भाषा

ENहिગુ
ग्रंथ पाठ

अथर्वप्रायश्चित्तानि · अध्याय 1

1.1

(अव्प्र्_1.1:71।1) ओम् नमो ऽथर्ववेदाय ॥
(अव्प्र्_1.1:71।1-2) अथातो याज्ञे कर्मणि प्रायश्चित्तानि व्याख्यास्यामो विध्य्-अपराधे ।
(अव्प्र्_1.1:71।2-4) सर्वत्र पुनः कार्यं कृत्वोत्तरतः प्रायश्चित्तं प्रायश्चित्तं वा कृत्वोत्तरतः समाधानं ।
(अव्प्र्_1.1:71।4-5) यत् पूर्वं प्रायश्चित्तं करोति गृहैः पशुभिर् एवैनं समर्धयति ।
(अव्प्र्_1.1:71।5-6) यद् उत्तरतः स्वर्गेणैवैनं तल् लोकेन समर्धयति ।
(अव्प्र्_1.1:71-72।6-1) कथम् अग्नीन् आधायान्वाहार्य श्रपणम् आहरेत् ।
(अव्प्र्_1.1:72।1) कथम् इति ।
(अव्प्र्_1.1:72।1-2) प्राणा वा एते यजमानस्याध्यात्मं निधीयन्ते यद् अग्नयस् ।
(अव्प्र्_1.1:72।2-3) तेषु हुतेषु दक्षिणाग्नाव् आज्याहुतिं जुहुयाद् <अग्नये ऽन्नादायान्नपतये स्वाहा [च्f. प्स् 20.43.9, ;स्स् 19.55.5]>_इति ।
(अव्प्र्_1.1:72।3-4) कथम् अग्नीन् आधाय प्रवसति ।
(अव्प्र्_1.1:72।4-5) यथैनान् न विरोधयेद् अपि ह शश्वद् ब्राह्मणनिगमो भवति ।
(अव्प्र्_1.1:72।5-6) प्राणान् वा एषो ऽनुचरान् कृत्वा चरति यो ऽग्नीन् आधाय प्रवसतीति ।
(अव्प्र्_1.1:72।6-7) कथम् अग्नीन् आधाय प्रवत्स्यन् प्रोष्य वोपतिष्ठेत ।
(अव्प्र्_1.1:72।7-8) तूष्णीम् एवेत्य् आहुस् । [एद्. तूष्नीम्]
(अव्प्र्_1.1:72।8) तूष्णीं वै श्रेयांसम् आकाङ्क्षन्ति ।
(अव्प्र्_1.1:72।8-10) यदि मनसि कुर्वीताभयम् वो ऽभयं मे ऽस्त्व् इत्य् अभयं हैवास्य भवत्य् एवम् उपतिष्ठमानस्य ॥
(अव्प्र्_1.1:72।10-11) एकवचनम् एकाग्नौ ।
(अव्प्र्_1.1:72।11-12) पुरा छायानां संभेदाद् गार्हपत्याद् आहवनीयम् अभ्युद्धरेत् । [एद्. अब्युद्ध्-]
(अव्प्र्_1.1:72।12-13) मृत्युं वै पाप्मानं छायां तरति ।
(अव्प्र्_1.1:72।13) संप्रैषं कृत्वोद्धराहवनीयम् इति ।
(अव्प्र्_1.1:72।13-14) संप्रैषवर्जम् एकाग्नौ

1.2

(अव्प्र्_1.2:72।14-17) वाचा त्वा होत्रा प्राणेनाध्वर्युणा चक्षुषोद्गात्रा मनसा ब्रह्मणा श्रोत्रेणाग्नीध्रेणैतैस् त्वा पञ्चभिर् ऋत्विग्भिर् दैव्यैर् अभ्युद्धराम्य् ।
(अव्प्र्_1.2:72।17-18) उद्ध्रियमाण उद्धर पाप्मनो मा यद् अविद्वान् यच् च विद्वांश् चकार ।
(अव्प्र्_1.2:72।18-19) अह्ना यद् एनः कृतम् अस्ति पापं सर्वस्माद् एनस उद्धृतो मुञ्च तस्माद् इति सायं ।
(अव्प्र्_1.2:72।19-20) रात्र्या यद् एनः कृतम् अस्ति पापम् इति प्रातर् ।
(अव्प्र्_1.2:72।20-21) अमृताहुतिम् अमृतायां जुहोम्य् अग्निं पृथिव्या अदित्या उपस्थे ।
(अव्प्र्_1.2:72।21-22) तयानन्तं लोकम् अहं जयामि प्रजापतिर् यं प्रथमो जिगाय ।
(अव्प्र्_1.2:72-73।22-1) अग्निर् ज्योतिर् ज्योतिर् अग्निर् इति सायं ।
(अव्प्र्_1.2:73।1) सूर्यो ज्योतिः ज्योतिः सूर्य इति प्रातर् ।
(अव्प्र्_1.2:73।2) हिरण्यम् अन्तर् धारयेत् ।
(अव्प्र्_1.2:73।2-3) आर्षेयस् तत् पश्यन्न् आहवनीयम् अभ्युद्धरेत् ।
(अव्प्र्_1.2:73।3-4) अथ यस्याहवनीयम् अभ्युद्धृतम् आदित्यो ऽभ्यस्तम् इयात् का तत्र प्रायश्चित्तिर् ।
(अव्प्र्_1.2:73।4-5) दर्भेण हिरण्यं बद्ध्वा पश्चाद् धारयेत् ।
(अव्प्र्_1.2:73।5-6) आर्षेयस् तत् पश्यन्न् अग्निम् आहवनीयम् अभ्युद्धरेत् ।
(अव्प्र्_1.2:73।6-7) अथ यस्याहवनीयम् अभ्युद्धृतम् आदित्यो ऽभ्युदियात् का तत्र प्रायश्चित्तिर् ।
(अव्प्र्_1.2:73।7-8) दर्भेण रजतं बद्ध्वा पुरस्ताद् धारयेत् । [सेए चोर्रिगेन्द प्. 251]
(अव्प्र्_1.2:73।8-9) आर्षेयस् तत् पश्यन्न् आहवनीयम् अभ्युद्धरेत् ।
(अव्प्र्_1.2:73।9-10) अथ यस्य सायम् अहुतम् अग्निहोत्रं प्रातर् आदित्यो ऽभ्युदियात् का तत्र प्रायश्चित्तिर् ।
(अव्प्र्_1.2:73।10-11) मैत्रः पुरोडाशश् चरुर् वा ।
(अव्प्र्_1.2:73।11-13) नित्याः पुरस्ताद्धोमाः संस्थितहोमेषु <मित्रः पृथिव्या अध्यक्ष [प्स् 15.7.1]> इति मध्यत ओप्य संस्रावभागैः संस्थापयेत् ।
(अव्प्र्_1.2:73।13-14) अथ यस्य प्रातर् अकृतम् अग्निहोत्रं सायम् आदित्यो ऽभ्यस्तमियात् का तत्र प्रायश्चित्तिर् ।
(अव्प्र्_1.2:73।14-15) वारुणः पुरोडाशो नित्याः पुरस्ताद्धोमाः ।
(अव्प्र्_1.2:73।15-16) संस्थितहोमेषु <यत् किं चेदं वरुण [प्स् 19.43.5, ;स्स् 6.51.3]> ।
(अव्प्र्_1.2:73।16) इति मध्यत ओप्य संस्रावभागैः संस्थापयेत् ।
(अव्प्र्_1.2:73।17-18) अथ यस्य प्रातर् अहुतम् अग्निहोत्रम् आदित्यो ऽभ्युदियात् का तत्र प्रायश्चित्तिर् ।
(अव्प्र्_1.2:73।18) मैत्रः पुरोडाशो नित्याः पुरस्ताद्धोमाः ।
(अव्प्र्_1.2:73।19-20) संस्थितहोमेषु <मित्रः पृथिव्या अध्यक्ष [प्स् 15.7.1]> इति मध्यत ओप्य संस्रावभागैः संस्थापयेत् ।
(अव्प्र्_1.2:73।20-21) आहुती वैताभ्याम् ऋग्भ्यां जुहुयात्

1.3

(अव्प्र्_1.3:73।22-23) अथ यो ऽग्निहोत्रेणोदेति स्वर्गं वा एष लोकं यजमानम् अभिवहति ।
(अव्प्र्_1.3:73।23) नाहुत्वावर्तेत ।
(अव्प्र्_1.3:73।23-24) स यद्य् आवर्तेत स्वर्गाद् एवैनं तल् लोकाद् आवर्तेत ।
(अव्प्र्_1.3:73-74।24-1) अथ यस्याग्निहोत्रं हूयमानं स्कन्देत् का तत्र प्रायश्चित्तिर् ।
(अव्प्र्_1.3:74।1-2) अपरेणाहवनीयं दक्षिणं जान्व् आच्योपविशति ।
(अव्प्र्_1.3:74।2) यत् स्रुच्य् अतिशिष्टं स्यात् तज् जुहुयात् ।
(अव्प्र्_1.3:74।3-5) अथ यत्रैवावस्कन्नं भवति तं देशम् अभिविमृज्य <विमृग्वरीं पृथिवीम् आ वदामि [प्स् 17.3.9, ;स्स् 12.1.29]>_इति प्राङ्मुखो(!)पविश्य_<अग्निर् भूम्याम् [प्स् 17.2.8, ;स्स् 12.1.19]> इति तिसृभिर् आलभ्याभिमन्त्रयेत ।
(अव्प्र्_1.3:74।5-7) अथ चेत् सर्वम् एव स्कन्नं स्याद् यच् चरुस्थाल्याम् अतिशिष्टं स्यात् तज् जुहुयात् ।
(अव्प्र्_1.3:74।5-7) अथाहवनीय आज्याहुतिं जुहुयात् ।
(अव्प्र्_1.3:74।7-8) <यन् मे स्कन्नम् [कौश्स् 6.1, वैत्स् 16.17]> इत्य् एतयर्चा ।
(अव्प्र्_1.3:74।8-10) <यन् मे स्कन्नं मनसो जातवेदो यद् वा ऽस्कन्दद् धविषो यत्र-यत्र उत्प्रुषो विप्रुसः संजुहोमि सत्याः सन्तु यजमानस्य कामाः स्वाहा [कौश्स् 6.1]>_इत्य् ।
% नोते चसे ओf प्रतीक।सकलपाठ
(अव्प्र्_1.3:74।10-11) अथ यस्याग्निहोत्रे ऽमेध्यम् आपद्येत का तत्र प्रायश्चित्तिर् ।
(अव्प्र्_1.3:74।11-13) अपरेणाहवनीयम् उष्णम् इव भस्म निरूह्य तत्र ताम् आहुतिं जुहुयात् ।
(अव्प्र्_1.3:74।13) तद् धुतं चाहुतं च भवति ।
(अव्प्र्_1.3:74।13-14) यच् चरुस्थाल्याम् अतिशिष्टं स्यात् तज् जुहुयात् ।
(अव्प्र्_1.3:74।14-15) अथ चेच् चरुस्थाल्याम् एवामेध्यम् आपद्येत का तत्र प्रायश्चित्तिस् ।
(अव्प्र्_1.3:74।15-17) तत् तथैव हुत्वाथान्याम् आहूय दोहयित्वा श्रपयित्वा तद् अस्मै तत्रैवासीनायान्वाहरेयुर् ।
(अव्प्र्_1.3:74।17-18) (अथ ऊर्ध्वं प्रसिद्धम् अग्निहोत्रम्) ।
(अव्प्र्_1.3:74।18-20) अथ यस्याहवनीयगार्हपत्याव् अन्तरेण यानो वा रथो वा निवर्तेत श्वा वान्यो वाभिधावेत् का तत्र प्रायश्चित्तिर् ।
(अव्प्र्_1.3:75।1-2) मन्त्रवन्ति च कार्याणि सर्वाण्य् अध्ययनं च यत् । नान्तरागमनं तेषां साधु विछेदनाद् भयम् ॥
(अव्प्र्_1.3:75।3-4) इति गार्हपत्याद् अध्य् आहवनीय उदतन्तुं निषिञ्चन् इयात् ॥
(अव्प्र्_1.3:75।4-6) <तन्तुं तन्वन् रजसो भानुम् अन्व् इहि ज्योतिष्मतः पथो रक्ष धिया कृतान् ॥ अनुल्बणं वयत जोगुवाम् अपो ॥ मनुर् भव जनया दैव्यं जनम् ॥ [.र्व् 10.53.6 एत्च्.]>
(अव्प्र्_1.3:75-76।6-1) <तंन्वंस् तन्तुर् उप सेदुर् अग्ने त्वं पथा रजसि देवयानः । त्वया ऽग्ने पृष्ठं वयम् आरुहेमाधा देवैः सधमादं मदेम ॥> [च्f. बौध्;स्स् 13.43:150.8 <त्वं नस् तन्तुर् उत सेतुर् अग्ने><त्वं पन्था भवसि देवयानः><त्वयाग्ने पृष्ठं वयम् आरुहेम [त्ब्.2.4.2.6]><अथा देवैः सधमादं मदेम>]
(अव्प्र्_1.3:76।1-2) स्वाहेति सर्वत्रैतत् प्रायश्चित्तम् अन्तरागमने स्मृतम् ॥
(अव्प्र्_1.3:76।3) यज्ञस्य संततिर् असि यज्ञस्य त्वा संतत्या संतनोमि ।
(अव्प्र्_1.3:76।4-6) वसूनां रुद्राणाम् आदित्यानां मरुताम् ऋषीणां भृगूणाम् अ"न्गिरसाम् अथर्वणां ब्रह्मणः संततिर् असि ब्रह्मणस् त्वा सम्तत्या संतनोमि ।
(अव्प्र्_1.3:76।6-8) <यन् मे छिद्रं मनसो यच् च वाचः सरस्वती मन्युमन्तम् जगाम विश्वैस् तद् देवैः सह संविदानः सं दधातु बृहस्पतिः [प्स् 19.38.6, ;स्स् 19.40.1]>

1.4

(अव्प्र्_1.4:76।8-10) <मा न आपो मेधां मा ब्रह्म प्रमथिष्टन । शुष्यदा यूयं स्यन्दध्वम् उपहूतो ऽहं सुमेधा वर्चस्वी [प्स् 20.60.3, ;स्स् 19.40.2]> ।
(अव्प्र्_1.4:76।10-12) <मा नो मेधां मा नो दीक्षां मा नो हिंसिष्टं यत् तपः शिवा नः संस्वंत आयुषे शिवा भवन्तु मातरः [प्स् 20.60.4, ;स्स् 19.40.3]> ।
(अव्प्र्_1.4:76।12-13) <नमस् ते पथ्या रेवति स्वस्ति मा परा-यणः । स्वस्ति मा पुनरायणः [प्स् 20.61.1।2]> ।
% नोते मन्त्र fरोम् प्स् 20, अन्द् रेलेवन्चे fओर् स्तन्zअ दिविसिओन् इन् प्स्!
(अव्प्र्_1.4:76।13) <मा न आपो मेधाम् [प्स् 20.60.3, ;स्स् 19.40.2]> ।
(अव्प्र्_1.4:76।14) <पुनर् मैत्व् इन्द्रियम् [प्स् 3.13.6, ;स्स् 7.67.1]> इति च

1.5

(अव्प्र्_1.5:76।14-15) अथ यस्याहवनीयो ऽग्निर् जागृयाद् गार्हपत्य उपशाम्येत् का तत्र प्रायश्चित्तिर् ।
(अव्प्र्_1.5:76-77।15-2) यत् प्रा~न्चम् उद्वर्तयति तेनायतना[च्] च्यवते यत् प्रत्यञ्चम् असुरवद् यज्ञं तनोति ।
(अव्प्र्_1.5:77।2-3) यद् अनुगमयतीश्वरा वैनं तत् प्राणा हास्युर् इति वा ।
(अव्प्र्_1.5:77।3) अथ नु कथम् इति ।
(अव्प्र्_1.5:77।4-6) सभस्मकम् आहवनीयं दक्षिणेन दक्षिणाग्निं परिहृत्य गार्हपत्यस्यायतने प्रतिष्ठाप्य तत आहवनीयं प्रणयेत् ।
(अव्प्र्_1.5:77।6-8) <भद्राद् अभि श्रेयः प्रेहि [च्f. प्स् 20.4.2, ;स्स् 7.8.1: अधि]> इत्य् एतयर्च@@ गार्हपत्य आज्यं विलायोत्पूय चतुर्गृहीतं गृहीत्वाहवनीयगार्हपत्याव् अन्तरेण व्यवेत्य जुहुयात् ।
(अव्प्र्_1.5:77।8-11) <अयं नो अग्निर् अध्यक्ष [प्स् 20.61.5-6, सकल अत् कौश्स् 89.13]> इति द्वाभ्याम् एतेन उ वा अस्य संत्वरमाणस्याहवनीयगार्हपत्यौ जनिताव् <अयं मा लोको ऽनुसंतनुताम् [वैत्स् 7.12]> इत्य् । [एद्. जनिता वयं]
(अव्प्र्_1.5:77।11-12) एतेन ह वा अस्य संत्वरमाणस्याहवनीयगार्हपत्यौ पाप्मानम् अपहतः ।
(अव्प्र्_1.5:77।12-13) सो ऽपहतपाप्मा ज्योतिर् भूत्वा देवान् अप्य् एतीति ।
(अव्प्र्_1.5:77।13-14) अथाहवनीय आज्याहुतिं जुहुयाद् <असपत्नं पुरस्ताद् [प्स् 10.8.4।12.6.5, ;स्स् 19.16.1]> इत्य् एतयर्चा ।
(अव्प्र्_1.5:77।14-15) अथ यस्याग्निहोत्रं श्रप्यमाणं विष्यन्देत् तद् अद्भिर् उपनिनयेत् ।
(अव्प्र्_1.5:77।16) तद् अनुमन्त्रयते ।
(अव्प्र्_1.5:77।16) <पृथिवीं तुरीयम् [च्f. अब् 7.5.3]> इत्य् एताभिः ।
(अव्प्र्_1.5:77।16-17) <पृथिवीं तुरीयं मनुष्यान् यज्ञो ऽगात् । ततो मा द्रविणम् आष्ट ।
(अव्प्र्_1.5:77।18-20) अंतरिक्षे तुरीयं । दिवि तुरीयम् । (अप्सु तुरीयम् । अप्स्व् इत्य् आह भूतानि तानि । देवान् यज्ञो ऽगात् । ततो मा द्रविणम् आष्ट ।)
(अव्प्र्_1.5:77।20-21) <त्रातारम् इन्द्रम् [प्स् 5.4.11, ;स्स् 7.86.1] । <ययोर् ओजसा [प्स् 20.15.10, ;स्स् 7.25.1]>_इति चैता विष्णुवरुणदेवत्या ऋचो जपति ।
(अव्प्र्_1.5:77।21-22) यद् वै यज्ञस्य विरिष्टं तद् वैष्णवं ।
(अव्प्र्_1.5:77।22) यद् गुष्पितं तद् वारुणं ।
(अव्प्र्_1.5:77।23) यज्ञस्य वा ऋद्धिर् ।
(अव्प्र्_1.5:77।23-24) भूयिष्ठाम् ऋद्धिम् आप्नोति यत्रैता विष्णुवरुणदेवत्या ऋचो जपत्य् ।
(अव्प्र्_1.5:77-78।24-1) अथाद्भुतेष्व् एता एव तिस्रो जपेत् ।
(अव्प्र्_1.5:78।1-2) तिस्रो जपेत्

मूल पाठ: Atharvaprāyaścittāni · Edition: Atharvaprāyaścittāni, Text mit Anmerkungen von Prof. Julius von Negelein, University of Koenigsberg, Germany. Published in JAOS 33 [1913], 71-144 (text); 217-253 (indices and corrigenda); 34 [1914], 229-277 (preface and introduction). · Data entry Arlo Griffiths Reinhold Grünendahl · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc