आश्वलायनगृह्यसूत्र · अध्याय 2
श्रावण्याम्.पौर्णमास्याम्.श्रवणा.कर्म.।: (.श्रावण.कर्म.?)
अक्षत.सक्तूनाम्.नवम्.कलशम्.पूरयित्वा.दर्वीम्.च.बलि.हरणीम्.नवे.शिक्ये.निदधाति.।
अक्षत.धानाः.कृत्वा.सर्पिष.अर्धा.अनक्ति.।
अस्तमिते.स्थाली.पाकम्.श्रपयित्वा.एक.कपालम्.च.पुरोळाशम्.अग्ने.नय.सुपथा.राये.अस्मान्.इति.चतसृभिः.प्रत्यृचम्.हुत्वा.पाणिना.एक.कपालम्.अच्युताय.भौमाय.स्वाहा.इति.।
अवप्लुतः.स्याद्.आविः.पृष्ठो.वा.।
मा.नो.अग्ने.अवसृजो.अघाय.इत्य्.एनम्.आशयेन.अभिजुहोति.।
शम्.नो.भवन्तु.वाजिनो.हविष्वा.इत्य्.अक्ता.धाना.अञ्जलिना.।
अमात्येभ्य.इतरा.दद्यात्.।
कलशात्.सक्तूनाम्.दर्वीम्.पूरयित्वा.प्राग्.उपनिष्क्रम्य.शुचौ.देशे.अपो.अवनिनीय.सर्व.देव.जनेभ्यः.स्वाहा.इति.हुत्वा.नमस्.करोति.ये.सर्पाः.पार्थिवा.ये.अन्तरिक्ष्या.ये.दिव्या.ये.दिश्यास्.तेभ्य.इमम्.बलिम्.आहार्षम्.तेभ्य.इमम्.बलिम्.उपाकरोमि.इति.।
प्रदक्षिणम्.परीत्य.पश्चाद्.बलेर्.उपविश्य.सर्पो.असि.सर्पताम्.सर्पाणाम्.अधिपतिर्.अस्य्.अन्नेन.मनुष्यांस्.त्रायसे.अपूपेन.सर्पान्.यज्ञेन.देवांस्.त्वयि.मा.सन्तम्.त्वयि.सन्तः.सर्पा.मा.हिंसिषुर्.ध्रुव.अमुम्.ते.परिददामि.।
ध्रुव.अमुम्.ते.ध्रुव.अमुम्.त.इत्य्.अमात्यान्.अनुपूर्वम्.।
ध्रुव.माम्.ते.परिददामि.इत्य्.आत्मानम्.अन्ततः.।
न.एनम्.अन्तरा.व्यवेयुर्.आ.परिदानात्.।
सर्प.देव.जनेभ्यः.स्वाहा.इति.सायम्.प्रातर्.बलिम्.हरेद्.आ.प्रत्यवरोहणात्.।
प्रसंख्याय.ह.एके.तावतो.बलींस्.तद्.अहर्.एव.उपहरन्ति.।
आश्वयुज्याम्.आश्वयुजी.कर्म.।
निवेशनम्.अलम्.कृत्य.स्नाताः.शुचि.वाससः.पशु.पतये.स्थाली.पाकम्.निरुप्य.जुहुयुः.पशु.पतये.शिवाय.शंकराय.पृषातकाय.स्वाहा.इति.।
पृषातकम्.अञ्जलिना.जुहुयाद्.एनम्.मे.पूर्यताम्.पूर्णम्.मे.मा.उपसदत्.पृषातकाय.स्वाहा.इति.।
सजूर्.ऋतुभिः.सजूर्.विधाभिः.सजूर्.इन्द्र.अग्निभ्याम्.स्वाहा.।.सजूर्.ऋतुभिः.सजूर्.विधाभिः.सजूर्.द्यावा.पृथिवीभ्याम्.स्वाहा.इत्य्.आहित.अग्नेर्.आग्रयण.स्थाली.पाकः.।
अनाहित.अग्नेर्.अपि.शाल.अग्नौ.।
मार्गशीर्ष्याम्.प्रत्यवरोहणम्.चतुर्दश्याम्.।
पौर्णमास्याम्.वा.।
निवेशनम्.पुनर्.नवी.कृत्य.लेपन.स्तरण.उपस्तरणैर्.अस्तमिते.पायसस्य.जुहुयुर्.अप.श्वेत.पदा.जहि.पूर्वेण.च.अपरेण.च.।.सप्त.च.वारुणीर्.इमाः.सर्वाश्.च.राज.बान्धवीः.स्वाहा.॥.न.वै.श्वेतश्.च.अभ्यागारे.अहिर्.जघान.किंचन.।.श्वेताय.वैदार्वाय.नमः.स्वाहा.इति.।
न.अत्र.सौविष्टकृत्.।
अभयम्.नः.प्राजापत्येभ्यो.भूयाद्.इत्य्.अग्निम्.ईक्षमाणो.जपति.।
शिवो.नः.सुमना.भव.इति.हेमन्तम्.मनसा.ध्यायात्.।
पश्चाद्.अग्नेः.स्वस्तरः.स्वास्तीर्णस्.तस्मिन्न्.उपविश्य.स्योना.पृहिवि.भव.इति.जपित्वा.संविशेत्.सामात्यः.प्राक्.शिरा.उदन्.मुखः.।
यथा.अवकाशम्.इतरे.।
ज्यायाम्.ज्यायान्.वा.अनन्तरः.।
मन्त्रविदो.मन्त्रान्.जपेयुः.।
संहाय.अतो.देवा.अवन्तु.न.इति.त्रिः.।
एताम्.दक्षिणा.मुखाः.प्रत्यन्.मुखा.उदन्.मुखाश्.चतुर्थम्।
संहाय.सौर्याणि.स्वस्त्ययनानि.च.जपित्वा.अन्नम्.संस्कृत्य.ब्राह्मान्.भोजयित्वा.स्वस्त्ययनम्.वाचयीत.।
हेमन्त.शिशिरयोश्.चतुर्णाम्.अपर.पक्षाणाम्.अष्टमीष्व्.अष्टकाः.।
एकस्याम्.वा.।
पूर्वे.द्युः.पितृभ्यो.दद्यात्.।
ओदनम्.कृसरम्.पायसम्.।
चतुः.शरावस्य.वा.अपूपान्.।
उदीरताम्.अवर.उत्परास.इत्य्.अष्टाभिर्.हुत्वा.यावतीभिर्.वा.कामयीत.।
अथ.श्वो.भूते.अष्टकाः.पशुना.स्थाली.पाकेन.च.।
अप्य्.अनडुहो.यवसम्.आहरेत्.।
अग्निना.वा.कक्षम्.उपोषेत्.।
एषा.मे.अष्टका.इति.।
न.त्व्.एव.अनष्टकः.स्यात्.।
ताम्.ह.एके.वैश्वदेवीम्.ब्रुवत.आग्नेयीम्.एके.सौर्याम्.एके.प्राजापत्याम्.एके.रात्रि.देवताम्.एके.नक्षत्र.देवताम्.एक.ऋतु.देवताम्.एके.पितृ.देवताम्.एके.पशु.देवताम्.एके.।
पशु.कल्पेन.पशुम्.संज्ञप्य.प्रोक्षण.उपाकरण.वर्जम्.वपाम्.उत्खिद्य.जुहुयाद्.वह.वपाम्.जात.वेदः.पितृभ्यो.यत्र.एतान्.वेत्थ.निहितान्.पकारे.।.मेदसः.कुल्या.उप.एनान्त्.स्रवन्तु.सत्या.एता.आशिषः.सन्तु.सर्वाः.स्वाहा.इति.।
अतः.अवदानानाम्.स्थाली.पाकस्य.च.अग्ने.नय.सुपथा.राये.अस्मान्.इति.द्वे.।.ग्रीष्मो.हेमन्त.ऋतवः.शिवा.नो.वर्षाः.शिवा.अभवा.शरन्.नः.।.संवत्सरो.अधिपतिः.प्राणदो.नो.अहोरात्रे.कृणुताम्.दूर्घम्.आयुः.स्वाहा.।.शान्ता.पृथिवी.शिवम्.अन्तरिक्षम्.द्यौर्.नो.देव्य्.अभयम्.नो.अस्तु.।.शिवा.दिशः.प्रदिश.उद्दिशो.न.आपो.विद्युतः.परिपान्तु.सर्वतः.स्वाहा.।.आपो.मरीचीः.प्रवहन्तु.नो.धियो.धाता.समुद्रो.अवहन्तु.पापम्.।.भूतम्.भविष्यद्.अभयम्.विश्वम्.अस्तु.मे.ब्रह्म.अधिग् उप्तः.स्वार.अक्षराणि.स्वाहा.।14:विश्व.आदित्या.वसवश्.च.देवा.रुद्रा.गोप्तारो.मरुतः.संदन्तु.।.ऊर्जम्.प्रजाम्.अमृतम्.पिन्वमानः.प्रजापतिर्.मयि.परमेष्ठी.दधातु.स्वाहा.।.प्रजापते.न.त्वद्.एतान्य्.अन्यः.।
सौविष्टकृत्य्.अष्टमी.।
ब्राह्मणान्.भोजयेद्.इत्य्.उक्तम्.।
अपरे.द्युर्.अन्वष्टक्यम्.।
तस्य.एव.मांसस्य.प्रकल्प्य.दक्षिणा.प्रवणे.अग्निम्.उपसमाधाय.परिश्रित्य.उत्तरतः.परिश्रितस्य.द्वारम्.कृत्वा.समूलम्.बर्हिस्.त्रिर्.अपसलैर्.अविधून्वन्.परिस्तीर्य.हवींष्य्.आसादयेद्.ओदनम्.कृसरम्.पायसम्.दधि.मन्थान्.मधु.मन्थांश्.च.।
पिण्ड.पितृ.यज्ञ.कल्पेन.।
हुत्वा.मधु.मन्थ.वर्जम्.पितृभ्यो.दद्यात्.।
स्त्रीभ्यश्.च.सुरा.च.आचामम्.इत्य्.अधिकम्.।:(.चाचामम्.)
कर्षूष्व्.एके.द्वयोः.षट्सु.वा.।
पूर्वासु.पितृभ्यो.दद्यात्.।
अपरासु.स्त्रीभ्यः.।
एतेन.माघ्य.आवर्षम्.प्रोष्ठपद्या.अपर.पक्षे.।:(.प्रौष्ठपद्या.?)
मासि.मासि.च.एवम्.पितृभ्यो.अयुक्षु.प्रतिष्ठापयेत्.।
नव.अवरान्.भोजयेत्.।
अयुजो.वा.।
युग्मान्.वृद्धिर्.पूतेषु.।
अयुग्मान्.इतरेषु.।
प्रदक्षिणम्.उपचारो.यवैस्.तिल.अर्थः.।
रथम्.आरोक्ष्यन्.नाना.पाणिभ्याम्.चक्रे.अभिमृशेद्.अहम्.ते.पूर्व.पादाव्.आरभे.बृहद्.रथन्तरे.ते.चक्रे.।
वामदेव्यम्.अक्ष.इत्य्.अक्ष.अधिष्ठाने.।
दक्षिण.पूर्वाभ्याम्.आरोहेद्.वायोष्.त्वा.वीर्येण.आरोहामि.इन्द्रस्य.ओजसा.आधिपत्येन.इति.।
रश्मींत्.सम्मृशेद्.अरश्मिकान्.वा.दण्डेन.ब्रह्मणो.वस्.तेजसा.संगृह्णामि.सत्यन.वा.संगृह्णामि.इति.।
अभिप्रवर्तमानेषु.जपेत्.सहस्र.सनिम्.वाजम्.अभिवर्तस्व.रथ.देव.प्रवह.वनस्पते.वीड्वङ्गो.हि.भूया.इति.।
एतया.अन्यान्य्.अपि.वानस्पत्यानि.।
स्थिरौ.गावौ.भवताम्.वीळु.प्रक्ष.इति.रथ.अङ्गम्.अभिमृशेत्.।
सुत्रामाणम्.पृथिवीम्.द्याम्.अनेहसम्.इति.नावम्.।
नव.रथेन.यशस्विनम्.वृक्षम्.ह्रदम्.वा.अविदासिनम्.प्रदक्षिणम्.कृत्वा.फलवतीः.शाखा.आहरेत्.।
अयद्.वा.कौटुम्बम्.।
संसदम्.उपयायात्.।
अस्माकम्.उत्तमम्.कृथि.इत्य्.आदित्यम्.ईक्षमाणो.जपित्वा.अवरोहेत्.।
ऋषभम्.मा.समानाम्.इत्य्.अभिक्रामन्.।
वयम्.अद्य.इन्द्रस्य.प्रोष्ठा.इत्य्.अस्तम्.यात्य्.आदित्ये.।
तद्.वो.दिवो.दुहितरो.विभातीर्.इति.व्युष्ठायाम्.।
अथ.अतो.वास्तु.परीक्षा.।
अनूखरम्.अविवदिष्णु.भूम.।
ओषधि.वनस्पतिवत्.।
यस्मिन्.कुश.वीरिणम्.प्रभूतम्.।
कण्टकि.क्षीरिणस्.तु.समूलान्.परिखाय.उद्वासयेत्.।
अपामार्गः.शाकस्.तिल्वकः.परिव्याध.इति.च.एतानि.।
यत्र.सर्वत.आपो.मध्ये.समेत्य.प्रदक्षिणम्.शयनीयम्.परीत्य.प्राच्यः.स्यन्देरन्न्.अप्रवदत्यस्.तत्.सर्व.समृद्धम्.।
समवस्रवे.भक्त.शरणम्.कारय्ते.।
बह्व्.अन्नम्.ह.भवति.।
प्रक्षिणा.प्रवणे.सभाम्.मापयेत्.सा.अद्यूता.ह.भवति.।
युवानस्.तस्याम्.कितवाः.कलहिनः.प्रमायुका.भवन्ति.।
यत्र.सर्वत्र.आपः.प्रस्यन्देरंत्.सा.स्वस्त्ययन्य्.अद्यूता.च.।
अथ.एतैर्.वास्तु.परीक्षेत.।
जानु.मात्रम्.गर्तम्.खात्वा.तैर्.एव.पांसुभिः.प्रतिपूरयेत्.।
अधिके.प्रशस्तम्.समे.वार्त्तम्.न्यूने.गर्हितम्.।
अस्तमिते.अपाम्.पूर्णम्.परिवासयेत्.।
सोदके.प्रशस्तम्.आर्द्रे.वार्त्तम्.शुष्के.गर्हितम्.।
श्वेतम्.मधुर.आस्वादम्.सिकत.उत्तरम्.ब्राह्मणस्य.।
लोहितम्.क्षत्रियस्य.।
पीतम्.वैश्यस्य.।
तत्.सहस्र.सीतम्.कृत्वा.यथा.दिक्.सम.चतुर्.अस्रम्.मापयेत्.।
आयत.चतुर्.अस्रम्.वा.।
तत्.शमी.शाखया.उदुम्बर.शाखया.वा.शंतातीयेन.त्रिः.प्रदक्षिणम्.परिव्रजन्.प्रोक्षति.।
अविच्छिन्नया.च.उदक.धारया.आपो.हि.ष्ठ.मयोभुव.इति.तृचेन.।
वंश.अन्तरेषु.शरणानि.कारयेत्.।
गर्तेष्व्.अवकाम्.शीपालम्.इत्य्.अवधापयेन्.न.ह.अस्य.दाहुको.भवति.इति.विज्ञायते.।
मध्यम.स्थूणाया.गर्ते.अवधाय.प्राग्.अग्र.उदग्.अग्रान्.कुशान्.आस्तीर्य.व्रीहि.यवमतीर्.अप.आसेचयेद्.अच्युताय.भौमाय.स्वाहा.इति.।
अथ.एनाम्.उच्छ्रीयमाणाम्.अनुमन्त्रयेत.इह.एव.तिष्ठ.निमिता.तिल्वकास्.ताम्.इरावतीम्.।.मध्ये.पोषस्व.तिष्ठन्ति.इमा.त्वा.प्रापन्न्.अघायवः.॥.आ.त्वा.कुमारस्.तरुण.आ.वत्सो.जायताम्.सह.।.आ.त्वा.परिश्रितः.कुम्भ.आ.दध्नः.कलशैर्.अयन्न्.इति.।
वंशम्.आधीयमानम्.।
ऋतेन.स्थूणाम्.अधिरोह.वंश.द्राघीय.आयुः.प्रतरम्.दधान.इति.।
सर्वासु.चतसृषु.शिलासु.मणिकम्.प्रतिष्ठापयेत्.पृथिव्या.अधि.सम्भव.इति.।
अरङ्गरो.वावदीति.त्रेधा.बद्धो.वरत्रया.।.इराम्.उ.ह.प्रशंसत्य्.अनिराम्.अपबाधताम्.इति.वा.।
अथ.अस्मिन्न्.अप.आसेचयेद्.ऐतु.राजा.वरुणो.रेवतीभिर्.अस्मिंत्.स्थाने.तिष्ठतु.मोदमानः.।.इराम्.वहन्तो.घृतम्.उक्षमाणा.मित्रेण.साकम्.सह.संविशन्त्व्.इति.।
अथ.एनत्.शमयति.।
व्रीहि.यवमतीभिर्.अद्भिर्.हिरण्यम्.अवधाय.शंतायीयेन.त्रिः.प्रदक्षिणम्.परिव्रजन्.प्रोक्षति.।
अविच्छिन्नया.च.उदक.धारया.आपो.हि.ष्ठ.मयोभुव.इति.तृचेन.।
मध्ये.अगारस्य.स्थाली.पाकम्.श्रपयित्वा.वास्तोष्पते.प्रतिजानीह्य्.अस्मान्.इति.चतसृभिः.प्रत्यृचम्.हुत्वा.अन्नम्.संस्कृत्य.ब्राह्मणान्.भोजयित्वा.शिवम्.वास्तु.शिवम्.वास्त्व्.इति.वाचयीत.।
उक्तम्.गृह.प्रपदनम्.।
बीजवतो.गृहान्.प्रपद्येत.।
क्षेत्रम्.प्रकर्षयेद्.उत्तरैः.प्रोष्ठपदैः.फाल्गुनीभी.रोहिण्या.वा.।
क्षेत्रस्य.अनुवातम्.क्षेत्रस्य.पतिना.वयम्.इति.प्रत्यृचम्.जुहुयाज्.जपेद्.वा.।
गाः.प्रतिष्ठमाना.अनुमन्त्रयेत.मयोभु.वातो.अभिवातु.उस्रा.इति.द्वाभ्याम्.।
आयतीर्.यासाम्.ऊधश्.चतुर्.बिलम्.मधोः.पूर्णम्.घृतस्य.च.।.ता.नः.सन्तु.पयस्वतीर्.बह्वीर्.गोष्ठे.घृताच्यः.।.उप.मा.एतु.मयोभुव.ऊर्जम्.च.ओजश्.च.बिभ्रतीः.।.दुहाना.अक्षितम्.पयो.मयि.गोष्ठे.निविशध्वम्.यथा.भवाम्य्.उत्तमः.।.या.देवेषु.तन्वम्.ऐरयन्त.इति.च.सूक्त.शेषम्.।: ऋव् 10.169.3.4.(या.देवे.सु.तन्वम्.ऐरयन्त.)
आगावीयम्.एके.।: ऋव् 6.28.
गणानाम्.उपतिष्ठेत.अगुरु.गवीनाम्.भूताः.स्थ.प्रशस्ताः.स्थ.शोभनाः.प्रियाः.प्रियो.वो.भूयासम्.शम्.मयि.जानीध्वम्.शम्.मयि.जानीध्वम्.।
मूल पाठ: Āśvalāyanagṛhyasūtra · Edition: A.F. Stenzler, Abhandlungen für die Kunde des Morgenlandes, 3,4 (1864) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0