अष्टाङ्गनिघण्टु · श्लोक 241-260
कटुकोशातकी क्ष्वेडा जालिनी कृतवेधनः
कटुकालाम्बुनी तुम्बा लाम्बुर् इक्ष्वाकुसंज्ञिका ॥
नीलिनी चारटी ज्ञेया नीलिनी नीलपुष्पिका
सूक्ष्मपादस् ताम्रचूडो ज्ञेयः कुक्कुटपादिकः ॥
गोधूलिका च गोजिह्वा गोजी क्रोष्टुकमूलकः
अङ्कोलो गिरिकोलश् च पीतसारो निकोचकः ॥
जालारिर् मेहशत्रुश् च बकुली तलपोटकः
स्वर्णवर्णाकरः पीत पुष्पको दोहकाह्वयः ॥
शणपुष्पी बृहत्पुष्पी शणः घण्टशणः स्मृतः
उभातसी रुद्रपत्त्री गोपिका बाणकः स्मृतः ॥
सौम्या सुवर्चला ब्राह्मी सोमा ब्रह्मसुवर्चला
मण्डूकपर्णी विक्रान्ता चान्या ब्राह्मी वनौषधिः ॥
सुतजीवः पुत्रजीवः पवित्रः पुत्रसिद्धिकृत्
आवर्तकी चर्मरङ्गा महाजाली विभाण्डिका ॥
प्रसारणी सुप्रसरा सारणी सुप्रतानिका
हिङ्गुपत्त्री तु पृथ्वीका बाष्पिका कवरी स्मृता ॥
तुम्बुरुस् तीक्ष्णवल्कश् च तीक्ष्णपत्त्रः कुतुम्बुरुः
अक्षोडः पर्वतीयश् च फलस्नेहो गुडाश्रयः ॥
कीरेष्टः कर्परालश् च स्वादुमञ्जा पृथुच्छदः
अगस्तिको मुनिनामा कुम्भयोनिश् च स स्मृतः ॥
अधिच्छत्त्रा कुम्भयोनिः द्रोणपुष्पी कुतुम्बिका
कौण्डिन्यश् च महाद्रोणः स्मृतो देवकुतुम्बकः ॥
अधिच्छत्त्रा गौतमस्था बालग्रन्थिः प्रकीर्तिता
वत्सादनी सुदशाख्या चक्राङ्गी जलशोषकः ॥
प्रपुन्नाटस् त्व् एडगजो दद्रुघ्नश् चक्रमर्दकः
लक्ष्मणा पुत्रजननी रक्तबिन्दुच्छदा तथा ॥
नागिनी शूलिनी नाग वल्ली मत्स्यार्जकः स्मृतः
शृगालघण्टा वज्राक्षी वज्रवल्ली तु शृङ्खला ॥
पलंकषा मूलकं च हिंगुना पुष्करच्छदः
दधिपुष्पी तु खट्वाङ्गी खट्वा पर्यङ्कपादिका ॥
बिम्बी गो हा तुण्डिकेरी तिलाख्या फलनाभिका
उर्वारुः कर्कटी प्रोक्ता लोमशा च प्रकीर्तिता ॥
खूर्जरिकस् तु कालिङ्गः मूत्रलं त्रपुसं स्मृतम्
कूष्माण्डकी पुष्पलता ककुभाण्डा फलोत्तमा ॥
गोरक्षतुम्बी गोरक्षी कुम्भालाम्बुर् घटाभिधा
चिर्भिटिका चित्रफला चीनारं चिर्भटं स्मृतम् ॥
लम्बा पिण्डफलेक्ष्वाकुः कटुका क्षत्रियात्मजा
महाफलेक्षुरा चैव तुम्बिका तिक्तबीजका ॥
चुक्रिका चाम्लिका चिञ्चा जीवन्ती तिन्तिडी स्मृता
चुक्रिका त्व् अम्लचाङ्गेरी सुनिषण्णदला तथा ॥
मूल पाठ: Aṣṭāṅganighaṇṭu · Edition: Priya Vat Sharma, Madras: The Kuppuswamy Sastri Research Institute, 1973 · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0