आश्वलायनगृह्यसूत्र · अध्याय 3
अथ.अतः.पञ्च.यज्ञाः.।
देव.यज्ञो.भूत.यज्ञः.पितृ.यज्ञो.ब्रह्म.यज्ञो.मनुष्य.यज्ञ.इति.।
तद्.यद्.अग्नौ.जुहोति.स.देव.यज्ञो.यद्.बलिम्.करोति.स.भूत.यज्ञो.यत्.पितृभ्यो.ददाति.स.पितृ.यज्ञो.यत्.स्वाध्यायम्.अधीते.स.ब्रह्म.यज्ञो.यन्.मनुष्येभ्यो.ददाति.स.मनुष्य.यज्ञ.इति.।
तान्.एतान्.यज्ञान्.अहर्.अहः.कुर्वीत.।
अथ.स्वाध्याय.विधिः.।
प्राग्.वा.उदग्.वा.ग्रामान्.निष्क्रम्य.अप.आप्लुत्य.शुचौ.देशे.यज्ञ.उपवीत्य्.आचम्य.अक्लिन्न.वासा.दर्भाणाम्.महद्.उपस्तीर्य.प्राक्.कूलानाम्.तेषु.प्रान्.मुख.उपविश्य.उपस्थम्.कृत्वा.दक्षिण.उत्तरौ.पाणी.संधाय.पवित्रवन्तौ.।.विज्ञायते.अपाम्.वा.एष.ओषधीनाम्.रसो.यद्.दर्भाः.सरसम्.एव.तद्.ब्रह्म.करोति.।.द्यावा.पृथिव्योः.संधिम्.ईक्षमाणः.सम्मील्य.वा.यथा.वा.युक्तम्.आत्मानम्.मन्येत.तथा.युक्तो.अधीयीत.स्वाध्यायम्.।
ओम्.पूर्वा.व्याहृतयः.।
सावित्रीम्.अन्वाह.पच्छो.अर्धर्चशः.सर्वाम्.इति.तृतीयम्.।
अथ.स्वाध्यायम्.अधीयीत.ऋचो.यजूंषि.सामान्य्.अथर्व.अङ्गिरसो.ब्राह्मणानि.कल्पान्.गाथा.नाराशंसीर्.इतिहास.पुराणानि.इति.।
यद्.ऋचो.अधीते.पय.आहुतिभिर्.एव.तद्.देवतास्.तर्पयति.यद्.यजूंषि.घृत.आहुतिभिर्.यत्.सामानि.मध्व्.आहुतिभिर्.यद्.अथर्व.अङ्गिरसः.सोम.आहुतिभिर्.यद्.ब्राह्मणानि.कल्पान्.गाथा.नाराशंसीर्.इतिहास.पुराणानि.इत्य्.अमृत.आहुतिभिः.।
स.यावन्.मन्येत.तावद्.अधीत्य.एतया.परिदधाति.नमो.ब्रह्मणे.नमो.अस्त्व्.अग्नये.नमः.पृथिव्यै.नम.ओषधीभ्यः.।नमो.वाचे.नमो.वाचस्.पतये.नमो.विष्णवे.महते.करोमि.इति.।
देवतास्.तर्पयति.प्रजापतिर्.ब्रह्मा.वेदा.देवा.ऋषयः.सर्वाणि.छन्दांस्य्.ओम्.कारो.वषट्.कारो.व्याहृतयः.सावित्री.यज्ञा.द्यावा.पृथिवी.अन्तरिक्षम्.अहो.रात्राणि.संख्याः.सिद्धाः.समुद्रा.नद्यो.गिरयः.क्षेत्र.ओषधि.वनस्पति.गन्धर्व.अप्सरसो.नागा.वयांसि.गावः.साध्या.विप्रा.यक्षा.रक्षांसि.भूतान्य्.एवम्.अन्तानि.।
अथ.ऋषयः.शतर्चिनो.माध्यमा.गृत्समदो.विश्वामित्रो.वामदेवो.अत्रिर्.भारद्वाजो.वसिष्ठः.प्रगाथाः.पावमान्यः.क्षुद्र.सूक्ता.महा.सूक्ता.इति.।
प्राचीन.आवीती.।: (.प्राचीनावीति.)
सुमन्तु.जैमिनि.वैशम्पायन.पैल.सूत्र.भाष्य.भारत.महा.भारत.धर्म.आचार्या.जानन्ति.बाहवि.गार्ग्य.गौतम.शाकल्य.बाभ्रव्य.माण्डव्य.माण्डूकेया.गर्गी.वाचक्नवी.वडवा.प्रातीथेयी.सुलभा.मैत्रेयी.कहोलम्.कौषीतकम्.महा.कौषिषीतकम्.पैङ्ग्यम्.महा.पैङ्ग्यम्.सुयज्ञम्.शांखायनम्.ऐतरेयम्.महा.ऐतरेयम्.शाकलम्.बाष्कलम्.सुजात.वक्त्रम्.औदवाहिम्.औदवाहिम्.महा.औदवाहिम्.सौजामिम्.शौनकम्.आश्वलायनम्.ये.च.अन्ये.आचार्यास्.ते.सर्वे.तृप्यन्त्व्.इति.।
प्रतिपुरुषम्.पितॄंस्.तर्पयित्वा.गृहान्.एत्य.यद्.ददाति.स.दक्षिणा.।
अथ.अपि.विज्ञायते.स.यदि.तिष्ठन्.व्रजन्न्.आसीनः.शयानो.वा.यम्.यम्.क्रतुम्.अधीते.तेन.तेन.ह.अस्य.क्रतुना.इष्टम्.भवति.।
विज्ञायते.तस्य.द्वाव्.अनध्यायौ.यद्.आत्मा.अशुचिर्.यद्.देशः.।
अथ.अतो.अध्याय.उपाकरणम्.।
ओषधीनाम्.प्रादुर्.भावे.श्रवणेन.श्रावणस्य.।
पञ्चम्याम्.हस्तेन.वा.।
आज्य.भागौ.हुत्वा.आज्य.आहुतीर्.जुहुयात्.सावित्र्ये.ब्रह्मणे.श्रद्धायै.मेधायै.प्रज्ञायै.धारणायै.सदसस्.पतये.अनुमतये.छन्दोभ्य.ऋषिभ्यश्.च.इति.।
अथ.दधि.सक्तून्.जुहोति.।
अग्निम्.ईडे.पुरोहितम्.इत्य्.एका.।
कुषुम्भकस्.तद्.अब्रवीद्.आवदंस्.त्वम्.शकुने.भद्रम्.आवद.गृणाना.जमदग्निना.धामम्.ते.विश्वम्.भुवनम्.अधिश्रितम्.गन्ता.नो.यज्ञम्.यज्ञियाः.सुशमि.यो.नः.स्वो.अरणः.प्रतिचक्ष्व.विचक्ष्व.अग्ने.याहि.मरुत्.सखा.यत्.ते.राजम्.शृतम्.हविर्.इति.द्वृचाः.।
समानी.व.आकूतिर्.इत्य्.एका.।
तत्.शम्योर्.आवृणीमह.इत्य्.एका.।
अध्येष्यमाणो.अध्याप्यैर्.अन्वारब्ध.एताभ्यो.देवताभ्यो.हुत्वा.सौविष्टकृतम्.हुत्वा.दधि.सक्तून्.प्राश्य.ततो.मार्जनम्.।
अपरेण.अग्निम्.प्राक्.कूउलेषु.दर्भेषु.उपविश्य.उद.पात्रे.दर्भान्.कृत्वा.ब्रह्म.अञ्जलि.कृतो.जपेत्.।
ओम्.पूर्वा.व्याहृतयः.सावित्रीम्.च.त्रिर्.अभ्यस्य.वेद.आदिम्.आरभेत्.।
तथा.उत्सर्गे.।
षण्.मासान्.अधीयीत.।
समावृत्तो.ब्रह्म.आरि.कल्पेन.।
यथा.न्यायम्.इतरे.।
जाया.उपेया.इत्य्.एके.।
प्राजापत्यम्.तत्.।
वार्षिकम्.इत्य्.एतद्.आचक्षते.।
मध्यम.अष्टकायाम्.एताभ्यो.देवताभ्यो.अन्नेन.हुत्वा.अपो.अभ्यवयन्ति.।
एता.एव.देवतास्.तर्पयन्ति.।
आचार्यान्.ऋषीन्.पितॄंश्.च.।
एतद्.उत्सर्जनम्.।
अथ.काम्यानाम्.स्थाने.काम्याश्.चरवः.।
तान्.एव.कामान्.आप्नोति.।
अथ.व्याधितस्य.आतुरस्य.यक्ष्म.गृहीतस्य.वा.षड्.आहुतिश्.चरुः.।
मुञ्चामि.त्वा.हविषा.जीवनाय.कम्.इत्य्.एतेन.।
स्वप्नम्.अमनोज्ञम्.दृष्ट्वा.अद्या.नो.देव.सवितर्.इति.द्वाभ्याम्.यच्.च.गोषु.दुह्ष्वप्न्यम्.इति.पञ्चभिर्.आदित्यम्.उपतिष्ठेत.।
यो.मे.राजन्.युज्यो.वा.सखा.वा.इति.वा.।
क्षुत्वा.जृम्भित्वा.अमनोज्ञम्.दृष्ट्वा.पापकम्.गन्धम्.आघ्राय.अक्षि.स्पन्दने.कर्ण.ध्वनने.च.सुचक्षा.अहम्.अक्षीभ्याम्.भूयासम्.सुवर्चा.मुखेन.सुश्रुत्.कर्णाभ्याम्.मयि.दक्ष.क्रतू.इति.जपेत्.।
अगमनीयाम्.गत्वा.अयाज्यम्.याजयित्वा.भोज्यम्.भुक्त्वा.अप्रतिग्राह्यम्.प्रतिगृह्य.चैत्यम्.यूपम्.च.उपहत्य.पुनर्.माम्.ऐत्व्.इन्द्रियम्.पुनर्.आयुः.पुनर्.भगः.।.पुनर्.द्रविणम्.ऐतु.माम्.पुनर्.ब्राह्मणम्.ऐतु.माम्.स्वाहा.।.इमे.ये.धिष्ण्यासो.अग्नयो.यथा.स्थानम्.इह.कल्पताम्.।.वैश्वानरो.वावृधानो.अन्तर्.यच्छतु.मे.मनो.हृद्य्.अन्तरम्.अमृतस्य.केतुः.स्वाहा.इत्य्.आज्य.आहुती.जुहुयात्.।
समिधौ.वा.।
जपेद्.वा.।
अव्याधितम्.चेत्.स्वपन्तम्.आदित्यो.अभ्यस्तम्.इयाद्.वाग्.यतो.अनुपविशन्.रात्रि.शेषम्.भूत्वा.येन.सूर्य.ज्योतिषा.बाधसे.तम.इति.पञ्चभिर्.आदित्यम्.उपतिष्ठते.।
अभ्युदियच्.चेद्.अकर्म.श्रान्तम्.अनभिरूपेण.कर्मणा.वाग्.यत.इति.समानम्.उत्तराभिश्.चतसृभिर्.उपस्थानम्.।
यज्ञ.उपवीती.नित्य.उदकः.संध्याम्.उपासीत.वाग्.यतः.।
सायम्.उत्तर.अपर.अभिमुखो.अन्वष्टम.देशम्.सावित्रीम्.जपेद्.अर्ध.अस्तमिते.मण्डल.आ.नक्षत्र.दर्शनात्.।
एवम्.प्रातः.।
प्रान्.मुखस्.तिष्ठन्न्.आ.मण्डल.दर्शनात्.।
कपोतश्.चेद्.अगारम्.उपहन्याद्.अनुपतेद्.वा.देवाः.कपोत.इति.प्रत्यृचम्.जुहुयाज्.जपेद्.वा.।
वयम्.उ.त्वा.पथस्पत.इत्य्.अर्थ.चर्याम्.चरिष्यन्.।
सम्.पूषन्.विदुषा.इति.नष्टम्.अधिजिगमिषन्.मूळ्हो.वा.।
सम्.पूषन्न्.अध्वन.इति.महान्तम्.अध्वानम्.एष्यन्.प्रतिभयम्.वा.।
अथ.एतान्य्.उपकल्पयीत.समावर्तमानो.मणिम्.कुण्डले.वस्त्र.युगम्.छत्रम्.उपानद्.युगम्.दण्डम्.स्रजम्.उन्मर्दनम्.अनुलेपनम्.आञ्जनम्.उष्णीषम्.इत्य्.आत्मने.च.आचार्याय.च.।
यद्य्.उभयोर्.न.विन्देत.आचार्याय.एव.।
समिधम्.त्व्.आहरेद्.अपराजितायाम्.दिशि.यज्ञियस्य.वृक्षस्य.।
आर्द्राम्.अन्न.अद्य.कामः.पुष्टि.कामस्.तेजस्.कामो.वा.ब्रह्म.वर्चस.काम.उपवाताम्.।
उभयीम्.उभय.कामः.।
उपरि.समिधम्.कृत्वा.गाम्.अन्नम्.च.ब्राह्मणेभ्यः.प्रदाय.गौदानिकम्.कर्म.कुर्वीत.।
आत्मनि.मन्त्रान्त्.सम्नमयेत्.।
एक.क्लीतकेन.।
शीत.उष्णाभिर्.अद्बिह्ः.स्नात्वा.युवम्.वस्त्राणि.पीवसा.वसाथे.इत्य्.अहते.वाससी.आच्छाद्य.अश्मनस्.तेजो.असि.चक्षुर्.मे.पाहि.इति.चक्षुषी.आञ्जयीत.।
अश्मनस्.तेजो.असि.श्रोत्रम्.मे.पाहि.इति.कुण्डले.आबध्नीत.।
अनुलेपनेन.पाणी.प्रलिप्य.मुखम्.अग्रे.ब्राह्मणो.अनुलिम्पेत्.।
बाहू.राजन्यः.।
उदरम्.वैश्यः.।
उपस्थम्.स्त्री.।
ऊरू.सरण.जीवनः.।
अनार्ता.अस्य्.अनार्तो.अहम्.भूयासम्.इति.स्रजम्.अपिबध्नीत.।
न.माला.उक्ताम्.।
माला.इति.चेद्.ब्रूयुः.स्रग्.इत्य्.अभिधापयीत.।
देवानाम्.प्रतिष्ठे.स्थः.सर्वतो.मा.पातम्.इत्य्.उपानहाव्.आस्थाय.दिवश्.छद्मा.असि.इति.छत्रम्.आदत्ते.।
वेणुर्.असि.वानस्पत्यो.असि.सर्वतो.मा.पाहि.इति.वैणवम्.दण्डम्.।
आयुष्यम्.इत्.सूक्तेन.मणिम्.कण्ठे.प्रतिमुच्य.उष्णीषम्.कृत्वा.तिष्ठन्त्.समिधम्.आदध्यात्.।
स्मृतम्.निन्दा.च.विद्या.च.श्रद्धा.प्रज्ञा.च.पञ्चमी.।.इष्टम्.दत्तम्.अधीतम्.च.कृतम्.सत्यम्.श्रुतम्.व्रतम्.।.यद्.अग्नेः.स.इन्द्रस्य.सप्रजापतिकस्य.सऋषिकस्य.सऋषि.राजन्यस्य.साकाशस्य.सातीकाशस्य.सानुकाशस्य.सप्रतीकाशस्य.सदेव.मनुष्यस्य.सगन्धर्व.अप्सरस्कस्य.सह.अरण्यैश्.च.पशुभिर्.ग्राम्यैश्.च.यन्.म.आत्मन.आत्मनि.व्रतम्.तन्.मे.सर्व.व्रतम्.इदम्.अहम्.अग्ने.सर्व.व्रतो.भवामि.स्वाहा.इति.।
मम.अग्ने.वर्च.इति.प्रत्यृचम्.समिधो.अभ्यादध्यात्.।
यत्र.एनम्.पूजयिष्यन्तो.भवन्ति.तत्र.एताम्.रात्रीम्.वसेत्.।
विद्या.अन्ते.गुरुम्.अर्थेन.निमन्त्र्य.कृत.अनुज्ञातस्य.वा.स्नानम्.।
तस्य.एतानि.व्रतानि.भवन्ति.।
न.नक्तम्.स्नायान्.न.नग्नः.स्नायान्.न.नग्नः.शयीत.न.नग्नाम्.स्त्रियम्.ईक्षेत.अन्यत्र.मैथुनाद्.वर्षति.न.धावेन्.न.वृक्षम्.आरोहेन्.न.कूपम्.अवरोहेन्.न.बाहुभ्याम्.नदीम्.तरेन्.न.संशयम्.अभ्यापद्येत.महद्.वै.भूतम्.स्नातको.भवति.इति.विज्ञायते.।
गुरवे.प्रस्रक्ष्यमाणो.नाम.प्रब्रुवीत.।
इदम्.वत्स्यामो.भो.इति.।
उच्चैर्.ऊर्ध्वम्.नाम्नः.।
प्राण.अपानयोर्.उपांशु.।
आ.मन्द्रैर्.इन्द्र.हरिभिर्.इति.च.।
अतो.वृद्धो.जपति.प्राण.अपानयोर्.उरुव्यचास्तया.प्रपद्ये.देवाय.सवित्रे.परिददामि.इत्य्.ऋचम्.च.।:(.उरुव्यचस्.त्वया.)
समाप्य.ओम्.प्राक्.स्वस्ति.इति.जपित्वा.महि.त्रीणाम्.इत्य्.अनुमन्त्र्य.।
एवम्.अतिषृष्टस्य.न.कुतश्चिद्.भयम्.भवति.इति.विज्ञायते.।
वयसाम्.अमनोज्ञा.वाचः.श्रुत्वा.कनिद्रदज्.जनुषम्.प्रब्रुवाण.इति.सूक्ते.जपेद्.देवीम्.वाचम्.अजनयन्त.देवा.इति.च.।
स्तुहि.श्रुतम्.गर्तसदम्.युवानम्.इति.मृगस्य.।
यस्या.दिशो.बिभीयाद्.यस्माद्.वा.ताम्.दिशम्.उल्मुकम्.उभयतः.प्रदीप्तम्.प्रत्यस्येन्.मन्थम्.वा.प्रसव्यम्.आलोड्य.अभयम्.मित्रावरुणा.मह्यम्.अस्त्व्.अर्चिषा.शत्रून्.दहतम्.प्रतीत्य.।.मा.ज्ञातारम्.मा.प्रतिष्ठाम्.विन्दन्तु.मिथो.भिन्दाना.उपयन्तु.मृत्युम्.इति.।
>।संसृष्टम्.धनम्.उभयम्.समाकृतम्.इति.मन्थम्.न्यञ्चम्.करोति.।
सर्वतो.भयाद्.अनाज्ञाताद्.अष्टाव्.आज्य.आहुतीर्.जुहुयात्.पृथिवी.वृता.साग्निना.वृता.तया.वृतया.वर्त्र्या.यस्माद्.भयाद्.बिभेमि.तद्.वारये.स्वाहा.।
अन्तरिक्षम्.वृतम्.तद्.वायुना.वृतम्.तेन.वृतेन.वर्त्रेण.यस्माद्.भयाद्.बिभेमि.तद्.वारये.स्वाहा.।.द्यौर्.वृता.सादित्येन.वृता.तया.वृतया.वर्त्र्या.यस्माद्.भयाद्.बिभेमि.तद्.वारये.स्वाहा.।
आपो.वृतास्.ता.वरुणेन.वृतास्.ताभिर्.वृताभिर्.वर्त्रीभिर्.यस्माद्.भयाद्.बिभेमि.तद्.वारये.स्वाहा.।.प्रजा.वृतास्.ताः.प्राणेन.वृतास्.ताभिर्.वृताभिर्.वर्त्रीभिर्.यस्माद्.भयाद्.बिभेमि.तद्.वारये.स्वाहा.।
वेदा.वृता.ते.छन्दोभिर्.वृतास्.तैर्.वृतैर्.वर्त्रैर्.यस्माद्.बिभेमि.तद्.वारये.स्वाहा.।.सर्वम्.वृतम्.तद्.ब्रह्मणा.वृतम्.तेन.वृतेन.वर्त्रेण.यस्माद्.भयाद्.बिभेमि.तद्.वारये.स्वाहा.इति.।
अथ.अपराजितायाम्.दिश्य्.अवस्थाय.स्वस्त्य्.आत्रेयम्.जपति.यत.इन्द्र.भयामह.इति.च.सूक्त.शेषम्.।
संग्रामे.समुपोळ्हे.राजानम्.सम्नाहयेत्.।
आ.त्वा.अहार्षम्.इति.पश्चाद्.रथस्य.अवस्थाय.।
जीमूतस्य.इव.भवति.प्रतीकम्.इति.कवचम्.प्रयच्छेत्.।
उत्तरया.धनुः.।
उत्तराम्.वाचयेत्.।
स्वयम्.चतुर्थीम्.जपेत्.।
पञ्चम्या.इषुधिम्.प्रयच्छेत्.।
अभिप्रवर्तमाने.षष्ठीम्.।
सप्तम्या.अश्वान्.।
अष्टमीम्.इषून्.अवेक्षमाणम्.वाचयति.।
अहिर्.इव.भोगैः.पर्येति.बाहुम्.इति.तळम्.नह्यमानम्.।
अथ.एनम्.सारयमाणम्.उपारुह्य.अभीवर्तम्.वाचयति.प्र.यो.वाम्.मित्रा.वरुण.इति.च.द्वे.।:ऋव् 10.174.
अथ.एनम्.अन्वीक्षेत.अप्रतिरथे.शास.सौपर्णैः.।
प्रधारयन्तु.मधुनो.घृतस्य.इत्य्.एतत्.सौपर्णम्.।
सर्वा.दिशो.अनुपर्यायात्.।
आदित्यम्.औशनसम्.वा.अवस्थाय.प्रयोधयेत्.।
उपश्वासय.पृथिवीम्.उत.द्याम्.इति.तृचेन.दुन्दुभिम्.अभिमृशेत्.।
अवसृष्टा.परापत.इति.इषून्.विसर्जयेत्.।
यत्र.बाणाः.सम्पतन्ति.इति.युध्यमानेषु.जपेत्.।
संशिष्याद्.वा.संशिष्याद्.वा.।
मूल पाठ: Āśvalāyanagṛhyasūtra · Edition: A.F. Stenzler, Abhandlungen für die Kunde des Morgenlandes, 3,4 (1864) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0