भाषा

ENहिગુ
ग्रंथ पाठ

अथर्ववेद · अध्याय 20.6

20.6.1

इन्द्र त्वा वृषभं वयं सुते सोमे हवामहे ।
स पाहि मध्वो अन्धसः

20.6.2

इन्द्र क्रतुविदं सुतं सोमं हर्य पुरुष्टुत ।
पिबा वृषस्व तातृपिम्

20.6.3

इन्द्र प्र णो धितावानं यज्ञं विश्वेभिर्देवेभिर्।
तिर स्तवान विश्पते

20.6.4

इन्द्र सोमाः सुता इमे तव प्र यन्ति सत्पते ।
क्षयं चन्द्रास इन्दवः

20.6.5

दधिष्वा जठरे सुतं सोममिन्द्र वरेण्यम् ।
तव द्युक्षास इन्दवः

20.6.6

गिर्वणः पाहि नः सुतं मधोर्धाराभिरज्यसे ।
इन्द्र त्वादातमिद्यशः

20.6.7

अभि द्युम्नानि वनिन इन्द्रं सचन्ते अक्षिता ।
पीत्वी सोमस्य वावृधे

20.6.8

अर्वावतो न आ गहि परावतश्च वृत्रहन् ।
इमा जुषस्व नो गिरः

20.6.9

यदन्तरा परावतमर्वावतं च हूयसे ।
इन्द्रेह तत आ गहि

मूल पाठ: atharvavedaḥ · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc