अष्टाङ्गनिघण्टु · श्लोक 61-80
सौगन्धिकं तु कल्हारं रक्तोत्पलसुगन्धिके
द्रवाह्वम् अमृतासङ्ग कृतं तार्क्ष्यो रसाञ्जनम् ॥
एला तु द्राविडी प्रोक्ता बहुला त्रुटिसंज्ञका
हेमपुष्पं तु नागाह्वं केसरं नागकेसरम् ॥
पटोलकटुरोहिणीचन्दनं मधुस्रवगुडूचीपाठान्वितम्
निहन्ति कफपित्तकुष्ठज्वरान् विषं वमिम् अरोचकं कामलाम् ॥
पटोलादिस् तु राजीमत् कुलकं च पटोलकम्
खरच्छदः पाण्डुफलो राजमान्यो ऽमृताफलः ॥
पीलुपर्णी मधुरसा मूर्वा चातिरसा स्मृता
मधुस्रवा पीलुपत्त्रा मोरटी क्षीरमोरटम् ॥
गुडूचीपद्मकारिष्ट धानकारक्तचन्दनम्
पित्तश्लेष्मज्वरच्छर्दि दाहतृष्णाघ्नम् अग्निकृत् ॥
निम्बो ऽरिष्टो गुडूच्यादौ पिचुमान्दः शुकप्रियः
धान्या कुस्तुम्बुरुः धान्यं धनिका धान्यकं तथा ॥
आरग्वधेन्द्रयवपाटलिकाकतिक्ता निम्बामृतामधुरसास्रुववृक्षपाठाः
भूनिम्बसैर्यकपटोलकरञ्जयुग्म सप्तच्छदाग्निसुषवीफलबाणघोण्टाः ॥
आरग्वधादिर् जयति छर्दिकुष्ठविषज्वरान्
कफं कण्डूं प्रमेहं च दुष्टव्रणविशोधनः ॥
आरग्वधो राजवृक्षः शम्याकश् चतुरङ्गुलः
आरेवतो व्याधिघातः प्रग्रहः कृतमालकः ॥
कलिङ्गकस् त्व् इन्द्रयवो वत्सकः कौटजं फलम्
पाटली दीर्घवृत्ता च स्थल्यामोघाम्बुवासिनी ॥
वृत्ततुण्डा काकतिक्ता शार्ङ्गेष्टाङ्गारवल्लिका
व्याघ्रपादः स्रुवतरुः स्वादुकण्टो विकङ्कतः ॥
किराततिक्तो भूनिम्बः कत्तृणः काण्डतिक्तकः
सैर्यकस् तु सहचरः सर्यको मृदुपुष्पकः ॥
बाणः स्मृतो नीलपुष्पः धीरशौर्यकघोश्वराः
पूतिकरञ्जः कैडर्यः प्रकीर्यश् चिरबिल्वकः ॥
उदकीर्यो नक्तमालः करञ्जो लाजपुष्पकः
सप्तच्छदो ऽयुग्मपत्त्रः सप्ताह्वो गुच्छपुष्पकः ॥
चित्रको द्वीपिसंज्ञस् तु वह्निपर्यायवाचकः
रक्तचित्रस् तथान्यस् तु महाङ्गः कालमूलकः ॥
पानीयवल्ली सुषवी बृहद्वल्ल्य् उत्पलच्छदा
गालो राठो ऽथ मदनः पिण्डीतः करहाटकः ॥
शल्यकैडर्यवृक्षः स्याच् छर्दनस् तगरः फलम्
घोण्टो मुण्ठगोपघोण्टौ पद्मकी मर्कटाह्वया ॥
असनतिनिशभूर्जश्वेतवाहप्रकीर्या खदिरकदरभण्डीशिंशपामेषशृङ्ग्यः
त्रिहिमतलपलाशाः जोङ्गकः शाकशालौ क्रमुकधवकलिङ्गच्छागकर्णाश्वकर्णाः ॥
असनादिर् विजयते श्वित्रकुष्ठकफक्रिमीन्
पाण्डुरोगं प्रमेहं च मेदोदोषनिबर्हणः ॥
मूल पाठ: Aṣṭāṅganighaṇṭu · Edition: Priya Vat Sharma, Madras: The Kuppuswamy Sastri Research Institute, 1973 · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0