ग्रंथ पाठ
अथर्ववेद · अध्याय 20.46
20.46.1
प्रणेतारं वस्यो अच्छा कर्तारं ज्योतिः समत्सु ।
सासह्वांसं युधामित्रान्
20.46.2
स नः पप्रिः पारयाति स्वस्ति नावा पुरुहूतः ।
इन्द्रो विश्वा अति द्विषः
20.46.3
स त्वं न इन्द्र वाजोभिर्दशस्या च गातुया च ।
अच्छा च नः सुम्नं नेषि
मूल पाठ: atharvavedaḥ · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0