अष्टाङ्गनिघण्टु · श्लोक 81-100
असनादौ पीतसारः प्रियको बीजको ऽसनः
स्यन्दनः स्तिमितो नेमिः रथद्रुः सर्वसाधकः ॥
भूर्जो भुर्जो बहुपुटो मृदुत्वक् चास्थिरच्छदः
पार्थो ऽर्जुनः श्वेतवाहः ककुभः फाल्गुनाह्वयः ॥
गायत्री खदिरो गीता कुष्ठघ्नो बालपत्त्रकः
कदरः खदिरः सारः कोटरी श्यामसारकः ॥
भण्डी शुकद्रुः प्लवंगः शिरीषो मृदुपुष्पकः
कपिला शिंशपा कृष्ण सारो मण्डलपत्त्रकः ॥
बस्तान्त्री मेषशृङ्गी च चक्षुष्या बहुलाङ्गिका
कालेयकं पीतसारं तृतीयं वर्णकृद्धिमम् ॥
ताडस् तालो दीर्घतरुस् तृणराजस् त्रिबीजकः
पलाशः किंशुको वात रोधो ब्रह्मतरुः पटुः ॥
जोङ्गकः शीतशमनो लोहनामागरुः स्मृतः
सजह्विः श्रीकरः शालो रसो निर्यासरालकौ ॥
धवो दृढतरुर् गौरः शकटाक्षो मरूद्भवः
क्रमुकं कैवुकं पूगं कषायं मधुर् आह्वयम् ॥
श्वेतघ्नः शीतशमनः बस्तकर्णो ऽजकर्णकः
शस्यसंवरणः शूरः कुशिकश् चाश्वकर्णकः ॥
वरुणसैर्यकयुग्मशतावरी दहनमोरटबिल्वविषाणिकाः
द्विबृहतीद्विकरञ्जजयाद्वयं बहलपल्लवदर्भरुजाकराः ॥
वरुणादिः कफं मेदो मन्दाग्नित्वं नियच्छति
आढ्यवातं शिरःशूलं गुल्मं चान्तः सविद्रधिम् ॥
वरुणादौ श्वेतपुष्पो वरुणो वरणः स्मृतः
शटालवृक्षो बिल्वो ऽस्त्री पूतिवातो महाफलः ॥
मालूरः श्रीफलः शैवः शाण्डिल्यः श्रीनिवासकः
महाकाल्यजशृङ्गी च कूर्चपर्णी विषाणिका ॥
जयाग्निमन्थो ऽरणिका तक्कारी वैजयन्तिका
शिग्रुः शोभाञ्जनस् तीक्ष्ण गन्धो बहलपल्लवः ॥
मुरङ्गी शिग्रुको रक्त पुष्पो मधुरशिग्रुकः
तृतीयो मधुरः सिंश केसरो मधुशिग्रुकः ॥
सितं तीक्ष्णं शिग्रुबीजं श्वेताङ्गं मरिचाह्वयम्
दर्भः कुशो लवः स्थूलः सूक्ष्मो वेदपवित्रकः ॥
रुजाकरस् त्व् आर्तगलो हुंकारो भीषणाह्वयः
जालवृक्षो दुष्प्रधर्षः स्वादुतिक्तफलः स्मृतः ॥
ऊषकस् तुत्थकं हिङ्गु कासीसद्वयसैन्धवम्
सशिलाजतु कृच्छ्राश्म गुल्ममेदःकफापहम् ॥
ऊषकादौ तु वृषको वूषको रुचकाह्वयः
ऊषो निःसारकः सिंहो मूत्रवृद्धिकरः स्मृतः ॥
कठिनं तुत्थकं द्वेधा कर्परं बर्हिकण्टकम्
जन्तुघ्नं जरणं हिङ्गु रामठं भूतनाशनम् ॥
मूल पाठ: Aṣṭāṅganighaṇṭu · Edition: Priya Vat Sharma, Madras: The Kuppuswamy Sastri Research Institute, 1973 · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0