_2.7:87-88।17-2) अन्नाद्यं वा एष यजमानस्य संवृज्यावृत उप तो ऽरण्याद् ग्रामम् अध्य् अभ्युपैति ।
(अव्प्र्_2.7:88।2-3) सो ऽग्नये ऽन्नादाया ऽन्नपतये ऽस्टाकपालं पुरोडाशं निर्वपेत् ।
(अव्प्र्_2.7:88।3) नित्याः पुरस्ताद्धोमाः ।
(अव्प्र्_2.7:88।4-5) संस्थितहोमेष्व् । <अपश्चादघ्वान्नस्य भूयासम् [प्स् 20.43.9, ;स्स् 19.55.5]> । इति मध्यत ओप्य संस्रावभागैः संस्थापयेत् ।
(अव्प्र्_2.7:88।4-6) अथ यस्याग्नयो दिव्येनाग्निना संसृज्येरन् का तत्र प्रायश्चित्तिः ।
(अव्प्र्_2.7:88।6-7) सो ऽग्नये ज्योतिष्मते ऽष्टाकपालं पुरोडाशं निर्वपेत् ।
(अव्प्र्_2.7:88।7-8) नित्याः पुरस्ताद्धोमाः ।
(अव्प्र्_2.7:88।8-10) संस्थितहोमेषु । <विद्योतते द्योतते । विद्युतो ऽग्निर् जिह्वा । विद्युता भ्राजन्ति द्योतत आ च द्योतत [? च्f. प्स् 16.151.5अ, 16.150.7अ, 8अ]> । इति मध्यत ओप्य संस्रावभागैः संस्थापयेत् ।
(अव्प्र्_2.7:88।11) अथ यस्याग्नयो ऽभिप्लवेरन् का तत्र प्रायश्चित्तिः ।
(अव्प्र्_2.7:88।11-12) सो ऽग्नये ऽप्सुमते ऽष्टाकपालं पुरोडाशं निर्वपेत् ।
(अव्प्र्_2.7:88।12-13) नित्याः पुरस्ताद्धोमाः ।
(अव्प्र्_2.7:88।13-14) संस्थितहोमेष्व् <अपाम् अग्निस् तनूभिः [प्स् 5.7.8, ;स्स् 4.15.10]> । इति मध्यत ओप्य संस्रावभागैः संस्थापयेत् ।
(अव्प्र्_2.7:88।14-15) अथ यद्य् अनुगतम् अभ्युद्धरेत् का तत्र प्रायश्चित्तिः ।
(अव्प्र्_2.7:88-89।15-1) सो ऽग्नये ऽग्निमते ऽष्टाकपालं पुरोडाशं निर्वपेत् ।
(अव्प्र्_2.7:89।1-2) नित्याः पुरस्ताद्धोमाः ।
(अव्प्र्_2.7:89।2-7) संस्थितहोमेषु । <शिवौ भवतम् अद्य नः [कौश्स् 108.2] । <अग्निनाग्निः संसृज्यते कविर् गृहपतिर् युवा हव्यवाड् जुह्वास्यः [कौश्स् 108.2]> । <त्वं ह्य् अग्ने अग्निना विप्रो विप्रेण सन् सता सखा सख्या समिध्यसे [कौश्स् 108.2]> ॥ <स नो रास्व सुवीर्यम् [.र्व् 5.13.5च्; 8.98.12च्; ;स्स् 20.108.3च्]> इति मध्यत ओप्याथ संस्रावभागैः संस्थापयेत्

2.8

(अव्प्र्_2.8:89।7-8) अथ य आहिताग्निस् तन्त्रे प्रवासे मृतः स्यात् कथं तत्र कुर्यात् ।
(अव्प्र्_2.8:89।8-9) कथम् अस्याग्निहोत्रं जुहुयुर् ।
(अव्प्र्_2.8:89।9-10) अन्यवत्साया गोः पयसेत्य् आहुर् अदुग्धाया वा शूद्रदुग्धाया वा ।
(अव्प्र्_2.8:89।10-12) असर्वं वा एतत् पयो यद् अन्यवत्साया गोः शूद्रदुग्धाया वासर्वं वा एतद् अग्निहोत्रं यन् मृतस्याग्निहोत्रं ।
(अव्प्र्_2.8:89-90।12-1) तावद् अग्निं परिचरेयुर् यावद् अस्थ्नाम् आहरणम् ।
(अव्प्र्_2.8:90।2) आहृत्याग्निभिः संस्पृश्य तं पितृमेधेन समाप्नुयुर् ।
(अव्प्र्_2.8:90।3-4) अथ यः समारोपितासमारोपिते मृतः स्यात् कथं तत्र कुर्यात् ।
(अव्प्र्_2.8:90।4-5) सो ऽग्नये तन्तुमते पथिकृते व्रतभृते पुरोडाशं निर्वपेद् एककपालं सप्तकपालं नवकपालं ।
(अव्प्र्_2.8:90।5-6) नित्याः पुरस्ताद्धोमाः ।
(अव्प्र्_2.8:90।6-8) संस्थितहोमेषु । <त्वम् अग्ने सप्रथा असि [सेए अबोवे] <येन पथा वैवस्वतः [सेए अबोवे] <त्वम् अग्ने व्रतपा असि [सेए अबोवे]>_इति मध्यत ओप्य (अथ) संस्रावभागैः संस्थापयेत् ।
(अव्प्र्_2.8:90।8-10) अथ नष्टे अरणी स्याताम् अन्ययोर् अरण्योर् विहृत्य तं मथित्वैताभिर् एव हुत्वाथैनं समाप्नुयुः

2.9

(अव्प्र्_2.9:90-91।10-1) अथ यस्योपाकृतः पशुः प्रपतेत् का तत्र प्रायश्चित्तिः ।
(अव्प्र्_2.9:91।1-3) स्पृतिभिर् जुहुयाद् वायवे नियुत्वते यवागूं निरुप्यान्यं तद्रूपं तद्वर्णम् आलभेत ।
(अव्प्र्_2.9:91।3-4) आज्येनाभिग्बार्य पर्यग्नि कृत्वोपाकुर्वीत ।
(अव्प्र्_2.9:91।4) एते वै देवस्पृतयो ।
(अव्प्र्_2.9:91-92।4-4) <अग्नेष् टे वाचं स्पृणोमि स्वाहा । वातात् ते प्राणं स्पृणोमि स्वाहा । सूर्यात् ते चक्षु स्पृणोमि स्वाहा । चन्द्रात् ते मन स्पृणोमि स्वाहा । दिग्भ्यस् ते ज्योति स्पृणोमि स्वाहा । अद्भ्यस् ते रसं स्पृणोमि स्वाहा । अस्थिभ्यस् ते मज्जानं स्पृणोमि स्वाहा । स्नेहेभ्यस् ते स्नावानं स्पृणोमि स्वाहा । ओषधीभ्यस् ते लोमानि स्पृणोमि स्वाहा । पृथिव्यास् ते शरीरं स्पृणोमि स्वाहा । अन्तरिक्षात् त आकाशं स्पृणोमि स्वाहा । मानुषात् त आकाशाद् दिव्यम् आकाशं स्पृणोमि स्वाहा । इन्द्रात् ते बलं स्पृणोमि स्वाहा । सोमात् ते राज्ञः कीर्त्तिं यशश् च स्पृणोमि स्वाहा> ।
(अव्प्र्_2.9:92।5) इति च हुत्वाथैनं पुनः प्रदिशति <वायवे त्वा [व्स्म् 7.7 एत्च्.]>_इत्य् ।
(अव्प्र्_2.9:92।6) अथ यस्योपाकृतः पशुर् म्रियेत का तत्र प्रायश्चित्तिः ।
(अव्प्र्_2.9:92।7) स्पृतिभिर् एव हुत्वाथैनम् अनुदिशत्य् <ऋतवे त्वा [?]>_इत्य् ।
(अव्प्र्_2.9:92।8) अथ यस्योपाकृतः पशुः संशीर्येत का तत्र प्रायश्चित्तिः ।
(अव्प्र्_2.9:92।9-10) स्पृतिभिर् एव हुत्वाथैनम् अनुदिशति । <रक्षोभ्यस् त्वा [?]>_इति ।
(अव्प्र्_2.9:92।10) नानुदेशनम् इत्य् आहुर् ।
(अव्प्र्_2.9:92।10-11) यो वा एष प्रपतितो भवति तद् यद् एनम् अधिगछेयुर् अथ तेन यजेत ।
(अव्प्र्_2.9:92।11-14) अथ याव् एतौ शीर्णमृतौ भवतस् तयोः प्रज्ञातान्य् अवदानान्य् अवदायेतरस्य वा पशोः संप्रैषं कृत्वा ब्राह्मणान् परिचरेयुर् अपो वाभ्युपहरेयुः स्पृतिभिर् ।
(अव्प्र्_2.9:92।14-16) यदि वान्यः स्या[च्] छामित्रम् एनं प्रापयेयुस्....ष्पृतिभिर् एव हुत्वा शामित्रम् एवैनं प्रापयेयुर् ।
(अव्प्र्_2.9:92।16-17) अत ऊर्ध्वं प्रसिद्धः पशुबन्धो ।
(अव्प्र्_2.9:92।17-18) अथ य उपतापिनं याजयेत् का तत्र प्रायश्चित्तिः ।
(अव्प्र्_2.9:92।18) स्पृतिभिर् एव हुत्वागदो हैव भवति ।
(अव्प्र्_2.9:92।18-19) अथ चेद् बहव उपतापिनः स्युः का तत्र प्रायश्चित्तिः ।
(अव्प्र्_2.9:92।19-20) स्पृतिभिर् एव हुत्वागदो हैव भवत्य् ।
(अव्प्र्_2.9:92।20-21) अथ यो ऽधिश्रिते ऽग्निहोत्रे यजमानो म्रियेत कथं तत्र कुर्यात् ।
(अव्प्र्_2.9:92।21-22) तत्रैवैतत् पर्यादध्याद् यथा सर्वशः संदह्येतेति ।
(अव्प्र्_2.9:92।22-23) अथाहवनीय आज्याहुतिं जुहुयात् ।
(अव्प्र्_2.9:92-93।23-1) <यज्ञ एति विततः कल्पमानः [प्स् 18.77.3, ;स्स् 18.4.13]> । इत्य् एतयर्चा ।
(अव्प्र्_2.9:93।1-2) अथ य औपवसथ्ये ऽहनि यजमानो म्रियेत कथं तत्र कुर्यात् ।
(अव्प्र्_2.9:93।2-3) तत्रैवैतत् प्रदध्याद् यथा सर्वशः संदह्येतेत्य् ।
(अव्प्र्_2.9:93।3) अथाहवनीय आज्याहुतिं जुहुयात् ।
(अव्प्र्_2.9:93।3-4) <यज्ञ एति विततः कल्पमानः [सेए अबोवे]> इत्य् एतयर्चा ।
(अव्प्र्_2.9:93।4-5) अथ यः समासन्नेषु हविःषु यजमानो म्रियेत कथं तत्र कुर्यात् ।
(अव्प्र्_2.9:93।6-7) तत्रैवैतत् पर्यादध्याद् यथा सर्वशः संदह्येरन्न् इति ।
(अव्प्र्_2.9:93।7) अथाहवनीय आज्याहुतिं जुहुयात् ।
(अव्प्र्_2.9:93।7-8) <अपेमं जीवा अरुधन् गृहेभ्यः [प्स् 18.64.10, ;स्स् 18.2.27]> । इत्य् एतयर्चा ।
(अव्प्र्_2.9:93।8-9) अथ यो दीक्षितो म्रियेत कथम् एनं दहेयुस् ।
(अव्प्र्_2.9:93।9) तैर् एवाग्निभिर् इत्य् आहुर् ।
(अव्प्र्_2.9:93।10) हव्यवाहनाश् चैते मे भवन्ति तत् कव्यवाहना इति ।
(अव्प्र्_2.9:93।10-11) अथ नु कथम् इति ।
(अव्प्र्_2.9:93।11-12) शकृत्पिण्डैस् तिस्र उखाः पूरयित्वा ताः प्रादध्[य्]उस् ।
(अव्प्र्_2.9:93।12) ता धूनुयुस् ।
(अव्प्र्_2.9:93।12-13) ता सुसंतापा ये ऽग्नयो जायेरंस् तैः समाप्नुयुः ।
(अव्प्र्_2.9:93।13-14) बहिर् वा एवं (भवन्)ति ते नो वैते ।
(अव्प्र्_2.9:93।14-15) तस्य तद् एव ब्राह्मणं यद् अदःपुरः सवने पितृमेध आशिषो व्याख्यातास् ।
(अव्प्र्_2.9:93।15-18) तं यदि पुरस्तात् तिष्ठन्तम् उपवदेत् तं ब्रूयाद् <वसूनां त्वा देवानां व्यात्ते ऽपि दधामि । गायत्रीं पर्षाम् अधःशिरावपद्यस्व [?]>_इति ।
(अव्प्र्_2.9:93।18-20) तं यदि दक्षिणतस् तिष्ठन्तम् उपवदेत् तं ब्रूयाद् <रुद्राणां त्वा देवानां व्यात्ते ऽपि दधामि । त्रैष्टुभीं पर्षाम् अधःशिरावपद्यस्व [?]>_इति ।
(अव्प्र्_2.9:93।20-23) तं यदि पश्चात् तिष्ठन्तम् उपवदेत् तं ब्रूयाद् <आदित्यानां त्वा देवानां व्यात्ते ऽपि दधामि । जागतीं पर्षाम् अधःशिरावपद्यस्व [?]>_इति ।
(अव्प्र्_2.9:93।23-25) तं यद्य् उत्तरतस् तिष्ठन्तम् उपवदेत् तं ब्रूयाद् <विश्वेसां त्वा देवानां व्यात्ते ऽपि दधामि । आनुष्टुभीं पर्षाम् अधःशिरावपद्यस्व [?]>_इति ।
(अव्प्र्_2.9:93-94।25-1) तं यद्य् अन्तर्देशेभ्यो वा तिष्ठन्तम् उपवदेत् तं ब्रूयात् ......... ।
(अव्प्र्_2.9:94।1-2) तस्मै नमस् कुर्यात् ।
(अव्प्र्_2.9:94।2-3) स चेत् प्रति नमस् कुर्यात् कुशलेनैवैनम् योजयेत् ।
(अव्प्र्_2.9:94।3) स चेन् न प्रति नमस् कुर्यात् तेनाभिचरेत् ।
(अव्प्र्_2.9:94।4) सव्यम् अग्रन्थिना प्रसव्यम् अग्निभिः परीयात् ।
(अव्प्र्_2.9:94।4-5) <वत्सरो ऽसि परिवत्सरो ऽसि संवत्सरो ऽसि [व्स्म् 27.45]>_इति ।
(अव्प्र्_2.9:94।5-7) तं यदि जिघांसेद् <ययोः सर्वम् [प्स् 19.55.1]> इति सूक्तेन बाधकीः समिधो ऽभ्यादध्यात् ।
% नोते प्स् मन्त्र इन् प्रतीक? हस् थे मन्त्र बेएन् चोर्रेच्त्ल्य् इदेन्तिfइएद्? थे fओल्लोwइन्ग् (तृतीयाहं: च्f. 19.55.2ए, 3ए, 4द्; उच्छिष्टः: 19.55.1द्) सुग्गेस्त्स् इत् हस्
(अव्प्र्_2.9:94।7) तृतीयाहं नातिजीवति ।
(अव्प्र्_2.9:94।7-11) अथ यो होतार्द्धहुत उच्छिष्टः स्यात् सहैव तेनाचम्य_<अग्निर् मा पातु वसुभिः पुरस्तात् [प्स् 7.16.1, ;स्स् 19.17.1]>_इत्य् एतां जप्त्वा यथार्थं कुर्याद् यथार्थं कुर्यात्

मूल पाठ: Atharvaprāyaścittāni · Edition: Atharvaprāyaścittāni, Text mit Anmerkungen von Prof. Julius von Negelein, University of Koenigsberg, Germany. Published in JAOS 33 [1913], 71-144 (text); 217-253 (indices and corrigenda); 34 [1914], 229-277 (preface and introduction). · Data entry Arlo Griffiths Reinhold Grünendahl · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc