भाषा

ENहिગુ
ग्रंथ पाठ

अथर्ववेद · अध्याय 20.7

20.7.1

उद्घेदभि श्रुतामघं वृषभं नर्यापसम् ।
अस्तारमेषि सूर्य

20.7.2

नव यो नवतिं पुरो बिभेद बाह्वोजसा ।
अहिं च वृत्रहावधीत्

20.7.3

स न इन्द्रः शिवः सखाश्वावद्गोमद्यवमत्।
उरुधारेव दोहते

20.7.4

इन्द्र क्रतुविदं सुतं सोमं हर्य पुरुष्टुत ।
पिबा वृषस्व तातृपिम्

मूल पाठ: atharvavedaḥ · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc