आश्वलायनगृह्यसूत्र · अध्याय 1
उक्तानि.वैतानिकानि.गृह्यानि.वक्ष्यामः.।
त्रयः.पाक.यज्ञाः.हुता.अग्नौ.हूयमाना.अनग्नौ.प्रहुता.ब्राह्मण.भोजने.ब्रह्मणि.हुताः.।
अथ.अप्य्.ऋच.उदाहरन्ति.।.यः.समिध.य.आहुती.यो.वेदेन.इति.।
समिधम्.एव.अपि.श्रद्दधान.आदधन्.मन्येत.यज.इदम्.इति.नमस्.तस्मै.य.आहुत्या.यो.वेदेन.इति.विद्यया.एव.अप्य्.अस्ति.प्रीतिस्.तद्.एतत्.पश्यन्न्.ऋषिर्.उवाच.।
अगो.रुधाय.गविषे.द्युक्षाय.दस्म्यम्.वचः.।.घृतात्.स्वादीयो.मधुनश्.च.वोचत.इति.।.वच.एव.म.इदम्.घृताच्.च.मह्दुनश्.च.स्वादीयो.अस्ति.प्रीतिः.स्वादीयो.अस्त्व्.इत्य्.एव.तद्.आह.।
.आ.ते.अग्न.>.ऋचा.हविर्हृदा.तष्टम्.भरामसि.।.ते.ते.भवन्तु.उक्षण.ऋषभासो.वशा.उत.इति.।.एत.एव.म.उक्षाणश्.च.ऋषभाश्.च.वशाश्.च.भवन्ति.य.इमम्.स्वाध्यायम्.अधीयत.इति.।
.यो.नमसा.स्वध्वर.इति.नमस्.कारेण.वै.खल्व्.अपि.न.वै.देवा.नमस्.कारमति.यज्ञो.वै.नम.इति.हि.ब्राह्मणम्.भवति.।
अथ.सायम्.प्रातः.सिद्धस्य.हविष्यस्य.जुहुयात्.।
अग्निहोत्र.देवतेभ्यः.सोमाय.वनस्पतये.अग्नीषोमाभ्याम्.इन्र.अग्निभ्याम्.द्यावा.पृथिवीभ्याम्.धन्वन्तरय.इन्द्राय.विश्वेभ्यो.देवेभ्यो.ब्रह्मणे.।
स्वाहा.इत्य्.अथ.बलि.हरणम्.।
एताभ्यश्.च.एव.देवताभ्यो.अद्भ्य.ओषधि.वनस्पतिभ्यो.गृहाय.गृह.देवताभ्यो.वास्तु.देवताभ्यः.।
इन्द्राय.इन्द्र.पुरुषेभ्यो.यमाय.यम.पुरुषेभ्यो.वरुणाय.वरुण.पुरुषेभ्यः.सोमाय.सोम.पुरुषेभ्य.इति.प्रदितिशम्.।
ब्रह्मणे.ब्रह्म.पुरुषेभ्य.इति.मध्ये.।
विश्वेभ्यो.देवेभ्यः.सर्वेभ्यो.भूतेभ्यो.दिवा.चारिभ्य.इति.दिवा.।
नक्तम्.चारिभ्य.इति.नक्तम्.।
रक्षोभ्य.इत्य्.उत्तरतः.।
स्वधा.पितृभ्य.इति.प्राचीन.आवीती.शेषम्.दक्षिणा.निनयेत्.।
अथ.खलु.यत्र.क्व.च.होष्यन्त्.स्याद्.इषु.मात्र.अवरम्.सर्वतः.स्थण्डिलम्.उपलिप्य.उल्लिख्य.षट्.लेखा.उदगायताम्.पश्चात्.प्राग्.आयते.नाना.अन्तयोस्.तिस्रो.मध्ये.तद्.अभ्युक्ष्य.अग्निम्.प्रतिष्ठाप्य.अन्वाधाय.परिसमुह्य.परिस्तीर्य.पुरस्ताद्.दक्षिणतः.पश्चाद्.उत्तरत.इत्य्.उदक्.संस्थम्.तूष्णीम्.पर्युक्षणम्.।
पवित्राभ्याम्.आज्यस्य.उत्पवनम्.।
अप्रच्छिन्न.अग्राव्.अनन्तर्.गर्भौ.प्रादेश.मात्रौ.कुशौ.नाना.अन्तयोर्.गृहीत्वा.अङ्गुष्ठ.उपकनिष्ठिकाभ्याम्.उत्तानाभ्याम्.पाणिभ्याम्.सवितुष्ट्वा.प्रसव.उत्पुनाम्य्.अछिद्रेण.पवित्रेण.वसोः.सूर्यस्य.रश्मिभिर्.इति.प्राग्.उत्पुनाति.सकृन्.मन्त्रेण.द्विस्.तूष्णीम्.।
कृत.अकृतम्.आज्य.होमेषु.परिस्तरणम्.।
तथा.आज्य.भागौ.पाक.यज्ञेषु.।
ब्रह्मा.च.धन्वन्तरि.यज्ञ.शूलगव.वर्जम्.।
अमुष्मै.स्वाहा.इति.जुहुयात्.।
अग्निर्.इन्द्रः.प्रजापतिर्.विश्वे.देवा.ब्रह्मा.इत्य्.अनादेशे.।
एक.बर्हिर्.इध्म.आज्य.स्विष्टकृतः.स्युस्.तुल्य.कालाः.।
तद्.एषा.अभियज्ञ.गाथा.गीयते.।.पाक.यज्ञान्त्.समासाद्य.एक.आज्यान्.एक.बर्हिषः.।.एक.स्विष्टकृतः.कुर्यान्.नाना.अपि.सति.दैवत.इति.।
उदग्.अयन.आपूर्यमाण.पक्षे.कल्याणे.नक्षत्रे.चौल.कर्म.उपनयन.गोदान.विवाहाः.।:(.चौड.कर्म.)
सार्वकालम्.एके.विवाहम्.।
तेषाम्.पुरस्ताच्.चतस्र.आज्य.आहुतीर्.जुहुयात्.।
अग्न.आयूंसि.पवस.इति.तिसृभिः.प्रजापते.न.त्वद्.एतान्य्.अन्य.इति.च.।
व्याहृतिभिर्.वा.।
समुच्चयम्.एके.।
न.एके.कांचन.।
त्वम्.अर्यमा.भवसि.यत्.कनीनाम्.इति.विवाहे.चतुर्थीम्.।
कुलम्.अग्रे.परीक्षेत.ये.मातृतः.पितृतश्.च.इति.यथा.उक्तम्.पुरस्तात्.।
बुद्धिमते.कन्याम्.प्रयच्चेत्.।
बुद्धि.रूप.शील.लक्षण.सम्पन्नाम्.अरोगाम्.उपयच्छेत्.।
दुर्विज्ञेयानि.लक्षणान्य्.अष्टौ.पिण्डान्.कृत्व.ऋतम्.अग्रे.प्रथमम्.जज्ञ.ऋते.सत्यम्.प्रतिष्ठितम्.।.यद्.इयम्.कुमार्य्.अभिजाता.तद्.इयम्.इह.प्रतिपद्यताम्.।.यत्.सत्यम्.तद्.दृश्यताम्.इति.पिण्डान्.अभिमन्त्र्य.कुमारीम्.ब्रूयाद्.एषाम्.एकम्.गृहाण.इति.।
क्षेत्राच्.चेद्.उभयतः.सस्याद्.गृह्णीयाद्.अन्नवत्य्.अस्याः.प्रजा.भविष्यति.इति.विद्याद्.गोष्ठात्.पशुमती.वेदि.पुरीषाद्.ब्रह्म.वर्चस्विन्य्.अविदासिनो.ह्रदात्.सर्व.सम्पन्ना.देवनात्.कितवी.चतुष्पथाद्.द्विप्रव्राजिनी.इरिणाद्.अधन्या.श्मशानात्.पतिघ्नी.।
अलम्.कृत्य.कन्याम्.उदक.पूर्वाम्.दद्याद्.एष.ब्राह्मो.विवाहस्.तस्याम्.जातो.द्वादश.अवरान्.द्वादश.परान्.पुनात्य्.उभयतः.।
ऋत्जिजे.वितते.कर्मणि.दद्याद्.अलम्.कृत्य.स.दैवो.दश.अवरान्.दश.परान्.पुनात्य्.उभयतः.।
सह.धर्मम्.चरत.इति.प्राजापत्यो.अष्ट.अवरान्.अष्ट.परान्.पुनात्य्.उभयतः.।
गो.मिथुनम्.दत्त्वा.उपयच्छेत.स.आर्षः.सप्त.अवरान्त्.सप्त.परान्.पुनात्य्.उभयतः.।
मिथः.समयम्.कृत्वा.उपयच्छेत.स.गान्धर्वः.।
धनेन.उपतोष्य.उपयच्छेत.स.आसुरः.।
सुप्तानाम्.प्रमत्तानाम्.वा.अपहरेत्.स.पैशाचः.।
हत्वा.भित्त्वा.च.शीर्षाणि.रुदतीम्.रुदद्भ्यो.हरेत्.स.राक्षसः.।
अथ.खलु.उच्च.अवचा.जन.पद.धर्मा.ग्राम.धर्माश्.च.तान्.विवाहे.प्रतीयात्.।
यत्.तु.समानम्.तद्.वक्ष्यामः.।
पश्चाद्.अग्नेर्.दृषदम्.अश्मानम्.प्रतिष्ठाप्य.उत्तर.पुरस्ताद्.उद.कुम्भम्.समन्वारब्धायाम्.हुत्वा.तिष्ठन्.प्रत्यन्.मुखः.प्रान्.मुख्या.आसीनाय.गृभ्णामि.ते.सौभगत्वाय.हस्तम्.इत्य्.अङ्गुष्ठम्.एव.गृह्णीयाद्.यदि.कामयीत.पुमांस.एव.मे.पुत्रा.जायेरन्न्.इति.।
अङ्गुलीर्.एव.स्त्री.कामः.।
रोम.अन्ते.हस्तम्.साङ्गुष्ठम्.उभय.कामः.।
प्रदक्षिणम्.अग्निम्.उद.कुम्भम्.च.त्रिः.परिणयम्.जपत्य्.अमो.अहम्.अस्मि.सा.त्वम्.सा.त्वम्.अस्य्.अमो.अहम्.।.द्यौर्.अहम्.पृथिवी.त्वम्.साम.अहम्.ऋक्.त्वम्.।.ताव्.एहि.विवहावहै.प्रजाम्.प्रजनयावहै.।.सम्प्रियौ.रोचिष्णू.सुमनस्यमानौ.जीवेव.शरदः.शतम्.इति.।
परिणीय.परिणीय.अश्मानम्.आरोहयन्ति.इमम्.अश्मानम्.आरोह.अश्मा.इव.त्वम्.स्थिरा.भव.।.सहस्व.पृतनायतो.अभितिष्ठ.पृतन्यत.इति.।
वध्व्.अञ्जला.उपस्तीर्य.भ्राता.भ्रातृ.स्थानो.वा.द्विर्.लाजान्.आवपति.।
त्रिर्.जामदग्न्यानाम्.।
प्रत्यभिघार्य.हविः.।
अवत्तम्.च.।
एषो.अवदान.धर्मः.।
अर्यमणम्.नु.देवम्.कन्या.अग्निम्.अयक्षत.।.स.इमाम्.देवो.अर्यमा.प्रेतो.मुञ्चातु.न.अमुतः.स्वाहा.॥.वरुणम्.नु.देवम्.कन्या.अग्निम्.अयक्षत.।.स.इमाम्.देवो.वरुणः.प्रेतो.मुञ्चातु.न.अमुतः.स्वाहा.॥.पूषणम्.नु.देवम्.कन्या.अग्निम्.अयक्षत.।.स.इमाम्.देवः.पूषा.प्रेतो.मुञ्चातु.न.अमुतः.स्वाहा.इत्य्.अविच्छिन्दत्य्.अञ्जलिम्.स्रुचा.इव.जुहुयात्.।
अपरिणीय.शूर्प.पुटेन.अभ्यात्मम्.तूष्णीम्.चतुर्थम्.।
ओप्य.ओप्य.ह.एके.लाजान्.परिणयन्ति.तथा.उत्तमे.आहुती.न.सम्निपततः.।
अथ.अस्यै.शिखे.विमुञ्चति.यदि.कृते.भवत.ऊर्णास्तुके.केश.पक्षयोर्.बद्धे.भवतः.।
प्र.त्वा.मुञ्चामि.वरुणस्य.पाशाद्.इति.।
उत्तराम्.उत्तरया.।
अथ.एनाम्.अपराजितायाम्.दिशि.सप्त.पदान्य्.अभ्युत्क्रामयति.इष.एक.पद्य्.ऊर्जे.द्विपदी.रायस्.पोषाय.त्रिपदी.मायोभव्याय.चतुष्पदी.प्रजाभ्यः.पञ्चपद्य्.ऋतुभ्य.षट्पदी.सखा.सप्तपदी.भव.सा.माम्.अनुव्रता.भव.।.पुत्रान्.विन्दावहै.बहूंस्.ते.सन्तु.जरद्.अष्टय.इति.।
उभयोः.सम्निधाय.शिरसी.उद.कुम्भेन.अवसिच्य.।
ब्राह्मण्याश्.च.वृद्धाया.जीव.पत्या.जीव.प्रजाया.अगार.एताम्.रात्रिम्.वसेत्.।
ध्रुवम्.अरुन्धतीम्.सप्त.ऋषीन्.इति.दृष्ट्वा.वाचम्.विसृजेत.जीव.पत्नी.प्रजाम्.विन्देत.इति.।
प्रयाण.उपपद्यमाने.पूषा.त्वा.इतो.नयतु.हस्त.गृह्य.इति.यानम्.आरोहयेत्.।
अश्मन्वती.रीयते.संरभध्वम्.इय्.अर्धर्चेन.नावम्.आरोहयेत्.।
उत्तरेण.उत्क्रमेत्.।
जीवम्.रुदन्ति.इति.रुदत्याम्.।
विवाह.अग्निम्.अग्रतो.अजस्रम्.नयन्ति.।
कल्याणेषु.देश.वृक्ष.चतुष्पथेषु.मा.विदन्.परिपन्थिन.इति.जपेत्.।
वासे.वासे.सुमङ्गलीर्.इयम्.वधूर्.इति.ईक्षकान्.ईक्षेत.।
इह.प्रियम्.प्रजया.ते.समृध्यताम्.इति.गृहम्.प्रवेशयेत्.।
विवाह.अग्निम्.उपसमाधाय.पश्चाद्.अस्य.अनडुहम्.चर्म.आस्तीर्य.प्राग्.ग्रीवम्.उत्तर.लोम.तस्मिन्न्.उपविष्टायाम्.मनन्वारब्धायाम्.आ.नः.प्रजाम्.जनयतु.प्रजापतिर्.इति.चतसृभिः.प्रत्यृचम्.हुत्वा.सम्.अञ्जन्तु.विश्वे.देवा.इति.दध्नः.प्राश्य.प्रतिप्रयच्छेद्.आज्य.शेषेण.वा.अनक्ति.हृदये.।
अत.ऊर्ध्वम्.अक्षार.अलवण.अशिनौ.ब्रह्मचारिणाव्.अलम्.कुर्वाणाव्.अधः.शायिनौ.स्याताम्.त्रिरात्रम्.द्वादश.रात्रम्.।
संवत्सरम्.वा.एक.ऋषिर्.जायत.इति.।
चरित.व्रतः.सूर्याविदे.वधू.वस्त्रम्.दद्यात्.।
अन्नम्.ब्राह्मणेभ्यः.।
अथ.स्वस्त्ययनम्.वाचयीत.।
पाणि.ग्रहण.आदि.गृह्यम्.परिचरेत्.स्वयम्.पत्न्य्.अपि.वा.पुत्रः.कुमार्य्.अन्तेवासी.वा.।
नित्य.अनुगृहीतः.स्यात्.।
यदि.तु.उपशाम्येत्.पत्न्य्.उपवसेद्.इत्य्.एके.।
तस्य.अग्निहोत्रेण.प्रादुष्.करण.होम.कालौ.व्याख्यातौ.।
हौम्यम्.च.मांस.वर्जम्.।
कामम्.तु.व्रीहि.यव.तिलैः.।
अग्नये.स्वाहा.इति.सायम्.जुहुयात्.सूर्याय.स्वाहा.इति.प्रातस्.तूष्णीम्.द्वितीये.उभयत्र.।
अथ.पार्वण.स्थाली.पाकः.।
तस्य.दर्श.पूर्ण.मासाभ्याम्.उपवासः.।
इध्मा.बर्हिषोश्.च.सम्नहनम्.।
देवताश्.च.उपांशु.जाय.इन्द्र.महा.इन्द्र.वर्जम्.।
काम्या.इतराः.।
तस्यै.तस्यै.देवतायै.चतुरश्.चतुरो.मुष्टीन्.निर्वपति.पवित्रे.अन्तर्धाय.अमुष्मै.त्वा.जुष्टम्.निर्वपामि.इति.।
अथ.एनान्.प्रोक्षति.यथा.निरुप्तम्.अमुष्मै.त्वा.जुष्टम्.प्रोक्षामि.इति.।
अवहतांस्.त्रिः.फली.कृतान्.नाना.श्रपयेत्.।
समोप्य.वा.।
यदि.नाना.श्रपयेद्.विभज्य.तण्डुलान्.अभिमृशेद्.इदम्.अमुष्मा.इदम्.अमुष्मा.इति.।
यद्य्.उ.वै.समोप्य.व्युद्धारम्.जुहुयात्.।
शृतानि.हवींष्य्.भिघार्य.उदग्.उद्वास्य.बर्हिष्य्.आसाद्य.इध्मम्.अभिघार्य.अयम्.त.इध्म.आत्मा.जात.वेदस्.तेन.इध्यस्व.वर्धस्व.च.इद्ध.(.चेद्ध.).वर्धय.च.अस्मान्.प्रजया.पशुभिर्.ब्रह्म.वर्चसेन.अन्न.अद्येन.समेधय.स्वाहा.इति.।
तूष्णीम्.आघाराव्.आघार्य.आज्य.भागौ.जुहुयाद्.अग्नये.स्वाहा.सोमाय.स्वाहा.इति.।
उत्तरम्.आग्नेयम्.दक्षिणम्.सौम्यम्.।
विज्ञायते.चक्षुषी.वा.एते.यज्ञस्य.यद्.आज्य.भागौ.।
तस्मात्.पुरुषस्य.प्रत्यन्.मुखस्य.आसीनस्य.दक्षिणम्.अक्ष्य्.उत्तरम्.भवत्य्.उत्तरम्.दक्षिणम्.।
मध्ये.हवींषि.प्रत्यक्तरम्.वा.प्राक्.संस्थान्य्.उदक्.संस्थानि.वा.।
उत्तर.पुरस्तात्.सौविष्टकृतम्.।
मध्यात्.पूर्व.अर्धाच्.च.हविषो.अवद्यति.।
मध्यात्.पूर्व.अर्धात्.पश्चार्धाद्.इति.पञ्च.अवत्तिनाम्.।
उत्तर.अर्धात्.सौविष्टकृतम्.।
न.अत्र.हवींषि.प्रत्यभिघारयति.।
यद्.अस्य.कर्मणो.अत्यरीरिचम्.यद्.वा.न्यूनम्.इह.अकरम्.।.अग्निष्.टत्.स्विष्टकृद्.विद्वांत्.सर्वम्.स्विष्टम्.सुहुतम्.करोतु.मे.।.अग्नये.स्विष्टकृते.सुहुतहुते.सर्व.प्रायश्.चित्त.आहुतीनाम्.कामानाम्.समर्धयित्रे.सर्व.अन्नः.कामांत्.समर्धय.स्वाहा.इति.।
बर्हिषि.पूर्ण.पात्रम्.निनयेत्.।
एषो.अवभृथः.।
पाक.यज्ञानाम्.एतत्.तन्त्रम्.।
हविर्.उच्छिष्टम्.दक्षिणा.।
अथ.पशु.कल्पः.।
उत्तरतो.अग्नेः.शामित्रस्य.आयतनम्.कृत्वा.पाययित्वा.पशुम्.आप्लाव्य.पुरस्तात्.प्रत्यन्.मुखम्.अवस्थाप्य.अग्निम्.दूतम्.इति.द्वाभ्याम्.हुत्वा.सपलाश्श्या.आर्द्र.शाखया.पश्चाद्.उपस्पृशेद्.अमुष्मै.त्वा.जुष्टम्.उपाकरोमि.इति.।
व्रीहि.यवमतीभिर्.अद्भिः.पुरस्तात्.प्रोक्षत्य्.अमुष्मै.त्वा.जुष्टम्.प्रोक्षामि.इति.।
तासाम्.पाययित्वा.दक्षिणम्.अनु.बाहुम्.शेषम्.निनयेत्.।
आवृता.एव.पर्यग्नि.कृत्वा.उदञ्चम्.नयन्ति.।
तस्य.पुरस्ताद्.उल्मुकम्.हरन्ति.।
शामित्र.एष.भवति.।
वपा.श्रपणीभ्याम्.कर्ता.पशुम्.अन्वारभते.।
कर्तारम्.यजमानः.।
पश्चात्.शामित्रस्य.प्राक्.शिरसम्.प्रत्यक्.शिरसम्.वा.उदक्.पादम्.संज्ञप्य.पुरा.नाभेस्.तृणम्.अन्तर्धाय.वपाम्.उत्खिद्य.वपाम्.अवदाय.वपा.श्रवणीभ्याम्.परिगृह्य.अद्भिर्.अभिषिच्य.शामित्रे.प्रताप्य.अग्रेण.एनम्.अग्निम्.हृत्वा.दक्षिणत.आसीनः.श्रपयित्वा.परीत्य.जुहुयात्.।
एतस्मिन्न्.एव.अग्नौ.स्थाली.पाकम्.श्रपयन्ति.।
एकादश.पशोर्.अवदानानि.सर्व.अङ्गेभ्यो.अवदाय.शामित्रे.श्रपयित्वा.हृदयम्.शूले.प्रताप्य.स्थाली.पाकस्य.अग्रतो.जुहुयात्.।
अवदानैर्.वा.सह.।
एक.एकस्य.अवदानस्य.द्विर्.द्विर्.अवद्यति.।
आवृता.एव.हृदय.शूलेन.चरन्ति.।
चैत्य.यज्ञे.प्राक्.स्विष्टकृतश्.चैत्याय.बलिम्.हरेत्.।
यद्य्.उ.वै.विदेशस्थम्.पलाश.दूतेन.।
यत्र.वेत्थ.वनस्पत.इत्य्.एतया.ऋचा.द्वौ.पिण्डौ.कृत्वा.वीवधे.अभ्याधाय.दूताय.प्रयच्चेद्.इमम्.तस्मै.बलिम्.हर.इति.च.एनम्.ब्रूयात्.।
अयम्.तुभ्यम्.इति.यो.दूताय.।
प्रतिभयम्.चेद्.अन्तरा.शस्त्रम्.अपि.किंचित्.।
नाव्या.चेन्.नद्य्.अन्तरा.प्लव.रूपम्.अपि.किंचिद्.अनेन.तरितव्यम्.इति.।
धन्वन्तरि.यज्ञे.ब्राह्मणम्.अग्निम्.च.अन्तरा.पुरोहिताय.अग्ने.बलिम्.हरेत्.।
उपनिषदि.गर्भ.लम्भनम्.पुंसवनम्.अनवलोभनम्.च.।
यद्य्.न.अधीयात्.तृतीये.गर्भ.मासे.तिष्येण.उपोषितायाः.सरूप.वत्साया.गोर्.दधनि.द्वौ.द्वौ.तु.माषौ.यवम्.च.दधि.प्रसृतेन.प्राशयेत्.।
किम्.पिबसि.किम्.पिबसि.इति.पृष्टा.पुंसवनम्.पुंसवनम्.इति.त्रिः.प्रतिजानीयात्.।
एवम्.त्रीन्.प्रसृतान्.।
अथ.अस्यै.मण्डल.अगारच्.छायायाम्.दक्षिणस्याम्.नासिकायाम्.अजीताम्.ओषधीम्.नस्तः.करोति.।
प्राजावत्.जीव.पुत्राभ्याम्.ह.एके.।
प्राजापत्यस्य.यत्.ते.सुसीमे.हृदये.हितम्.अन्तः.प्रजापतौ.।.मन्ये.अहम्.माम्.तद्.विद्वांसम्.मा.अहम्.पौत्रम्.अघम्.नियाम्.इति.।
चतुर्थे.गर्भ.मासे.सीमन्त.उन्नयनम्.।
आपूर्यमाण.पक्षे.यदा.पुंसा.नक्षत्रेण.चन्द्रमा.युक्तः.स्यात्.।
अथ.अग्निम्.उपसमाधाय.पश्चाद्.अस्य.अनडुहम्.चर्म.आस्तीर्य.प्राग्.ग्रीवम्.उत्तर.लोम.तस्मिन्न्.उपविष्टायाम्.समन्वारब्धायाम्.धाता.ददातु.दाशुष.इति.द्वाभ्याम्.राकाम्.अहम्.इति.द्वाभ्याम्.नेजमेष.प्रजापते.न.त्वद्.एतान्य्.अन्य.इति.च.।
अथ.अस्यै.युग्मेन.शलाटु.ग्रप्सेन.त्रेण्या.च.शलल्या.त्रिभिश्.च.कुश.पिञ्जूलैर्.ऊर्ध्वम्.सीमन्तम्.व्यूहति.भूर्.भुवः.स्वर्.ओम्.इति.त्रिः.।
चतुर्.वा.।
विना.गाथिनौ.संशास्ति.सोमम्.राजानम्.संगायेताम्.इति.।
सोमो.नो.राजा.अवतु.मानुषीः.प्रजा.निविष्ट.चक्र.असाव्.(?).इति.याम्.नदीम्.उपवसिता.भवन्ति.।
ब्राह्मण्यश्.च.वृद्धा.जीव.पत्यो.जीव.प्रजा.यद्.यद्.उपदिशेयुस्.तत्.तत्.कुर्युः.।
ऋषभो.दक्षिणा.।
कुमारम्.जातम्.पुरा.अन्यैर्.आलम्भात्.सर्पिर्.मधुनी.हिरण्य.निकाषम्.हिरण्येन.प्राशयेत्.प्र.ते.ददामि.मधुनो.घृतस्य.वेदम्.सवित्रा.प्रसूतम्.मघोनाम्.।.आयुष्मान्.गुप्तो.देवताभिः.शतम्.जीव.शरदो.लोके.असन्न्.इति.।
कर्णयोर्.उपनिधाय.मेधा.जननम्.जपति.मेधाम्.ते.देवः.सविता.मेधाम्.देवी.सरस्वती.।.मेधाम्.ते.अश्विनौ.देवाव्.आधत्ताम्.पुष्कर.स्रजाव्.इति.।
अंसाव्.अभिमृशत्य्.अश्मा.भव.परशुर्.भव.हिरण्यम्.अस्तृतम्.भव.।.वेदो.वै.पुत्र.नामा.असि.स.जीव.शरदः.शतम्.इति.इन्द्रम्.श्रेष्ठानि.द्रविणानि.धेह्य्.अस्मे.प्रयन्धि.मघवन्न्.ऋजीषिन्न्.इति.च.।
नाम.च.अस्मै.दद्युर्.घोषवद्.आद्य्.अन्तर्.अन्तस्थम्.अभिनिष्टान.अन्तम्.द्व्य्.अक्षरम्.।
चतुर्.अक्षरम्.वा.।
द्व्य्.अक्षरम्.प्रतिष्ठा.कामश्.चतुर्.अक्षरम्.ब्रह्म.वर्चस.कामः.।
युग्मानि.त्व्.एव.पुंसाम्.अयुजानि.स्त्रीणाम्.।
अभिवादनीयम्.च.समीक्षेत.तन्.माता.पितरौ.विद्याताम्.आ.उपनयनात्.।
प्रवासाद्.एत्य.पुत्रस्य.शिरः.परिगृह्य.जपत्य्.अङ्गाद्.अङ्गात्.सम्भवसि.हृदयाद्.अधि.जायसे.।.आत्मा.वै.पुत्र.नामा.असि.स.जीव.शरदः.शतम्.इति.मूर्धनि.त्रिर्.अवघ्राय.।
आवृता.एव.कुमार्यै.।
षष्ठे.मास्य्.अन्न.प्राशनम्.।
आजम्.अन्न.अद्य.कामः.।
तैत्तिरम्.ब्रह्म.वर्चस.कामः.।
घृत.ओदनम्.तेजस्.कामः.।
दह्दि.मधु.घृत.मिश्रम्.अन्नम्.प्राशयेद्.अन्न.पते.अन्नस्य.नो.देह्य्.अनमीवस्य.शुष्मिणः.।.प्र.प्रदातारम्.तारिष.ऊर्जम्.नो.धेहि.द्विपदे.चतुष्पद.इति.।
आवृता.एव.कुमार्यै.।
तृजीये.वर्षे.चौलम्.यथा.कुल.धर्मम्.वा.।
उत्तरतो.अग्नेर्.व्रीहि.यव.माष.तिलानाम्.पृथक्.पूर्ण.शरावाणि.निदधाति.।
पश्चात्.कारयिष्यमाणो.मातुर्.उपस्थ.आनडुहम्.गोमयम्.नवे.शरावे.शमी.पर्णानि.च.उपनिहितानि.भवन्ति.।
मातुः.पिता.दक्षिणत.एकविंशति.कुश.पिञ्जूलान्य्.आदाय.।
ब्रह्मा.वा.एतानि.धारयेत्.।
पश्चात्.कारयिष्यमाणस्य.अवस्थाय.शीत.उष्णा.अपः.समनीय.उष्णेन.वाय.उदकेन.इहि.इति.।
तासाम्.गृहीत्वा.नव.नीतम्.दधि.द्रप्सान्.वा.प्रदक्षिणम्.शिरस्.त्रिर्.उन्दत्य्.अदितिः.केशान्.वपत्व्.आप.उन्दन्तु.वर्चस.इति.।
दक्षिणेन.केश.पक्षे.त्रीणि.त्रीणि.कुश.पिञ्जूलान्य्.अभ्यात्म.अग्राणि.निदधात्य्.ओषधे.त्रायस्व.एनम्.इति.।
स्वधिते.मा.एनम्.हिंसीर्.इति.निष्पीड्य.लौहेन.क्षुरेण.।
प्रच्छिनत्ति.येन.आवपत्.सविता.क्षुरेण.सोमस्य.राज्ञो.वरुणस्य.विद्वान्.।.तेन.ब्रह्माणो.वपत.इदम्.अस्य.आय्ष्मान्.जरद्.अष्टिर्.यथा.असद्.इति.।
प्रच्छिद्य.प्रच्छिद्य.प्राग्.अग्राम्.शमी.पर्णैः.सह.मात्रे.प्रयच्छति.तान्.आनडुहे.गोमये.निदधाति.।
येन.धाता.बृहस्पतेर्.अग्नेर्.इन्द्रस्य.च.आयुषे.अवपत्.।.तेन.त.आयुषे.वपामि.सुश्लोक्याय.स्वस्तय.इति.द्वितीयम्.।
येन.भूयश्.च.रात्र्याम्.ज्योक्.च.पश्याति.सूर्यम्.।तेन.त.आयुषे.वपामि.सुश्लोक्याय.स्वस्तय.इति.तृतीयम्.।
सर्वैर्.मन्त्रैश्.चतुर्थम्.।
एवम्.उत्तरतस्.त्रिः.।
क्षुर.तेजो.निमृजेद्.यत्.क्षुरेण.मर्चयता.(?).सुपेशसा.वप्ता.वपसि.केशान्.।.शुद्धिम्.शिरो.मा.अस्य.आयुः.प्रमोषीर्.इति.।
नापितम्.शिष्यात्.शीत.उष्णाभिर्.अद्भिर्.अब्.अर्थम्.कुर्वाणो.अक्षण्वन्.कुशली.कुर्व्.इति.।
यथा.कुल.धर्मम्.केश.वेशान्.कारयेत्.।
आवृता.एव.कुमार्यै.।
एतेन.गो.दानम्.।
षोडशे.वर्षे.।
केश.शब्दे.तु.श्मश्रु.शब्दान्.कारयेत्.।
श्मश्रूणि.इह.उन्दति.।
शुद्धिम्.शिरो.मुखम्.मा.अस्य.आयुः.प्रमोषीर्.इति.।
केश.श्मश्रु.लोम.नखान्य्.उदक्.संस्थानि.कुर्व्.इति.सम्प्रेष्यति.।
आप्लुत्य.वाग्.यतः.स्थित्वा.अहः.शेषम्.आचार्य.सकाशे.वाचम्.विसृजेत.वरम्.ददामि.इति.।
गोमिथुनम्.दक्षिणा.।
संवत्सरम्.आदिशेत्.।
अष्टमे.वर्षे.ब्राह्मणम्.उपनयेत्.।
गर्भ.अष्टमे.वा.।
एकादशे.क्षत्रियम्.।
द्वादशे.वैश्यम्.।
आ.षोडशाद्.ब्राह्मणस्य.अनतीतः.कालः.।
आ.द्वाविंशात्.क्षत्रियस्य.।
आ.चतुर्विंशाद्.वैष्यस्य.।
अत.ऊर्ध्वम्.पतित.सावित्रीका.भवन्ति.।
न.एनान्.उपनयेन्.न.अध्यापयेन्.न.याजयेन्.न.एभि.व्यवहरेयुः.।
अलम्.कृतम्.कुमारम्.कुशली.कृत.शिरसम्.अहतेन.वाससा.संवीतम्.ऐणेयेन.वाजिनेन.ब्राह्मणम्.रौरवेण.क्षत्रियम्.आजेन.वैश्यम्.।
यदि.वासांसि.वसीरन्.रक्तानि.वसीरन्.काषायम्.ब्राह्मणो.मांजिष्ठम्.क्षत्रियो.हारिद्रम्.वैश्यः.।
तेषाम्.मेखला.मौञ्जी.ब्राह्मणस्य.धनुर्.ज्या.क्षत्रियस्य.आवी.वैश्यस्य.।
तेषाम्.दण्डाः.पालाशो.ब्राह्मणस्य.औदुम्बरः.क्षत्रियः.बैल्वो.वैश्यस्य.।
सर्वे.वा.सर्वेषाम्.।
समन्वारब्धे.हुत्वा.उत्तरतो.अग्नेः.प्रान्.मुख.आचार्यो.अवतिष्ठते.।
पुरस्तात्.प्रत्यन्.मुख.इतरः.।
अपाम्.अञ्जली.पूरयित्वा.तत्.सवितुर्.वृणीमह.इति.पूर्णेन.अस्य.पूर्णम्.अवक्षारयत्य्.आसिच्य.देवस्य.त्वा.सवितुः.प्रसवे.अश्विनोर्.बाहुभ्याम्.पूष्णो.हस्ताभ्याम्.हस्तम्.गृह्णाम्य्.असाव्.इति.तस्य.पाणिना.पाणिम्.साङ्गुष्ठम्.गृह्णीयात्.।
सविता.ते.हस्तम्.अग्रभीद्.असाव्.इति.द्वितीयम्.।
अग्निर्.आचार्यस्.तव.असाव्.इति.तृतीयम्.।
आदित्यम्.ईक्षयेद्.देव.सवितर्.एष.ते.ब्रह्म.चारी.तम्.गोपाय.स.मा.मृत.इत्य्.आचार्यः.।
कस्य.ब्रह्म.चार्य्.असि.प्राणस्य.ब्रह्म.चार्य्.असि.कस्.त्वा.कम्.उपनयते.काय.त्वा.परिददामि.इति.।
युवा.सुवासाः.परिवीत.आगाद्.इत्य्.अर्धर्चेन.एनम्.प्रदक्षिणम्.आवर्तयेत्.।
तस्य.अध्यंसौ.पाणी.कृत्वा.हृदय.देशम्.आलभेत.उत्तरेण.।
अग्निम्.परिसमुह्य.ब्रह्म.चारी.तूष्णीम्.समिधम्.आदध्यात्.तूष्णीम्.वै.प्राजापत्यम्.प्राजापत्यो.ब्रह्म.चारी.भवति.इति.विज्ञायते.।
मन्त्रेण.ह.एके.अग्नये.समिधम्.आहार्षम्.बृहते.जातवेदसे.।.तया.त्वम्.अग्ने.वर्धस्व.समिधा.ब्रह्मणा.वयम्.स्वाहा.इति.।
समिधम्.आधाय.अग्निम्.उपस्पृश्य.मुखम्.निमार्ष्टि.त्रिस्.तेजसा.मा.समनज्मि.इति.।
तेजसा.ह्य्.एव.आत्मानम्.समनक्ति.इति.विज्ञायते.।
मयि.मेधाम्.मयि.प्रजाम्.मय्य्.अग्निस्.तेजो.दधातु.।.मयि.मेधाम्.मय्.प्रजाम्.मयि.इन्द्र.इन्द्रियम्.दधातु.।.मयि.मेधाम्.मयि.प्रजाम्.मयि.सूर्यो.भ्राजो.दधातु.।.यत्.ते.अग्ने.तेजस्.तेन.अहम्.तेजस्वी.भूयासम्.।.यत्.ते.अग्ने.वर्चस्.तेन.अहम्.वर्चस्वी.भूयासम्.।.यत्.ते.अग्ने.हरस्.तेन.अहम्.हरस्वती.भूयासम्.इत्य्.उपस्थाय.जान्व्.आच्य.उपसंगृह्य.ब्रूयाद्.अधीहि.भो.सावित्रीम्.भो.अनुब्रूहि.इति.।
तस्य.वाससा.पाणिभ्याम्.च.पाणी.संगृह्य.सावित्रीम्.अन्वाह.पच्छो.अर्धर्चशः.सर्वाम्.।
यथा.शक्ति.वाचयीत.।
हृदय.देशे.अस्य.ऊर्ध्व.अङ्गुलिम्.पाणिम्.उपदधाति.मम.व्रते.हृदयम्.ते.दधामि.मम.चित्तम्.अनु.चित्तम्.ते.अस्तु.।.मम.वाचम्.एक.व्रतो.जुषस्व.बृहस्पतिष्.ट्वा.नियुनक्तु.मह्यम्.इति.।
मेखलाम्.आबध्य.दण्डम्.प्रदाय.ब्रह्मचर्यम्.आदिशेत्.।
ब्रह्म.चार्य्.अस्य्.अपो.अशान.कर्म.कुरु.दिवा.मा.स्वाप्सीर्.आचार्य.अधीनो.वेदम्.अधीष्व.इति.।
द्वादश.वर्षाणि.वेद.ब्रह्म.चर्यम्.ग्रहण.अन्तम्.वा.।
सायम्.प्रातर्.भिक्षेत.।
सायम्.प्रातः.समिधम्.आदध्यात्.।
अप्रत्याख्यायिनम्.अग्रे.भिक्षेत.।
अप्रत्याख्यायिनीम्.वा.।
भवान्.भिक्षाम्.ददात्व्.इति.।
अनुप्रवचनीयम्.इति.वा.।
तद्.आचार्याय.वेदयीत.।
तिष्ठेद्.अहः.शेषम्.।
अस्तमिते.ब्रह्म.ओदनम्.अनुप्रवचनीयम्.श्रपयित्वा.आचार्याय.वेदयीत.।
आचार्यः.समन्वारब्धे.जुहुयात्.सदसस्पतिम्.अद्भुतम्.इति.।
सावित्र्या.द्वितीयम्.।
यद्.यत्.किम्.च.अत.ऊर्ध्वम्.अनूक्तम्.स्यात्.।
ऋषिभ्यस्.तृतीयम्.।
सौविष्टकृतम्.चतुर्थम्.।
ब्राह्मणान्.भोजयित्वा.वेद.समाप्तिम्.वाचयीत.।
अत.ऊर्ध्वम्.अक्षार.अलवण.आशी.ब्रह्म.चार्य्.अदः.शायी.त्रिरात्रम्.द्वादश.रात्रम्.संवत्सर्म.वा.।
चरित.व्रताय.मेधा.जननम्.करोति.।
अनिन्दितायाम्.दिश्य्.एक.मूलम्.पलाशम्.कुश.स्तम्बम्.वा.पलाश.अपचारे.प्रदक्षिणम्.उद.कुम्भेन.त्रिः.परिषिंचन्तम्.वाचयति.सुश्रवः.सुश्रवा.असि.यथा.त्वम्.सुश्रवः.सुश्रवा.अस्य्.एवम्.माम्.सुश्रवः.सौश्रवसम्.कुरु.।.यथा.त्वम्.देवानाम्.यज्ञस्य.निधिपो.अस्य्.एवम्.अहम्.मनुष्याणम.वेदस्य.निधिपो.भूयासम्.इति.।
एतेन.वापन.आदि.परिदान.अन्तम्.व्रत.आदेशनम्.व्याख्यातम्.।
इत्य्.अनुपेत.पूर्वस्य.।
अथ.उपेत.पूर्वस्य.।
कृत.अकृतम्.केश.वपनम्.।
मेधा.जननम्.च.।
अनिरुक्तम्.परिदानम्.।
कालश्.च.।
तत्.सवितुर्.वृणीमह.इति.सावित्रीम्.।
ऋत्विजो.वृणीते.अन्यून.अनतिरिक्त.अङ्गान्.ये.मातृतः.पितृतश्.च.इत्.यथा.उक्तम्.पुरस्तात्.।
यून.ऋत्विजो.वृणीत.इत्य्.एके.।
ब्रह्माणम्.एव.प्रथमम्.वृणीते.अथ.होतारम्.अथ.अध्वर्युम्.अथ.उद्गातारम्.।
सर्वान्.वा.ये.अहीन.एकाहैर्.याजयन्ति.।
सदस्यम्.सप्तदशम्.कौषीतकिनः.समामनन्ति.स.कर्मणाम्.उपद्रष्टा.भवति.इति.।
तद्.उक्तम्.ऋभ्याम्.यम्.ऋत्विजो.बहुधा.कल्पयन्त.इति.।
होतारम्.एव.प्रथमम्.वृणीते.।
अग्निर्.मे.होता.स.मे.होता.होतारम्.त्वा.अमुम्.वृण.इति.होतारम्.।
चन्द्रमा.मे.ब्रह्मा.स.मे.ब्रह्मा.ब्रह्माणम्.त्वा.अमुम्.वृण.इति.ब्राह्मणम्.।.आदित्यो.मे.अध्वर्युर्.इत्य्.अध्वर्युम्.।
पर्जन्यो.म.उद्गाता.इत्य्.उद्गातारम्.।
आपो.मे.होत्र.आशंसिन्य.इत्.होत्रकान्.।
रश्मयो.मे.चमस.अध्वर्यव.इति.चमस.अध्वर्यून्.।
आकाशो.मे.सदस्य.इति.सदस्यम्.।
स.वृतो.जपेन्.महन्.मे.अवोचो.भर्गो.मे.अवोचो.भगो.मे.अवोचो.यशो.मे.अवोचः.स्तोमम्.मे.अवोचः.क्लृप्तम्.मे.अवोचो.भुक्तिम्.मे.अवोचस्.तृप्तिम्.मे.अवोचः.सर्वम्.मे.अवोच.इति.।
जपित्वा.अग्निष्.टे.होता.स.ते.होता.होता.अहम्.ते.मानुष.इति.होता.प्रतिजानीते.।
चन्द्रमास्.ते.ब्रह्मा.स.ते.ब्रह्मा.ब्रह्मा.।
एवम्.इतरे.यथा.आदेशम्.।
तन्.माम्.अवतु.तन्.मा.आविशतु.तेन.भुक्षिषीय.इति.च.याजयिष्यन्.।
न्यस्तम्.आर्त्विज्यम्.अकार्यम्.अहीनस्य.नीच.दक्षिणस्य.व्याधितस्य.आतुरस्य.यक्ष्म.गृहीतस्य.अनुदेश्य्.अभिशस्तस्य.क्षिप्त.योनिर्.इति.च.एतेषाम्.।
सोम.प्रवाकम्.परिपृच्छेत्.को.यज्ञः.क.ऋत्विजः.का.दक्षिणा.इति.।
कल्याणैः.सह.सम्प्रयोगः.।
न.मांसम्.अश्नीयुर्.न.स्त्रियम्.उपेयु.आ.क्रतोर्.अपवर्गात्.।
एतेन.अग्ने.ब्रह्मणा.वावृधस्व.इति.दक्षिण.अग्नाव्.आज्य.आहुतिम्.हुत्वा.यथा.अर्थम्.प्रव्रजेत्.।
एवम्.अनाहित.अग्निर्.गृह्य.इमाम्.अग्ने.शरणिम्.मीमृषो.न.इत्य्.एतया.ऋचा.।
ऋत्विजो.वृत्वा.मधु.पर्कम्.आहरेत्.।
स्नातकाय.उपस्थिताय.।
राज्ञे.च.।
आचार्य.श्वशुर.पितृव्य.मातुलानाम्.च.।
दधनि.मध्व्.आनीय.।
सर्पिर्.वा.मध्व्.अलाभे.।
विष्टरः.पाद्यम्.अर्घ्यम्.आचमनीयम्.मधु.पर्को.गौर्.इत्य्.एतेषाम्.त्रिस्.त्रिर्.एक.एकम्.वेदयन्ते.।
अहम्.वर्ष्म.सजातानाम्.विद्युताम्.इव.सूर्यः.।.इदम्.तम्.अधितिष्ठामि.यो.मा.कश्च.अभिदासति.इत्य्.उदग्.अग्रे.विष्टर.उपविशेत्.।
आक्रम्य.वा.।
पादौ.प्रक्षालापयीत.।
दक्षिणम्.अग्रे.ब्रह्मणाय.प्रयच्छेत्.।
सव्यम्.शूद्राय.।
प्रक्षालित.पादो.अर्घ्यम्.अञ्जलिना.प्रतिगृह्य.अथ.आचमनीयेन.आचामत्य्.अमृत.उपस्तरणम्.असि.इति.।
मधु.पर्कम्.आह्रियमाणम्.ईक्षते.मित्रस्य.त्वा.चक्षुषा.प्रतीक्ष.इति.।
देवस्य.त्वा.सवितुः.प्रसवे.अश्विनोर्.बाहुभ्याम्.पूष्णो.हस्ताभ्याम्.प्रतिगृह्णामि.इति.तद्.अञ्जलिना.प्रतिगृह्य.सव्ये.पाणौ.कृत्वा.मधु.वाता.ऋतायत.इति.तृचेन.अवेक्ष्य.अनामिकया.च.अङ्गुष्ठेन.च.त्रिः.प्रदक्षिणम्.आलोड्य.वसवस्.त्वा.गायत्रेण.छन्दसा.भक्षयन्त्व्.इति.पुरस्तान्.निमार्ष्टि.।
रुद्रास्.त्वा.त्रैष्टुभेन.छन्दसा.भक्षयन्त्व्.इति.दक्षिणतः.।
आदित्यास्.त्वा.जागतेन.छन्दसा.भक्षयन्त्व्.इति.पश्चात्.।
विश्वे.त्वा.देवा.आनुष्टुभेन.छन्दसा.भक्षयन्त्व्.इत्य्.उत्तरतः.।
भूतेभ्यस्.त्वा.इति.मध्यात्.त्रिर्.उद्गृह्य.।
विराजो.दोहो.असि.इति.प्रथमम्.प्राश्नीयात्.।
विराजो.दोहम्.अशीय.इति.द्वितीयम्.।
मयि.दोहः.पद्यायै.विराज.इति.तृतीयम्.।
न.सर्वम्.।
न.तृप्तिम्.गच्छेत्.।
ब्राह्मणाय.उदन्.उच्छिष्टम्.प्रयच्छेत्.।
अलाभे.अप्सु.।
सर्वम्.वा.।
अथ.आचमनीयेन.अन्वाचामत्य्.अमृत.अपिधानम्.असि.इति.।
सत्यम्.यशः.श्रीर्.मयि.श्रीः.श्रयताम्.इति.द्वितीयम्.।
आचान्त.उदकाय.गाम्.वेदयन्ते.।
हतो.मे.पाप्मा.पाप्मा.मे.हत.इत्.जपित्वीम्.कृरुत.(.कृणुत.?).इति.कारयिष्यन्.।
माता.रुद्राणाम्.दुहिता.वसूनाम्.इति.जपित्वोम्.(?).उत्सृजत.इत्य्.उत्स्रक्ष्यन्.।
न.अमांसो.मधु.पर्को.भवति.भवति.।
मूल पाठ: Āśvalāyanagṛhyasūtra · Edition: A.F. Stenzler, Abhandlungen für die Kunde des Morgenlandes, 3,4 (1864) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0