भाषा

ENहिગુ
ग्रंथ पाठ

अष्टाङ्गनिघण्टु · श्लोक 41-60

41

एला तु द्राविडी तुत्था सूक्ष्मैला बहुला त्रुटिः
भार्ङ्गी गर्दभशाकं च पद्मा ब्राह्मणयष्टिका ॥

42*

पद्मकपुण्ड्रौ वृद्धितुगर्द्धयः शृङ्ग्य् अमृता दश जीवनसंज्ञाः ।
स्तन्यकरा घ्नन्तीरणपित्तं प्रीणनजीवनबृंहणवृष्याः ॥

43

पद्मकादिगणं वक्ष्ये हेमपद्मं तु पद्मकम्
प्रपौण्डरीकं श्रीपुष्पं पुण्ड्राह्वं मूलसाधनम् ॥

44

वृद्धिस् तु श्रावणी पुष्टिः महावृद्धिः परोच्यते
तवक्षीरी तुषा शुभ्रा वंशाख्या वंशरोचना ॥

45

शृङ्गी स्मृता महाघोषा ज्ञेया कर्कटशृङ्गिका
गुडूची कुण्डली छिन्न रुहा काण्डोद्भवामृता ॥

46

मधुपर्णी वयःस्था च मण्डली तन्त्रिका स्मृता
शल्यपर्णी मणिच्छिद्रा मेदा मेदःसमुद्भवा ॥

47

महामेदा वृक्षरुहा महापुरुषदन्तिका
दशानां जीवनीयानां संज्ञा तु परिकीर्तिता ॥

48

परुषकं वरा द्राक्षा कट्फलं कतकात् फलात्
राजाह्वं दाडिमं शाकं तृण्मूत्रामयवातजित् ॥

49

परुषादिगणं वक्ष्ये पुरा प्रोक्तं परुषकम्
वरोत्तमा च त्रिफला श्रेष्ठा चापि फलत्रयम् ॥

50

प्राणदा पूतनामोघा हरीतक्य् अभया जया
पथ्यामृता हैमवती कायस्था रोहिणी स्मृता ॥

51

अक्षः कलिः कर्षफलो विन्ध्यजातो विभीतकः
कोरङ्गको मृदुफलो धात्री चामलकी शिवा ॥

52

रोहिणी खट्वला प्रोक्ता द्राक्षा मृदुफला तथा
मृद्वीका तूत्तमफला गोस्तनी चौत्तरापथा ॥

53

हेमवल्को महावल्को भद्रवृक्षश् च कीर्तितः
कतकस्य फलं कात्यं ज्ञेयं वारिप्रसादनम् ॥

54

राजादनं क्षीरशुक्लं राजाह्वं वानरप्रियम्
शुकेष्टं दाडिमं चैव रक्तबीजफलाह्वयम् ॥

55

स्वाद्वम्लं रोचनं चैव द्वितीयम् अम्लदाडिमम्
बृहच्छदस् तथा शाको वरदारुः खरच्छदः ॥

56

अञ्जनं फलिनी मांसी पद्मोत्पलरसाञ्जनम्
सैलामधुकनागाह्वं विषान्तर्दाहपित्तनुत् ॥

57

स्मृतं स्रोतोञ्जनं वीरम् अञ्जनं यामुनं तथा
स्रोतोद्भवम् अथो नाद्यं सौवीरं नेत्रभूषणम् ॥

58

फलिनी कोलगिरिका श्यामा कान्ता प्रियङ्गुका
पिशाची नलदं मांसी जटिला भूतकेशिनी ॥

59

नलिनं पुष्करं पद्मम् अरविन्दं कुशेशयम्
पङ्केरुहं तामरसं सारसं सरसीरुहम् ॥

60

बिसप्रसूनराजीव जलजाम्भोरुहाणि च
इन्दीवरं कुवलयं नीलं नीलोत्पलं तथा ॥

मूल पाठ: Aṣṭāṅganighaṇṭu · Edition: Priya Vat Sharma, Madras: The Kuppuswamy Sastri Research Institute, 1973 · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc