अष्टाङ्गनिघण्टु · श्लोक 1-20
सर्वज्ञाय नमस्कृत्य द्रव्याणां गूढवाचिनाम्
अष्टाङ्गसंग्रहोक्तानां निघण्टुर् अभिधीयते ॥
विदारीपञ्चाङ्गुलवृश्चिकाली वृश्चीवदेवाह्वयशूर्पपर्ण्यः
कण्डूकरी जीवनाह्वस्वसंज्ञे द्वे पञ्चके गोपसुता त्रिपादी ॥
विदार्यादिर् अयं हृद्यो बृंहणो वातपित्तहा
शोषगुल्माङ्गमर्दोर्ध्व श्वासकासहरो गणः ॥
विदारी गजवाजीष्टा वृषगन्धेक्षुगन्धिका
शृगालिका पुष्पवल्ली शुक्लकन्दा पलाशिका ॥
क्षीरेक्षुवल्लीगन्धान्या क्षीरशुक्ला पयस्विनी
वल्लीपलाशिका क्षीर विदारी श्रेष्ठकन्दकः ॥
पञ्चाङ्गुलो वर्धमानश् चित्रो गन्धर्वहस्तकः
उरुवूकस् तथैरण्ड आमण्डो वातनाशनः ॥
रक्तैरण्डो द्वितीयस् तु व्याघ्रो व्याघ्रतलोपमः
नक्राहिदंष्ट्रिका कोली वृश्चिकाल्य् उष्ट्रधूमकः ॥
कालेयी धूम्रपत्त्रोष्ट्रा विशल्या सर्पदंष्ट्रिका
पुनर्नवा वर्षकेतुः वृश्चीवः श्वेतमूलकः ॥
वर्षाभूः दीर्घपत्त्रा च विकसस् तु कठिल्लकः
सुनाडिको रक्तपुष्पो विशाखो मण्डलच्छदः ॥
सहदेवा महागन्धा देवगन्धा बलाह्वया
गाङ्गेरुकी नागबला खरबन्धा निशाह्वया ॥
विश्वदेवा झषा काला तथा चाश्वगवेधुका
मुद्गपर्णी सहा सूप्य पर्णी मार्जारगन्धिका ॥
काकमुद्गा क्षुद्ररसा चास्रपित्तहरा सरा
पिशाची सिंहविन्ना च माषपर्णी महासहा ॥
मर्कटी चात्मगुप्ता च कण्डूकृत् कपिकच्छुरा
वृष्यबीजा गलेकण्डू करी शार्दुलविग्रहा ॥
फणिजिह्वापर्ण्य् अभीरुः पीवरीन्दीवरी वरी
सूक्ष्मपत्त्रा द्वीपिशत्रुः शतमूली शतावरी ॥
काकोली कवरी वीरा ध्वाङ्क्षोली क्षीरशुक्लिका
जीवन्ती जीवनी जीवा शाकश्रेष्ठा सुमङ्गला ॥
पयस्या पयसी पोट गला ज्ञेयार्कपुष्पिका
जीवकः कूर्चनिभस् तु वृषाणी वृषभो वृषः ॥
पृश्निपर्णी पृथक्पर्णी धावनी कलशी गुहा
शृगालविन्ना लाङ्गूली स्थिरा क्रोष्टुकपुच्छिका ॥
विदारिगन्धांशुमती शालपर्णी स्थिरा ध्रुवा
त्रिपर्ण्य् अतिगुहा सौम्या महाक्षी तन्विका मता ॥
व्याघ्री निदिग्धिका क्षुद्रा द्रावणी कण्टकारिका
सिंहा च क्षुद्रवार्त्ताकी बृहती बहुपुत्रिका ॥
वार्त्ताकी हिङ्गुली सिंही भाण्टाकी दुष्प्रधर्षिणी
गोकण्टको गोक्षुरकः श्वदंष्ट्रा च त्रिकण्टकः ॥
मूल पाठ: Aṣṭāṅganighaṇṭu · Edition: Priya Vat Sharma, Madras: The Kuppuswamy Sastri Research Institute, 1973 · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0