ग्रंथ पाठ
अथर्ववेद · अध्याय 20.48
20.48.1
अभि त्वा वर्चसा गिरः सिञ्चन्त्या चरण्युवः ।
अभि वत्सं न धेनवः
20.48.2
ता अर्षन्ति शुभ्रियः पृञ्चतीर्वर्चसा पयः ।
जातं जनिर्यथा हृदा
20.48.3
वज्रापवसाध्यः कीर्तिर्म्रियमाणमावहन् ।
मह्यमायुर्घृतं पयः
20.48.4
आयं गौः पृश्निरक्रमीदसदन् मातरं पुरः ।
पितरं च प्रयन्त्स्वः
20.48.5
अन्तश्चरति रोचना अस्य प्राणादपानतः ।
व्यख्यन् महिषः स्वः
20.48.6
त्रिंशद्धामा वि राजति वाक्पतङ्गो अशिश्रियत्।
प्रति वस्तोरहर्द्युभिः
मूल पाठ: atharvavedaḥ · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0