भाषा

ENहिગુ
ग्रंथ पाठ

अष्टाङ्गनिघण्टु · श्लोक 121-140

121

अर्कालकौ नागदन्ती विशल्या भार्ङ्गी रास्ना वृश्चिकाली प्रकीर्या
प्रत्यक्पुष्पी पीततैलोदकीर्या श्वेतायुग्मं तापसानां च वृक्षः ॥

122

अयम् अर्कादिको वर्गः कफमेदोविषापहः
कृमिकुष्ठप्रशमनो विशेषाद् व्रणशोधनः ॥

123

अर्कादौ तु सदापुष्पा सूर्याह्वार्कस् तु रूपिका
मन्दारः श्वेतकुसुमो ऽलर्को विकरणः स्मृतः ॥

124

नागदन्ती श्वेतघण्टा नागिनी पूर्वपुष्पिका
विशल्या हलिनी वह्मि जिह्वा लाङ्गलिका स्मृता ॥

125

भार्ङ्गी फञ्जी च पालिन्दी द्विजयष्टिः सुगन्धिका
अपामार्गः शैखरिकः प्रत्यक्पुष्पी मयूरकः ॥

126

काकादनी पीततैला वेगा काकाण्डकी तथा
ज्योतिष्मती पीततैला वेगा कङ्गुणिका स्मृता ॥

127

श्वेता सुनाभिः कटभी किणिही मधुरेणुका
कटंभरा महाश्वेता कालिन्दी कटभी सिता ॥

128

कुमार्याख्या महाश्वेता वन्ध्या कर्कोटकी तथा
इङ्गुदस् तिक्तमञ्जा च पीलुकस् तापसद्रुमः ॥

129

सुरसयुगफणिज्जं कालमाला विडङ्गं खरबुसवृषकर्णी कट्फलं कासमर्दः
क्षवकसरसिभार्ङ्गीकार्मुकाः काकमाची कुलहलविषमुष्टी भूस्तृणो भूतवेशी ॥

130

सुरसादिर् गणः श्लेष्म मेदःकृमिनिषूदनः
प्रतिश्यायारुचिश्वास कासघ्नो व्रणशोधनः ॥

131

सुरसादौ गणे द्वेधा सुरा कृष्णगरुर् अतः
स्वादुगन्धिच्छदा चैव कायस्था तुलसी तथा ॥

132

फणिज्जको मञ्जरीकस् तीक्ष्णगन्धः सुगन्धिकः
कृष्णसर्जकः कालमालः वठिञ्जरकुठेरकौ ॥

133

विडङ्गं कृमिजिद् बल्यं किरीटं श्वेततण्डुलम्
शूकात्मकः खरबुसौ मरुवः खरपत्त्रकः ॥

134

वृषकर्ण्याखुकर्णी च तथा भूमिपरिश्रया
राजक्षवः पीतपुष्पः कासघ्नं कासमर्दकः ॥

135

उद्वेगजननस् तीक्ष्णः क्षवकः क्षुद्विबोधकः
कपित्थपत्त्री झरसी निर्झरा झरपत्त्रिका ॥

136

प्राचीना बोधकी कान्ता कामुका रक्तमञ्जरी
माधवी स्याद् अमुक्तश् च सुवसन्तो ऽतिमुक्तकः ॥

137

काकमाची गूढफला काकाह्वा माचिकापि च
वोलो वृद्धः कुलहलो जम्बूलो भूकदम्बकः ॥

138

विषमुष्टिश् च कर्कोटी क्षयाह्वा केशमुष्टिका
पुत्राञ्जलिः भूतकेशी भूस्तृणो गुह्यबीजकः ॥

139

भूतावेशी भूतकेशी निर्गुण्डी तिन्दुवारकः
शेफालिका श्वेतपुष्पा श्वेतनिर्गुण्डिका स्मृता ॥

140

मुष्ककस्नुग्वराद्वीपि पलाशधवशिंशपाः
गुल्ममेहाश्मरीपाण्डु मेदो ऽर्शःकफशुक्रजित् ॥

मूल पाठ: Aṣṭāṅganighaṇṭu · Edition: Priya Vat Sharma, Madras: The Kuppuswamy Sastri Research Institute, 1973 · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc