अष्टाङ्गनिघण्टु · श्लोक 401-408
नेत्रं पादः शिफा चाङ्घ्रिः मूलं शालूककन्दकौ
त्वक् चर्म वल्कलं प्रोक्तं विटपः शिखरं शिरः ॥
पत्त्रं दलं छदः पर्णं पलाशश् छदनं तथा
पल्लवस्तु प्रवालः स्यात् मुकुलं कोरकं स्मृतम् ॥
कलिका जालकश् चैव कोरकक्षारकुड्मलाः
प्रसूनं सुमनः सूनं पुष्पं च कुसुमं स्मृतम् ॥
आमं शलाटुसंज्ञं तु पक्वं फलमुदाहृतम्
मकरन्दः पुष्परसः दलोत्थो दलजो रसः ॥
औषधं भेषजं पथ्यम् अगदं च भिषग्जितम्
क्रिया चिकित्सितं शस्त्रं प्रायश् चित्तं समाहितम् ॥
रोगहारो ऽगदंकारो भिषग् वैद्यश् चिकित्सकः
रोगज्ञो जीवनो विद्वान् आयुर् वेदी गदान्तकः ॥
शीतांश्वमृतलक्ष्मीभिर् जुष्टो ऽसौ धनसंयुतः
क्षीरोधिजश् चाब्जयोनिः पायाद् धन्वन्तरिस्तथा ॥
नासत्याव् अश्विनौ दस्राव् आश्विनेयौ च ताव् उभौ
रक्षतां देवभिषजौ वैद्यपुत्रान् स्वरोचिषा ॥
मूल पाठ: Aṣṭāṅganighaṇṭu · Edition: Priya Vat Sharma, Madras: The Kuppuswamy Sastri Research Institute, 1973 · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0