भाषा

ENहिગુ
ग्रंथ पाठ

अष्टाङ्गनिघण्टु · श्लोक 141-160

141

मुष्ककादौ तु शिखरी मुष्कको मोक्षकस् तथा
कालमुष्कः क्षारवृक्षः क्षीणवारिफलः स्मृतः ॥

142

सुधा वज्री महावृक्षो ग्रन्थिला स्नुग् गुडा स्नुही
समन्तदुग्धा श्वजिह्व पत्रश् च युग्मकण्टकः ॥

143*

वत्सकमूर्वाभार्ङ्गीकटुका मरीचं घुणप्रिया च गण्डीरम् ।
एला पाठा जाजी कट्वङ्गफलाजमोदसिद्धार्थवचाः ॥

144*

जीरकहिङ्गुविडङ्गं पशुगन्धा पञ्चकोलकं हन्ति ।
चलकफमेदःपीनसगुल्मज्वरशूलदुर्नाम्नः ॥

145

वनतिक्तो वत्सकादौ कुटजो गिरिमल्लिका
वृक्षकः शक्रवृक्षश् च वत्सकः कुटजस् तथा ॥

146

भङ्गुरातिविषा माद्री शुक्लकन्दा घुणप्रिया
द्वितीया तु प्रतिविषा श्वेतरक्तविषा मता ॥

147

दीर्घवृन्तो महानिम्बः कट्वङ्गो ऽरलुतिक्तकः
दीप्यकं त्व् अजमोदस् तु यवानी जरणाह्वया ॥

148

वचोग्रगन्धा जटिला षड्ग्रन्था हैमवत्यपि
शुक्ला या सा स्वादुकन्दा सुवासा हिमसंभवा ॥

149

वचाजलददेवाह्व नागरातिविषामयाः
हरिद्राद्वययष्ट्याह्व कलशीकुटजोद्भवाः ॥

150

वचाहरिद्रादिगणाव् आमातीसारनाशनौ
मेदःकफाढ्यपवन स्तन्यदोषनिबर्हणौ ॥

151

वचादौ प्राग् वचा प्रोक्ता मुस्ता तु जलदाह्वया
गाङ्गेयी कुरुविन्दा च देवाह्वा भद्रमुस्तकम् ॥

152

हरिद्रादिगणं वक्ष्ये गौरी श्यामा च निर्विषा
निशा क्षपा च रात्रिश् च वरा लोमशमूलिका ॥

153

स्वर्णवर्णा हरिद्रा तु निशाह्वा रजनी तथा
दार्वी कटंकटेरी च पर्जन्या च पचम्पचा ॥

154

प्रियङ्गुपुष्पाञ्जनयुग्मपद्माः पद्माद्रजो योजनवल्ल्यनन्ता
मानद्रुमो मोचरसः समङ्गा पुन्नागशीतं मदनीयहेतुः ॥

155

अम्बष्ठा मधुकं नमस्करी नन्दीवृक्षपलाशकच्छुरा
रोध्रं धातकिबिल्वपेशिके कट्वङ्गं कमलोद्भवं रजः ॥

156

गणौ प्रियङ्ग्वम्बष्ठादी पक्वातीसारनाशनौ
सन्धानीयौ हितौ पित्ते व्रणानाम् अपि रोपणौ ॥

157

प्रियङ्ग्वादिगणे पूर्वं प्रियङ्गुः समुदाहृता
पद्मासितारविन्दा च चारटी पद्मचारिणी ॥

158

रजः परागं किञ्जल्कं केसरं पद्मसंभवम्
मञ्जिष्ठा विजया रक्ता समङ्गा विकसारुणा ॥

159

मञ्जुका रक्तयष्टी च ताम्रा योजनवल्ल्य् अपि
अनन्ता दीर्घमूला च समुद्रान्तो यवासकः ॥

160

सारद्रुः शाल्मली मोचा पुराणी रक्तपुष्पिका
निर्यासो यस् तु शाल्मल्याः स मोचरससंज्ञकः ॥

मूल पाठ: Aṣṭāṅganighaṇṭu · Edition: Priya Vat Sharma, Madras: The Kuppuswamy Sastri Research Institute, 1973 · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc