भाषा

ENहिગુ
ग्रंथ पाठ

अष्टाङ्गनिघण्टु · श्लोक 221-240

221

तिन्तिडीकस् तु वृक्षाम्लो बदरी कोलसंज्ञकः
कर्कन्धूः ह्रस्वबदरी वसुवृक्षस् तु धन्वनः ॥

222

सहस्रवीर्यस् तीक्ष्णाम्लो वराम्लस् त्व् अम्लवेतसः
गोधापदी गोधवल्ली पट्वम्लादित्यनामिका ॥

223

पत्त्रभङ्गो महाश्यामा खराश्वा वृद्धदारुकः
दावाग्निदमनी माता क्षुद्रकण्टरिका तथा ॥

224

बर्हिशिखाह्वया गुञ्जा रक्तिका काकणन्तिका
श्वेतकाम्भोजिका ध्वाङ्क्षी श्वेतपाकी शिखण्डिका ॥

225

तृतीया कृष्णकाम्भोजी कुणपोकः सुसादनी
ज्योतिष्मती कङ्गुणिका पारावतपदी च सा ॥

226

ईश्वरी नागदमनी कीटारिः सर्पगन्धिका
अधोमुखा त्व् अवाक्पुष्पी वाराही वनमालिका ॥

227

आरामशीतलो देवो गन्धाढ्यः कुरुमर्दकः
नागजिह्वा श्वेतफला क्षीरिणी चार्कपुष्पिका ॥

228

निम्बच्छदेन्द्रवल्ली च करभी रुचिरा स्मृता
लिखिका भक्तिका भूरी नवनीता प्रकीर्तिता ॥

229

ज्ञेया बदरिकापर्णी पर्णकः पूतिकर्णकः
मलयूः वाकुची चैव चन्द्ररेखा त्व् अवल्गुजः ॥

230

चक्षुष्या चारटी ज्ञेया तथारण्यकुलत्थिका
अहिमारो ऽरिमेदस् तु पीतदारुर् हरिद्रुमः ॥

231

श्वेतत्वक् तीक्ष्णसारश् च विबुधस् तीक्ष्णसारकः
वाप्याह्वं पौष्करं शूल हरं बीजाह्वयं मतम् ॥

232

शरी तु सुव्रता ज्ञेया गन्धाह्वा सोमसम्भवा
सहस्रवीर्या गोलोमी सिता दूर्वा च शाद्वलः ॥

233

क्षुद्रवारी दुग्धयुता घटिका छत्रपत्त्रका
आघोटको ब्रह्मफलो रक्तबिन्दुस् तिलच्छदः ॥

234

अजाक्षी लोमपर्णी च ज्ञेयो मेषविलोचनः
महावृक्षो महानीलो भृङ्गाह्वो मार्कवः स्मृतः ॥

235

केशरञ्जनको ज्ञेयो भृङ्गराड् भृङ्गरेणुकः
रामाह्वार्कलतारामा तरुणी पुष्पवत्य् अपि ॥

236

सूर्यभक्ता सुखोद्भावा सूर्यावर्ता रविप्रिया
हिरण्यपुष्पी खर्जूरी ताडपत्त्री मुसल्य् अपि ॥

237

इक्ष्वालिका तु काकेक्षुः काण्डेक्षुर् वायसेक्षुकः
श्वेतचामरकः काशस् तथेक्षुकुसुमश् च सः ॥

238

अध्यण्डेक्षुरकः स्थूल कण्टकः कोकिलाक्षकः
उच्चटा चटका ज्ञेया शिखण्ड्य् आस्फोतकः स्मृतः ॥

239

उन्मत्तको मातुलको धुत्तूरो हेमनामकः
त्रिपुष्पः कृष्णधुत्तूरः कृष्णपुष्पी च मोहिनी ॥

240

देवदाली च कर्कोटी वेणी जीमूतकः स्मृतः
धामार्गवः कोशफलो राजकोशातकी स्मृता ॥

मूल पाठ: Aṣṭāṅganighaṇṭu · Edition: Priya Vat Sharma, Madras: The Kuppuswamy Sastri Research Institute, 1973 · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc