ग्रंथ पाठ
अथर्ववेद · अध्याय 20.5
20.5.1
अयमु त्वा विचर्षणे जनीरिवाभि संवृतः ।
प्र सोम इन्द्र सर्पतु
20.5.2
तुविग्रीवो वपोदरः सुबाहुरन्धसो सदे ।
इन्द्रो वृत्राणि जिघ्नते
20.5.3
इन्द्र प्रेहि पुरस्त्वं विश्वस्येशान ओजसा ।
वृत्राणि वृत्रहं जहि
20.5.4
दीर्घस्ते अस्त्वङ्कुशो येना वसु प्रयच्छसि ।
यजमानाय सुन्वते
20.5.5
अयं त इन्द्र सोमो निपूतो अधि बर्हिषि ।
एहीमस्य द्रवा पिब
20.5.6
शाचिगो शाचिपूजनायं रणाय ते सुतः ।
आखण्डल प्र हूयसे
20.5.7
यस्ते शृङ्गवृषो नपात्प्रणपात्कुण्डपाय्यः ।
न्यस्मिन् दध्र आ मनः
मूल पाठ: atharvavedaḥ · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0