भाषा

ENहिગુ
ग्रंथ पाठ

अष्टाङ्गनिघण्टु · श्लोक 261-280

261

उपोदकम् उपोदी च क्षुद्रका पोदकी तथा
जीवन्तिको रक्तशाकः कलम्बी वल्ल्युपोदकः ॥

262

तण्डुलीयो मेघनादः चिल्ली तु लोमशा स्मृता
शितिवारः सूचिपत्त्रः स्वस्तिकः सुनिषण्णकः ॥

263

मत्स्याक्षिकस् तु मत्सीरः पत्तूरः प्रियसत्य् अपि
शीघ्रशाखा शाखिनी च महाशाकश् च वास्तुकी ॥

264

श्रावणी स्यात् मुण्डितिका भिक्षुः श्रवणशीर्षका
सौम्यगन्धा बर्बरिका तिलपर्णी च सा स्मृता ॥

265

सर्पश् चित्रस् तु नीलाभो भूशाको भूमिकन्दकः
रसोनो लशुनो ज्ञेयः पलाण्डुर् मुखदूषणः ॥

266

शतपुष्पा शतच्छत्त्रा मिशिः घोषा शताह्वया
मिश्रेया शालिनी शीत शिवारण्या मिशिः स्मृता ॥

267

पृथ्वीका वारिपत्त्रा तु बाष्पिका च स्थलोद्भवा
कपित्थो ऽथ दधित्थश् च दुर्मदः सुरभिच्छदः ॥

268

तोयक्षोभकरः कुम्भी वारुणो वृक्षधूमकः
मूषिकारिश् चित्रफलः करण्डफलकश् च सः ॥

269

चोचं चिषु नारिकेलः तुङ्गद्रुः कूर्चशेखरः
नीरपूर्णफलः शृङ्गी मोचं तु कदलीफलम् ॥

270

रम्भा तु कदली मोचा वृत्तपुष्पांशुमत्फला
करमर्दी क्षीरफला श्वेतपुष्पफलेति च ॥

271

कृष्णपाकफलाविग्न कराम्लाः करमर्दकः
मातुलुङ्गो बीजपूरो लुङ्गश् च फलपूरकः ॥

272

जम्बीरो जम्भलो जम्भः जम्बो दन्तशठः स्मृतः
नारङ्गस् त्वक्सुगन्धाख्य ऐरावतमुखप्रियौ ॥

273

भव्यं भविष्यं चाम्लं च भवं रोमफलं मतम्
पारावतं रैवतकं लिकुचो लकुचो डहुः ॥

274

पनसः कण्टकिफलः चोचो दीर्घफलः स्मृतः
नलिका सुषिरा शून्या कपोतचरणा नटी ॥

275

स्निग्धवृक्षस्तु सक्षीरः प्लक्षः स्याद् गुडबीजकः
कालवृन्ता कुबेराक्षी कुलिङ्गाक्षी च यक्षदृक् ॥

276

उग्रकाण्डः कारवल्ली तोयवल्ली सुकाण्डका
पञ्चाङ्गुली लिङ्गबीजा राजिका पिण्डवत्फला ॥

277

तुर्यतुण्डी शिलाच्छेदी पूतिका नित्यपुष्पिका
पर्वमञ्जरिका कीट हन्त्री वृश्चिकहारिणी ॥

278

कुमारी व्याघ्रचरणा कन्या स्थूलदला च सा
बन्धूको बन्धुजीवश् च पार्वको वृकधूमकः ॥

279

कृष्णनीलः कालशाखः कैडर्यः सुरभिच्छदः
विश्वरूपा रूप्यगण्डा रूप्यो हरिततुम्बिली ॥

280

अर्शोघ्नश् चाखुकन्दश् च वन्यकन्दश् च शूरणः
रक्तपादी शमीपत्त्रा लज्जा लोहितयष्टिका ॥

मूल पाठ: Aṣṭāṅganighaṇṭu · Edition: Priya Vat Sharma, Madras: The Kuppuswamy Sastri Research Institute, 1973 · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc