भाषा

ENहिગુ
ग्रंथ पाठ

अष्टाङ्गनिघण्टु · श्लोक 101-120

101

कासीसं पांशुधावाख्यं द्वितीयं पुष्पसंज्ञकम्
सैन्धवं माणिमन्थं च नादेयं लवणोत्तमम् ॥

102

शिलाजं धातुजं ज्ञेयं मन्दरोत्थं शिलाजतु
पार्वतं शैलनिर्यासः गिरिजं च शिलाह्वयम् ॥

103

वेल्लन्तरारणिकबूकवृषाश्मभेद गोकण्टकोत्कटसहाचरबाणकाशाः
वृक्षादनीनलकुशाद्वयगुण्ठगुन्द्रा भल्लूकमोरटकुरण्टकरम्भपार्थाः ॥

104

वर्गो वीरतराद्यो ऽयं हन्ति वातकृतान् गदान्
अश्मरीशर्करामूत्र कृच्छ्राघातरुजाहरः ॥

105

वेल्लन्तरो वीरतरुर् गणे वीरतरादिके
वसुकः स्थूलपुष्पश् च बुकश् चेश्वरमल्लिका ॥

106

सिंहास्यः कर्कटश् चैव वृषकश् चाटरूषकः
वेणुपत्री वृषा पार्वी पर्वणी वंशपत्रिका ॥

107

अश्मभेदी शिलाभेदी ज्ञेया पाषाणभेदिका
उत्कटा सूक्ष्मपत्रा च दीर्घलोहितयष्टिका ॥

108

शरेक्षुकुसुमौ बाणः स काण्डेक्षुनिभाङ्घ्रिकः
श्वेतचामरकः काशो गुन्द्रा स्याद् गुच्छपुष्पिका ॥

109

वृक्षादनी तु शिखरो वन्दाकः कामवृक्षकः
मृदुपुष्पो ऽथ सुषिरो नदीस्थो नलको नलः ॥

110

गुण्ठो वृत्ततृणः शुण्ठः शृङ्गवेराभमूलकः
भल्लूको भूतवृक्षश् च श्योनाकश् चैव टुण्टुकः ॥

111

श्रीहस्तिनी कुरटका पिचुकः शितिवारकः
कृष्णसूक्ष्मफला युक्त पुष्पा मस्तकमञ्जरी ॥

112

करम्भः कर्कशो युग्म फला चोत्तमकन्यका
कपोतवङ्का वरदा रविभक्ता सुवर्चला ॥

113

रोध्रशाबरकरोध्रपलाशाः जिङ्गिणीसरलकट्फलयुक्ताः
कुत्सिताम्बकदलीगतशोकाः सैलवालुपरिपेलवमोचाः ॥

114

एष रोध्रादिको नाम मेदःकफहरो गणः
योनिदोषहरः स्तम्भी वर्ण्यो विषविनाशनः ॥

115

लोध्रादौ तिल्वको लोध्रस् तिरीटः पट्टिकाह्वयः
द्वितीयः शाबरः श्वेतो घनत्वक् चाक्षिभेषजः ॥

116

जिङ्गिणी झिङ्गिणी ज्ञेया मोचकी गुडमञ्जरी
पूतिकाष्ठं देववृक्षः सरलो देवदारुकः ॥

117

सुरकाष्ठं भद्रदारुः देवपर्यायवाचकः
सुगन्धा सुवहा रास्ना युक्ताह्वा गन्धनाकुली ॥

118

सुरभिश् च कदम्बश् च कुञ्चिताङ्गो हरिप्रियः
रम्भा तु कदली मोचा वृत्तपुष्पांशुमत्फला ॥

119

अशोको विगतशोकः सुभगस् ताम्रपल्लवः
एलवालुकम् ऐलेयं बालेयं हरिवालुकम् ॥

120

कुटन्नटं प्लवंगं च वितुन्नं परिपेलवम्
सुरभिः सल्लकी मोचा महारम्भा गजप्रिया ॥

मूल पाठ: Aṣṭāṅganighaṇṭu · Edition: Priya Vat Sharma, Madras: The Kuppuswamy Sastri Research Institute, 1973 · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc