भाषा

ENहिગુ
ग्रंथ पाठ

अथर्ववेद · अध्याय 20.47

20.47.1

तमिन्द्रं वाजयामसि महे वृत्राय हन्तवे ।
स वृषा वृषभो भुवत्

20.47.2

इन्द्रः स दामने कृत ओजिष्ठः स मदे हितः ।
द्युम्नी श्लोकी स सोम्यः

20.47.3

गिरा वज्रो न संभृतः सबलो अनपच्युतः ।
ववक्ष ऋष्वो अस्तृतः

20.47.4

इन्द्रमिद्गाथिनो बृहदिन्द्रमर्केभिरर्किणः ।
इन्द्रं वाणीरनूषत

20.47.5

इन्द्र इद्धर्योः सचा संमिश्ल आ वचोयुजा ।
इन्द्रो वज्री हिरण्ययः

20.47.6

इन्द्रो दीर्घाय चक्षस आ सूर्यं रोहयद्दिवि ।
वि गोभिरद्रिमैरयत्

20.47.7

आ याहि सुषुमा हि त इन्द्र सोमं पिबा इमम् ।
एदं बर्हिः सदो मम

20.47.8

आ त्वा ब्रह्मयुजा हरी वहतामिन्द्र केशिना ।
उप ब्रह्माणि नः शृणु

20.47.9

ब्रह्माणस्त्वा वयं युजा सोमपामिन्द्र सोमिनः ।
सुतावन्तो हवामहे

20.47.10

युञ्जन्ति ब्रध्नमरुषं चरन्तं परि तस्थुषः ।
रोचन्ते रोचना दिवि

20.47.11

युञ्जन्त्यस्य काम्या हरी विपक्षसा रथे ।
शोणा धृष्णू नृवाहसा

20.47.12

केतुं कृण्वन्न् अकेतवे पेशो मर्या अपेशसे ।
समुषद्भिरजायथाः

20.47.13

उदु त्यं जातवेदसं देवं वहन्ति केतवः ।
दृशे विश्वाय सूर्यम्

20.47.14

अप त्ये तायवो यथा नक्षत्रा यन्त्यक्तुभिः ।
सूराय विश्वचक्षसे

20.47.15

अदृश्रन्न् अस्य केतवो वि रश्मयो जनामनु ।
भ्राजन्तो अग्नयो यथा

20.47.16

तरणिर्विश्वदर्शतो ज्योतिष्कृदसि सूर्य ।
विश्वमा भासि रोचन

20.47.17

प्रत्यङ्देवानां विशः प्रत्यङ्ङुदेषि मानुषीः ।
प्रत्यङ्विश्वं स्वर्दृशे

20.47.18

येना पावक चक्षसा भुरण्यन्तं जनामनु ।
त्वं वरुण पश्यसि

20.47.19

वि द्यामेषि रजस्पृथ्वहर्मिमानो अक्तुभिः ।
पश्यं जन्मानि सूर्य

20.47.20

सप्त त्वा हरितो रथे वहन्ति देव सूर्य ।
शोचिष्केशं विचक्षणम्

20.47.21

अयुक्त सप्त शुन्ध्युवः सूरो रथस्य नप्त्यः ।
ताभिर्याति स्वयुक्तिभिः

मूल पाठ: atharvavedaḥ · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc