अष्टाङ्गनिघण्टु · श्लोक 161-180
समङ्गा शतपत्त्रा च तथैवाञ्जलिकारिका
नमस्कारी रक्तमूला तथा पुष्पावरोधिका ॥
पुंनागः पुरुषाह्वश् च तुङ्गाख्यो रक्तकेसरः
नमेरुर् देवपुंनागः स्कन्धपुष्पः सुराह्वयः ॥
मदहेतुः सिन्धुपुष्पी धातकी मदयन्तिका
कुञ्जरा हरिसारा च मदवीर्या मदप्रिया ॥
अम्बष्ठादौ स्मृताम्बष्ठा सहस्री बहुमूलकः
मधुपर्णी केकिशिखा मयूराह्वा शिखी तथा ॥
नन्दीवृक्षः प्ररोही च जयवृक्षेन्द्रवृक्षकौ
कच्छुरा पणिहारी च तीक्ष्णपत्त्रा मरुद्भवा ॥
मुस्तावचाग्निद्विनिशाद्वितिक्ता भल्लातपाठात्रिफलीविषाख्याः
कुष्ठं कुटी हैमवती च योनि स्तन्यामयघ्ना मलपाचनाश् च ॥
मुस्तादिके गणे मुस्ता पूर्वम् एव प्रकीर्तिता
तिक्ता च कटुका ज्ञेया रोहिणी कटुरोहिणी ॥
स्फोटशोफक्षतकरं भल्लातकम् अरुष्करम्
पाकलं वारि भाव्यं च वाप्यं कुष्ठं गदाह्वयम् ॥
न्याग्रोधपप्पलसदाफलरोध्रयुग्मं जम्बुद्वयार्जुनकपीतनसोमवल्काः
प्लक्षाम्रवञ्जुलपियालपलाशनन्दी कोलीकदम्बविरलामधुकं मधूकम् ॥
न्यग्रोधादिर् गणो व्रण्यः संग्राही भग्नसाधनः
मेदःपित्तास्रतृड्दाह योनिरोगनिबर्हणः ॥
न्यग्रोधादौ यक्षवासो न्यग्रोधो बहुपाद् वटः
अश्वत्थः पिप्पलो बोधिश् चैत्यद्रुश् चलपत्त्रकः ॥
उदुम्बरः कृमिफलः सुप्रतिष्ठः सदाफलः
बृहत्फला राजजम्बूः काकजम्ब्वल्पसस्यका ॥
फलश्रेणी वरः प्रोक्तः कपिचूतः कपीतनः
प्लक्षः कुपिप्पलः प्लावो गर्दभाण्डः कपीतनः ॥
आम्रश् चूतश् चावतलः कान्तः पिण्डफलस् तथा
वसन्तदूती माकन्दा भृङ्गेष्टा कोकिलप्रिया ॥
रसालद्रुः सहकारः सौरभः कोकिलप्रियः
नादेयो वञ्जुलः प्रोक्तो विदुलो वेतसो ऽपरः ॥
प्रियालस् तु खरस्कन्धश् चारो द्राक्षारसप्रियः
कर्कन्धूः काष्ठकृत् कोली बदरी युग्मकण्टकः ॥
विस्फूर्जनी विकरणी तिन्दुकी विरला स्मृता
कालस्कन्धो नीलसारो द्वितीयः काकतिन्दुकः ॥
वक्रशल्या कृष्णफला विरला गृध्रनख्य् अपि
गन्धयुक्ता सारवस्त्रा दुर्धर्षा कुण्डली स्मृता ॥
एलायुग्मतुरुष्ककुष्ठफलिनीमांसीजलध्यामकं स्पृक्काचोरकचोचपत्त्रतगरस्थौणेयजातीरसाः
शुक्तिव्याघ्रिनखो ऽमराह्वमगुरुः श्रीवासकः कुङ्कुमं चण्डागुग्गुलदेवधूपखपुराः पुंनागनागाह्वयम् ॥
एलादिको वातकफौ विषं विनियच्छति
वर्णप्रसादनः कण्डू पिटिकाकोठनाशनः ॥
मूल पाठ: Aṣṭāṅganighaṇṭu · Edition: Priya Vat Sharma, Madras: The Kuppuswamy Sastri Research Institute, 1973 · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0