भाषा

ENहिગુ
ग्रंथ पाठ

अष्टाङ्गनिघण्टु · श्लोक 21-40

21

कन्या गोपी कृष्णवल्ली सारिवा फाणिजिह्विका
सुगन्धिमूला भद्रा च सुगन्धा गोपवल्ल्य् अपि ॥

22

हंसपादी रक्तपादी त्रिपादी कीटमारिका
धृतराष्ट्रपदी चैव मृतमन्दातिपर्णिका ॥

23

सारिवोशीरकाश्मर्य मधूकशिशिरद्वयम्
यष्टी परुषकं हन्ति दाहपित्तास्रतृड्ज्वरान् ॥

24

सारिवादिगणं वक्ष्ये पुरा प्रोक्ता तु सारिवा
वीरण्याभयलामज्ज कोशीरम् अमृणालकम् ॥

25

वीरं वीरणमूलं च बहुमूलं रणप्रिया
काश्मर्यभीरुः श्रीपर्णी काश्मर्यं कट्फलं तथा ॥

26

डोलाफलस् तीक्ष्णसारो मधूको गुडपुष्पकः
मधुपुष्पो लोध्रपुष्पो वानप्रस्थो मधुद्रुमः ॥

27

ज्ञेयो मधूलसंज्ञो ऽपि मधूको वारिसंस्थितः
छदे ह्रस्वस् तैलपुष्पस् तुल्यस् तु रसवीर्यतः ॥

28

भद्रश्रियं मलयजं गोशीर्षं श्वेतचन्दनम्
कुचन्दनं ताम्रवर्णं लोहितं रक्तचन्दनम् ॥

29

यष्टी मधुकयष्ट्याह्वा मधुकं क्लीतकाह्वयम्
परुषको मृदुफलो रोषजो धन्वनच्छदः ॥

30

कृष्णाग्रन्थिककाकमाचिचविकाविश्वौषधाजाजिभिः पाठारामठरेणुकागजकणासिद्धार्थचित्रोषणैः
स्पृक्का जात्यजमोदहिङ्गुत्रुटिभिः भार्ङ्गीविलङ्गान्वितैः एभिर् विंशतिभिः कफामयहरः कृष्णादिको ऽयं गणः ॥

31

पिप्पली मागधी कृष्णा वैदेही चपला कणा
उपकुल्या कौलनामा शौण्डी स्यात् तीक्ष्णतण्डुला ॥

32

काकमाची गुच्छफला स्वर्या मरिचिका फला
काकोली चविका चव्यं ग्रन्थिला कोलवल्लिका ॥

33

शुण्ठी महौषधं विश्वं नागरं विश्वभेषजम्
अजाजी जीरकं माता मेध्यं स्याद् औत्तरापथम् ॥

34

कृष्णजीरेति काकोली कालिकोद्गारशोधनी
जीरणा कारभी योनि शूलघ्नी चोपकुञ्चिका ॥

35

मालवी त्रिशिरा पाठा प्राचीना वृत्तपर्णिका
अम्बष्ठा स्थापनी वीरा बोधकी च कुचेलिका ॥

36

जन्तुघ्नं जरणं हिङ्गु भूतघ्नं वस्तिहिंसकः
कपिला रेणुका कौन्ती राजपुत्री हरेणुका ॥

37

श्रेयसी स्याद् गजकणा कृत्रिमाचविकाफला
आसुरी सर्षपो राजी नासासंवेदनः कटुः ॥

38

सिद्धार्थको भूतनाशो रक्षोघ्नः श्वेतसर्षपः
तिला कट्वी मत्स्यपित्ता कटुका शकुलादनी ॥

39

वल्लीजं यवनेष्टं स्यान् मरिचं तीक्ष्णम् ऊषणम्
स्पृक्का स्पृक् ब्राह्मणी देवी पिशुना च लता सती ॥

40

जातीफलं मज्जसारं जाती मदनशौण्डिकौ
अजमोदा खराह्वा च बस्तमोदा च मर्कटी ॥

मूल पाठ: Aṣṭāṅganighaṇṭu · Edition: Priya Vat Sharma, Madras: The Kuppuswamy Sastri Research Institute, 1973 · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc