भाषा

ENहिગુ
ग्रंथ पाठ

अष्टाङ्गनिघण्टु · श्लोक 181-200

181

एलादिके पूर्वम् उक्ता सूक्ष्मैलान्या तु कथ्यते
भद्रैला बृहदेला तु स्थूलैला त्रिपुटोद्भवा ॥

182

सुहेला च सुषेणी च रेणुका कान्तनामिका
पिण्डी तुरुष्कजं तैलं पिरायाकं कृत्रिमं कपिः ॥

183

ह्रीवेरं वारि केशाह्वम् उदीच्यं बालकं जलम्
ध्यामकं शबलं गन्धं स्पृक्का देवी लता सती ॥

184

चोरको ग्रन्थिपर्णी स्यात् शटी सोमसमुद्भवा
वराङ्गं चर्मनामा च चोचं त्वक् च वराङ्गकम् ॥

185

रोमशं छदनं पत्त्रं तमालं रोमशीफलम्
बहिष्ठं तगरं वक्रं नतं कालानुसारि च ॥

186

चारटी शुकबर्हाख्यं स्थौणेयं तैलपीतकम्
जातीरसो रसो बोलं शुक्तिः कररुहो नखः ॥

187

बदरीपत्त्रकं चैव ज्ञेयो नागहनुस् तथा
समुद्रजो व्याघ्रनखो विज्ञेयो व्याघ्रनामकः ॥

188

श्रीवेष्टको वायसको दधिनामा च कीर्तितः
काश्मीरं कुङ्कुमं रक्तं वाह्लीकं घुसृणं वरम् ॥

189

क्रोधना पिशुना चण्डा चौरी शङ्खिनिका मता
महिषाक्षो निशाचारी कौशिको गुग्गुलुः पुरः ॥

190

रालस् तु देवधूपः स्यात् शालः सर्जरसाह्वयः
कुन्दुरुर् मेदकः कुन्द्रो विज्ञेयः खपुरस् तथा ॥

191

श्यामादन्तीद्रवन्तीक्रमुककुटरणाशंखिनी चर्मसाह्वा स्वर्णक्षीरीगवाक्षीशिखरिरजनकच्छिन्नरोहाकरञ्जाः
बस्तान्त्री व्याधिघातो बहलबहुरसस् तीक्ष्णवृक्षात् फलानि श्यामाद्यो हन्ति गुल्मं विषमरुचिकफौ हृद्रुजं मूत्रकृच्छ्रम् ॥

192

मसूरविदला श्यामा श्यामादो कालमेषिका
सुषेणिका शशाह्वा च कालिन्दी कालिका स्मृता ॥

193

चित्रा मुकूलको दन्ती निकुम्भः शम्बरस् तथा
उदुम्बरच्छदा हस्ति दन्ती स्याद् उपचित्रका ॥

194

न्यग्रोधाह्वा सुतत्रेणी द्रवन्त्य् उन्दुरुकर्णिका
कुम्भस्त्री भट्टिनी सूत्रा श्यामा कुटरणा त्रिवृत् ॥

195

शङ्खिनी तिक्तला वक्री यवतिक्ता किशोरिका
शङ्खावर्ता शङ्खपुष्पी विशिखा नाहिका स्मृता ॥

196

सातला सप्तला चर्म कषाह्वावर्तकी स्मृता
अन्येषां तु तथा ब्राह्मी ब्रह्मनामा तु कीर्तिता ॥

197

स्वर्णक्षीरी हैमवती कङ्कुष्ठस् तीक्ष्णदुग्धिका
इन्द्रवारुणिका चैन्द्री गवाक्षी गजचिर्भिटी ॥

198

विशाला च विशल्या च सैव प्रोक्ता गवादनी
गिरिकर्ण्य् अश्वक्षुरकः स्थाणुकर्णी गवादनी ॥

199

नीलस्यन्दा नीलपुष्पी नीलाख्या गिरिकर्णिका
तिल्वकः शिखरी श्वेत त्वक् तिरीटो बृहच्छदः ॥

200

कम्पिल्लको रञ्जनको रेचनो रक्तचूर्णकः
बस्तान्त्री वृषगन्धाख्या मेषान्त्री वृषपत्त्रिका ॥

मूल पाठ: Aṣṭāṅganighaṇṭu · Edition: Priya Vat Sharma, Madras: The Kuppuswamy Sastri Research Institute, 1973 · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc