भाषा

ENहिગુ
ग्रंथ पाठ

अष्टाङ्गहृदयसूत्र · अध्याय 75

75.1

कल्पस्थान
वमने मदनं श्रेष्ठं त्रिवृन्-मूलं विरेचने ।
नित्यम् अन्यस्य तु व्याधि-विशेषेण विशिष्ट-ता

75.2

फलानि नाति-पाण्डूनि न चाति-हरितान्य् अपि ।
आदायाह्नि प्रशतर्क्षे मध्ये ग्रीष्म-वसन्तयोः

75.3

1.2अव् फलानि तानि पाण्डूनि 1.2ब्व् न चाति-हरितानि च 1.2ब्व् न चाति-हरितान्य्
अथ
प्रमृज्य कुश-मुत्तोल्यां क्षिप्त्वा बद्ध्वा प्रलेपयेत् ।
गो-मयेनानु मुत्तोलीं धान्य-मध्ये निधापयेत्

75.4

1.3अव् प्रमृज्य कुश-पूतोल्यां 1.3च्व् गो-मयेनानु पूतोलीं
मृदु-भूतानि मध्व्-इष्ट-गन्धानि कुश-वेष्टनात् ।
निष्कृष्टानि गते ऽष्टाहे शोषयेत् तान्य् अथातपे

75.5

1.4अव् मृदु-भूतानि मद्येष्ट- 1.4च्व् निष्कृष्टानि गताष्टाहे 1.4च्व् निष्कृष्य
निर्गते ऽष्टाहे
1.4च्व् निष्कृष्य विगते ऽष्टाहे
तेषां ततः सु-शुष्काणाम् उद्धृत्य फल-पिप्पलीः ।
दधि-मध्व्-आज्य-पललैर् मृदित्वा शोषयेत् पुनः

75.6

1.5च्व् दधि-मध्व्-आम्बु-पललैर्
ततः सु-गुप्तं संस्थाप्य कार्य-काले प्रयोजयेत् ।
अथादाय ततो मात्रां जर्जरी-कृत्य वासयेत्

75.7

शर्वरीं मधुयष्ट्या वा कोविदारस्य वा जले ।
कर्बुदारस्य बिम्ब्या वा नीपस्य विदुलस्य वा

75.8

1.7च्व् जीमूतकस्य बिम्ब्या वा
शणपुष्प्याः सदापुष्प्याः प्रत्यक्पुष्प्य्-उदके ऽथ-वा ।
ततः पिबेत् कषायं तं प्रातर् मृदित-गालितम्

75.9

1.8ब्व् प्रत्यक्पुष्पोदके ऽथ-वा 1.8ब्व् प्रत्यक्पुष्पोदकेन वा
सूत्रोदितेन विधिना साधु तेन तथा वमेत् ।
श्लेष्म-ज्वर-प्रतिश्याय-गुल्मान्तर्-विद्रधीषु च

75.10

1.9ब्व् साधु तेन यथा वमेत् 1.9ब्व् साधु तेन ततो वमेत्
प्रच्छर्दयेद् विशेषेण यावत् पित्तस्य दर्शनम् ।
फल-पिप्पली-चूर्णं वा क्वाथेन स्वेन भावितम्

75.11

त्रि-भाग-त्रि-फला-चूर्णं कोविदारादि-वारिणा ।
पिबेज् ज्वरा-रुचि-ष्ठेव-ग्रन्थ्य्-अपच्य्-अर्बुदोदरी

75.12

1.11च्व् पिबेज् ज्वर-गर-ष्ठीव- 1.11च्व् पिबेज् ज्वर-गर-ष्ठेव- 1.11च्व् पिबेज्
ज्वर-गर-स्वेद-
1.11च्व् पिबेज् ज्वरा-रुचि-ष्ठीव- 1.11च्व् पिबेज् ज्वरा-रुचिष्व् एवं 1.11द्व्
ग्रन्थ्य्-अपच्य्-अर्बुदोदरी
पित्ते कफ-स्थान-गते जीमूतादि-जलेन तत् ।
हृद्-दाहे ऽधो-ऽस्र-पित्ते च क्षीरं तत्-पिप्पली-शृतम्

75.13

क्षैरेयीं वा कफ-च्छर्दि-प्रसेक-तमकेषु तु ।
दध्य्-उत्तरं वा दधि वा तच्-छृत-क्षीर-संभवम्

75.14

1.13ब्व् -प्रसेक-तमकेषु च
फलादि-क्वाथ-कल्काभ्यां सिद्धं तत्-सिद्ध-दुग्ध-जम् ।
सर्पिः कफाभिभूते ऽग्नौ शुष्यद्-देहे च वामनम्

75.15

1.14द्व् शुष्क-देहे च वामनम् 1.14द्व् शुष्यद्-देहे तु वामनम्
स्व-रसं फल-मज्ज्ञो वा भल्लातक-विधि-शृतम् ।
आ-दर्वी-लेपनात् सिद्धं लीढ्वा प्रच्छर्दयेत् सुखम्

75.16

तं लेहं भक्ष्य-भोज्येषु तत्-कषायांश् च योजयेत् ।
वत्सकादि-प्रतीवापः कषायः फल-मज्ज-जः

75.17

निम्बार्कान्य-तर-क्वाथ-समायुक्तो नियच्छति ।
बद्ध-मूलान् अपि व्याधीन् सर्वान् संतर्पणोद्भवान्

75.18

1.17द्व् श्लेष्म-संतर्पणोद्भवान्
राठ-पुष्प-फल-श्लक्ष्ण-चूर्णैर् माल्यं सु-रूक्षितम् ।
वमेन् मण्ड-रसादीनां तृप्तो जिघ्रन् सुखं सुखी

75.19

1.18ब्व् -चूर्णैर् माल्यं विरूक्षितम् 1.18ब्व् -चूर्णैर् माल्यं सु-रूषितम् 1.18ब्व्
-चूर्णैर् मालां सु-रूषिताम्
1.18च्व् वमेन् नरो रसादीनां
एवम् एव फला-भावे कल्प्यं पुष्पं शलाटु वा ।
जीमूताद्याश् च फल-वज् जीमूतं तु विशेषतः

75.20

1.19अव् एवम् एव फला-लाभे
प्रयोक्तव्यं ज्वर-श्वास-कास-हिध्मादि-रोगिणाम् ।
पयः पुष्पे ऽस्य निर्वृत्ते फले पेया पयस्-कृता

75.21

रोमशे क्षीर-संतानं दध्य्-उत्तरम् अ-रोमशे ।
शृते पयसि दध्य्-अम्लं जातं हरित-पाण्डुके

75.22

1.21द्व् जाते हरित-पाण्डुके 1.21द्व् जाते हरित-पाण्डुरे 1.21द्व् जातं
हरित-पाण्डुरे
आसुत्य वारुणी-मण्डं पिबेन् मृदित-गालितम् ।
कफाद् अ-रोचके कासे पाण्डु-त्वे राज-यक्ष्मणि

75.23

इयं च कल्पना कार्या तुम्बी-कोशातकीष्व् अपि ।
पर्यागतानां शुष्काणां फलानां वेणि-जन्मनाम्

75.24

1.23द्व् फलानां वेणु-जन्मनाम् 1.23द्व् फलानां चोणि-जन्मनाम्
चूर्णस्य पयसा शुक्तिं वात-पित्तार्दितः पिबेत् ।
द्वे वा त्रीण्य् अपि वापोथ्य क्वाथे तिक्तोत्तमस्य वा

75.25

1.24च्व् द्वे वा त्रीण्य् अथ-वापोथ्य
आरग्वधादि-नवकाद् आसुत्यान्य-तमस्य वा ।
विमृद्य पूतं तं क्वाथं पित्त-श्लेष्म-ज्वरी पिबेत्

75.26

1.25च्व् विमृज्य पूतं तं क्वाथं
जीमूत-कल्कं चूर्णं वा पिबेच् छीतेन वारिणा ।
ज्वरे पैत्ते कवोष्णेन कफ-वातात् कफाद् अपि

75.27

1.26अव् जीमूत-चूर्णं कल्कं वा
कास-श्वास-विष-च्छर्दि-ज्वरार्ते कफ-कर्शिते ।
इक्ष्वाकुर् वमने शस्तः प्रताम्यति च मानवे

75.28

1.27ब्व् -ज्वरार्ते कफ-कर्षिते 1.27च्व् इक्ष्वाकुर् वमने श्रेष्ठः
फल-पुष्प-विहीनस्य प्रवालैस् तस्य साधितम् ।
पित्त-श्लेष्म-ज्वरे क्षीरं पित्तोद्रिक्ते प्रयोजयेत्

75.29

1.28ब्व् प्रवालैस् तेन साधितम् 1.28द्व् पित्तोद्रेके प्रयोजयेत्
हृत-मध्ये फले जीर्णे स्थितं क्षीरं यदा दधि ।
स्यात् तदा कफ-जे कासे श्वासे वम्यं च पाययेत्

75.30

1.29अव् हृत-मध्ये फले पक्वे 1.29द्व् श्वासे वम्यां च पाययेत्
मस्तुना वा फलान् मध्यं पाण्डु-कुष्ठ-विषार्दितः ।
तेन तक्रं विपक्वं वा पिबेत् स-मधु-सैन्धवम्

75.31

1.30ब्व् पाण्दुः कुष्ठी विषार्दितः
भावयित्वाज-दुग्धेन बीजं तेनैव वा पिबेत् ।
विष-गुल्मोदर-ग्रन्थि-गण्डेषु श्लीपदेषु च

75.32

सक्तुभिर् वा पिबेन् मन्थं तुम्बी-स्व-रस-भावितैः ।
कफोद्भवे ज्वरे कासे गल-रोगेष्व् अ-रोचके

75.33

गुल्मे ज्वरे प्रसक्ते च कल्कं मांस-रसैः पिबेत् ।
नरः साधु वमत्य् एवं न च दौर्बल्यम् अश्नुते

75.34

1.33अव् गुल्मे ज्वरे प्रसेके च
तुम्ब्याः फल-रसैः शुष्कैः स-पुष्पैर् अवचूर्णितम् ।
छर्दयेन् माल्यम् आघ्राय गन्ध-संपत्-सुखोचितः

75.35

1.34अव् तुम्ब्याः फल-रसैः शुष्कं 1.34द्व् गन्धं सम्यक् सुखोचितः
1.34द्व् गन्ध-संपत्-सुखोचितम्
1.34द्व् गन्धं सम्यक् सुखोचितम्
कास-गुल्मोदर-गरे वाते श्लेष्माशय-स्थिते ।
कफे च कण्ठ-वक्त्र-स्थे कफ-संचय-जेषु च

75.36

1.35द्व् कफ-संचय-जेषु तु
धामार्गवो गदेष्व् इष्टः स्थिरेषु च महत्सु च ।
जीवकर्षभकौ वीरा कपिकच्छूः शतावरी

75.37

काकोली श्रावणी मेदा महामेदा मधूलिका ।
तद्-रजोभिः पृथग् लेहा धामार्गव-रजो-ऽन्विताः

75.38

कासे हृदय-दाहे च शस्ता मधु-सिता-द्रुताः ।
ते सुखाम्भो-ऽनु-पानाः स्युः पित्तोष्म-सहिते कफे

75.39

1.38ब्व् शस्ता मधु-सिता-युताः 1.38ब्व् शस्ता मधु-सितान्विताः
धान्य-तुम्बुरु-यूषेण कल्कस् तस्य विषापहः ।
बिम्ब्याः पुनर्नवाया वा कासमर्दस्य वा रसे

75.40

1.39च्व् बिम्ब्याः पुनर्नवायाश् च
एकं धामार्गवं द्वे वा मानसे मृदितं पिबेत् ।
तच्-छृत-क्षीर-जं सर्पिः साधितं वा फलादिभिः

75.41

क्ष्वेडो ऽति-कटु-तीक्ष्णोष्णः प्रगाढेषु प्रशस्यते ।
कुष्ठ-पाण्ड्व्-आमय-प्लीह-शोफ-गुल्म-गरादिषु

75.42

1.41ब्व् प्रगाढेषु च शस्यते
पृथक् फलादि-षट्कस्य क्वाथे मांसम् अनूप-जम् ।
कोशातक्या समं सिद्धं तद्-रसं लवणं पिबेत्

75.43

1.42च्व् कोशातक्याः समं सिद्धं
फलादि-पिप्पली-तुल्यं सिद्धं क्ष्वेड-रसे ऽथ-वा ।
क्ष्वेड-क्वाथं पिबेत् सिद्धं मिश्रम् इक्षु-रसेन वा

75.44

1.43ब्व् सिद्धं क्ष्वेड-रसेन वा 1.43च्व् क्ष्वेड-क्वाथे पिबेत् सिद्धं
कौटजं सु-कुमारेषु पित्त-रक्त-कफोदये ।
ज्वरे विसर्पे हृद्-रोगे खुडे कुष्ठे च पूजितम्

75.45

1.44अव् कुटजं सु-कुमारेषु
सर्षपाणां मधूकानां तोयेन लवणस्य वा ।
पाययेत् कौटजं बीजं युक्तं कृशरयाथ-वा

75.46

सप्ताहं वार्क-दुग्धाक्तं तच्-चूर्णं पाययेत् पृथक् ।
फल-जीमूतकेक्ष्वाकु-जीवन्ती-जीवकोदकैः

75.47

1.46अव् सप्ताहं चार्क-दुघाक्तं
वमनौषध-मुख्यानाम् इति कल्प-दिग् ईरिता ।
बीजेनानेन मति-मान् अन्यान्य् अपि च कल्पयेत्

मूल पाठ: Aṣṭāṅgahṛdayasūtra · Data entry R. P. Das R. E. Emmerick · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc