अष्टाङ्गनिघण्टु · श्लोक 281-300
दुरारोहा खरस्कन्धा खर्जूरी स्वादुमस्तका
हिन्ताली तु महाताली कुताली तिलपुष्पिका ॥
बहुस्कन्धा मृत्युफला गूढपाकी शिलाफला
जतुवृक्षो घनस्कन्धः क्रिमिवृक्षः कुशाम्रकः ॥
नीलपत्त्री कालनीली नीलिनी नीलपुष्पिका
काकजङ्घा ध्वाङ्क्षजङ्घा दासी कान्ता प्रचीबला ॥
शरपुङ्खा बाणपुङ्खा मणिका चेक्षुपुङ्खिका
पुत्रदात्री वृत्तपत्त्रा वातारिः श्वेतपुष्पिका ॥
तालीशपत्त्रं तालीशं तालमामलकीदलम्
श्वासद्रुमः काकतरुः रुग्योग्यो व्याघ्रपर्ण्यपि ॥
कुब्जपुष्पा कृष्णवल्ली महानीला प्रतानिका
मृदुकान्तिः महाश्वेता श्वेता तु खटिका स्मृता ॥
रक्तपाषाणको धातुः गिरिमृद् गैरिकः स्मृतः
स्तन्याख्यो दुग्धपाषाणः सौधः पाषाणको लवः ॥
सौगन्धिको गन्धकस्तु वैगन्धो गन्धको बलिः
मनःशिला मनोगुप्ता मनोह्वा कुनटी शिला ॥
हरितालमालं तालं गोदन्तं नटभूषणम्
पारदो रसधातुश् च रुद्ररेता महारसः ॥
रसेन्द्रश् चपलः सूतो हरयोनी रसोत्तमः
अभ्रकं पार्वतीबीजं शैलोद्भूतं तथाम्बरम् ॥
मयूरग्रीविकं तु स्यात् शिखिकण्ठं च तुत्थकम्
अन्यत् कर्परिका तुत्थं वामनं तुत्थमेव तु ॥
हिङ्गुलं दरदं म्लेच्छं रसभूः चर्मरञ्जनम्
सिन्दूरं रक्तरेणु श्री भूषणं नागसम्भवम् ॥
सौवर्चलं तु रुचकम् अक्षाह्वं कृष्णसंज्ञकम्
विडं तु कृत्रिमं प्रोक्तं पृथ्वीसम्भवम् औद्भिदम् ॥
समुद्रजं च सामुद्रं लवणं पटुनामकम्
यावशूको यवक्षारः स्रोतोघ्नस्तु सुवर्चिकः ॥
सौभाग्यं टङ्कणं क्षारः मालतीरससम्भवः
तापीसमुद्भवं ताप्यं माक्षिकं हैममाक्षिकम् ॥
जत्वश्मजं धातुजं च शिलाकर्पूरसंज्ञकम्
गोरोचना बदरिका सौराष्ट्री रोचना शिवा ॥
लाक्षा दीप्तिर् द्रुमव्याधिः क्रिमिजा लोहिता जतु
[पद्मोत्तरस्] तालकुम्भो यावको ऽलक्तकः स्मृतः ॥
मृगनाभिर् मृगमदः कस्तूरी दर्पसंज्ञकः
लताकस्तूरिका राली गन्धवेणी मुखप्रिया ॥
घनसारो हिमराजः कर्पूरं हिमनामकम्
मृगस्वेदो मृगजलं पूतिः पूत्यण्डजः स्मृतः ॥
जातीफलं मज्जसारं जातिका जातिपत्त्रकः
कक्कोलकं कोशफलं कोलकं बहुबीजकम् ॥
मूल पाठ: Aṣṭāṅganighaṇṭu · Edition: Priya Vat Sharma, Madras: The Kuppuswamy Sastri Research Institute, 1973 · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0