अष्टाङ्गनिघण्टु · श्लोक 201-220
घनभूरिरसस् त्व् इक्षुः गुडमूलो ऽसिपत्त्रकः
तीक्ष्णवृक्षः शणः पीलुः प्रोक्तो ऽन्यः स्थाणुकस् तथा ॥
गणेषु यानि द्रव्याणि संग्रहे वाल्पसंग्रहे
तान्य् उक्तान्य् अभिधीयन्ते विप्रकीर्णान्य् अतः परम् ॥
पवित्रपत्त्रा मङ्गल्या शमी लक्ष्मी च केशनुत्
सोहला रुदती तन्वी सूक्ष्ममूलापराजिता ॥
पानीयो बीजवृक्षस् तु जीववृक्षस् तु पाशिकः
शुक्लपुष्पा भूमिलग्ना ह्रस्वाङ्गा शङ्खपुष्पिका ॥
सूक्ष्मपत्त्रा सर्पगन्धा सर्पाक्षी रक्तपुष्पिका
अन्या तु सुमहाकन्दा नाकुली नकुलप्रिया ॥
विष्णुक्रान्ता नीलपुष्पी सतीना छर्दिका तथा
वाट्यालकः पीतपुष्पो वाट्या भद्रौदनी बला ॥
महाबला वर्षपुष्पी शीतपाकी सुबीजकः
वाट्यायनी त्व् अतिबला भारद्वाजी सुपर्णिका ॥
रामान्याच्छादनफला वाट्या कार्पाससंज्ञका
अजटा बहुपत्त्रा च भूधात्री तामलक्य् अपि ॥
शीतवीर्यः पर्पटकः तृष्णाघ्नः सूक्ष्मपत्त्रकः
त्रायन्ती त्रायमाणा च पालिनी भयनाशिनी ॥
दुरालभा धन्वयासो यासो दुःस्पर्शकस् तथा
कल्याणलोचनो ज्ञेयो नादेयो जलजम्बुकः ॥
महाकदम्बो निचुलो ऽनपायी जलनूपुरः
किङ्किरातः कर्णिकारो गौरः कनकपुष्पकः ॥
मन्दारः पारिभद्राह्वो ज्ञेयः कण्टकीकिंशुकः
पारिजातश् च रोहीतः प्लीहघ्नो रक्तपुष्पकः ॥
शुकनासा तु नलिका शुकघ्राणो ऽल्पनालिका
शाकराजो भूतवासो गोजिह्वा कर्कशच्छदा ॥
अजाक्षी व्रणनाशिनी कुष्ठघ्नी फल्गुवाटिका
सिंहास्यः कर्कटश् चैव वृषो वासाटरूषकः ॥
अश्मन्तको ऽम्लयोनिश् च ज्ञेयो यमलपत्त्रकः
वंशो वेणुर् यवफलः सुपर्वा च तृणध्वजः ॥
करीरः कीचको मृत्यु फलाङ्कुर इति स्मृतः
वारणस् तरली कुम्भि करञ्जस् तीरवृक्षकः ॥
सिन्धुरः सिन्धुवारश् च श्वेतपुष्पावरोहितः
काकोदुम्बरिका फल्गुः भद्रोदुम्बरवायसी ॥
कालान्त्रदारी कन्थारी फणी खदिरवल्ल्य् अपि
सिता कुमारिका मल्ली मोहिनी वटपत्त्रिका ॥
फेनिलो हस्तिकर्कोटः काण्डो बाणः शणः स्मृतः
श्लेष्मान्तको बहुफलः शैलूषः कान्तवृक्षकः ॥
कुद्दालकः कोविदारस् ताम्रपुष्पो युगच्छदः
कालकर्णी भूतवल्ली बल्या गन्धाश्वगन्धिका ॥
मूल पाठ: Aṣṭāṅganighaṇṭu · Edition: Priya Vat Sharma, Madras: The Kuppuswamy Sastri Research Institute, 1973 · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0