अष्टाङ्गनिघण्टु · श्लोक 381-400
सर्वंसहा वसुमती वसुधोर्व्यचला स्मृता
विश्वम्भरा रसानन्ता गोत्रा कुः पृथिवी क्षमा ॥
अवनी भूतधात्री च विपुला सागराम्बरा
सूरो हंसो रविर् भानुः पतंगो ऽर्को दिवाकरः ॥
प्रद्योतनो दिनमणिः खद्योतो द्युमणिस्तथा ॥
ब्रध्नः प्रभाकरो भास्वान् द्वादशात्मा दिवाकरः
सविता च सहस्रांशुर् मार्तण्डश् च विकर्तनः ॥
कर्मसाक्षी जगच्चक्षुर् अंशुमाली त्रयीतनुः
विभावसुर् ग्रहपतिस् त्विषांपतिर् अहर्पतिः ॥
शीतांशुर् इन्दुश् चन्द्रमाः शशी चन्द्रो निशाकरः
विधुः सुधांशुः शुभ्रांशुर् ओषधीशो निशापतिः ॥
अब्जो जैवातृकः सोमो ग्लौर् मृगाङ्कः कलानिधिः
द्विजराजः शशधरो नक्षत्रेशः क्षपाकरः ॥
अङ्गारकः कुजो भौमो रौहिणेयो बुधो द्विजः
गुरुर् बृहस्पतिर् मन्त्री चोशना भार्गवः कविः ॥
शनिः पङ्गुः सूर्यपुत्रः सैंहिकेयो विधुंतुदः
तमस्तु राहुः स्वर्भानुः केतुस्तु ध्वजनामकः ॥
उडु नक्षत्रमृक्षं भं दोषा नक्तं निशा क्षपा
क्षणदा यामिनी रात्रिस् त्रियामा चोरवल्लभा ॥
दिनाहनी वासरश् च घस्रो भास्करवल्लभः
शम्भुर् ईशः पशुपतिः शिवः शूली महेश्वरः ॥
ईश्वरः शर्वः ईशानः शंकरश् चन्द्रशेखरः
भूतेशः खण्डपरशुर् गिरीशो गिरिशो मृडः ॥
मृत्युंजयः कृत्तिवासाः पिनाकी प्रमथाधिपः
उग्रः कपर्दी श्रीकण्ठः शितिकण्ठः कपालभृत् ॥
वामदेवो महादेवो विरूपाक्षस्त्रिलोचनः
कृशानुरेताः सर्वज्ञो धूर्जटिर् नीललोहितः ॥
हरः स्मरहरो भर्गस् त्र्यम्बकस्त्रिपुरान्तकः
गङ्गाधरो ऽन्धकरिपुः क्रतुध्वंसी वृषध्वजः ॥
व्योमकेशो भवो भीमः स्थाणू रुद्र उमापतिः
उमा कात्यायनी गौरी काली हैमवतीश्वरी ॥
शिवापर्णा भवानी च पार्वती चण्डिकाम्बिका
अजो हरिर् वासुदेवो दैत्यारिः पुरुषोत्तमः ॥
विष्णुर् नारायणः कृष्णो वैकुण्ठो विष्टरश्रवाः
दामोदरो हृषीकेशः केशवो माधवः स्वभूः ॥
पीताम्बरो ऽच्युतः शार्ङ्गी विष्वक्सेनो जनार्दनः
उपेन्द्र इन्द्रावरजश् चक्रपाणिश् चतुर्भुजः ॥
लक्ष्मी पद्मालया पद्मा कमला श्रीर् हरिप्रिया
इन्दिरा लोकमाता मा क्षीराब्धितनया रमा ॥
मूल पाठ: Aṣṭāṅganighaṇṭu · Edition: Priya Vat Sharma, Madras: The Kuppuswamy Sastri Research Institute, 1973 · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0