भाषा

ENहिગુ
ग्रंथ पाठ

अष्टाङ्गहृदयसूत्र · अध्याय 74

74.1

21.83ब्व् यदा पक्वाशयं स्थितः
चिकित्सास्थान
वात-शोणितिनो रक्तं स्निग्धस्य बहु-शो हरेत् ।
अल्पाल्पं पालयन् वायुं यथा-दोषं यथा-बलम्

74.2

रुग्-राग-तोद-दाहेषु जलौकोभिर् विनिर्हरेत् ।
शृङ्ग-तुम्बैश् चिमिचिमा-कण्डू-रुग्-दूयनान्वितम्

74.3

प्रच्छानेन सिराभिर् वा देशाद् देशान्तरं व्रजत् ।
अङ्ग-ग्लानौ तु न स्राव्यं रूक्षे वातोत्तरे च यत्

74.4

22.3च्व् अङ्ग-म्लानौ तु न स्राव्यं 22.3द्व् रूक्षं वातोत्तरं च यत्
गम्भीरं श्वयथुं स्तम्भं कम्पं स्नायु-सिरामयान् ।
ग्लानिम् अन्यांश् च वातोत्थान् कुर्याद् वायुर् असृक्-क्षयात्

74.5

विरेच्यः स्नेहयित्वा तु स्नेह-युक्तैर् विरेचनैः ।
वातोत्तरे वात-रक्ते पुराणं पाययेद् घृतम्

74.6

श्रावणी-क्षीर-काकोली-क्षीरिणी-जीवकैः समैः ।
सिद्धं सर्षभकैः सर्पिः स-क्षीरं वात-रक्त-नुत्

74.7

द्राक्षा-मधूक-वारिभ्यां सिद्धं वा स-सितोपलम् ।
घृतं पिबेत् तथा क्षीरं गुडूची-स्व-रसे शृतम्

74.8

तैलं पयः शर्करां च पाययेद् वा सु-मूर्छितम् ।
बला-शतावरी-रास्ना-दश-मूलैः स-पीलुभिः

74.9

श्यामैरण्ड-स्थिराभिश् च वातार्ति-घ्नं शृतं पयः ।
धारोष्णं मूत्र-युक्तं वा क्षीरं दोषानुलोमनम्

74.10

पैत्ते पक्त्वा वरी-तिक्ता-पटोल-त्रि-फलामृताः ।
पिबेद् घृतं वा क्षीरं वा स्वादु-तिक्तक-साधितम्

74.11

क्षीरेणैरण्ड-तैलं च प्रयोगेण पिबेन् नरः ।
बहु-दोषो विरेकार्थं जीर्णे क्षीरौदनाशनः

74.12

कषायम् अभयानां वा पाययेद् घृत-भर्जितम् ।
क्षीरानु-पानं त्रिवृता-चूर्णं द्राक्षा-रसेन वा

74.13

निर्हरेद् वा मलं तस्य स-घृतैः क्षीर-वस्तिभिः ।
न हि वस्ति-समं किञ्-चिद् वात-रक्त-चिकित्सितम्

74.14

विशेषात् पायु-पार्श्वोरु-पर्वास्थि-जठरार्तिषु ।
मुस्ता-धात्री-हरिद्राणां पिबेत् क्वाथं कफोल्बणे

74.15

22.14च्व् मुस्त-द्राक्षा-हरिद्राणां
स-क्षौद्रं त्रि-फलाया वा गुडूचीं वा यथा तथा ।
यथार्ह-स्नेह-पीतं च वामितं मृदु रूक्षयेत्

74.16

22.15ब्व् गुडूचीं वा यथा-बलम् 22.15ब्व् गुडूचीं वा यथा-यथम्
त्रि-फला-व्योष-पत्त्रैला-त्वक्क्षीरी-चित्रकं वचाम् ।
विडङ्गं पिप्पली-मूलं रोमशां वृषकं त्वचम्

74.17

22.16द्व् रोमशं वृषकं त्वचम्
ऋद्धिं लाङ्गलिकीं चव्यं सम-भागानि पेषयेत् ।
कल्ये लिप्त्वायसीं पात्रीं मध्याह्ने भक्षयेद् इदम्

74.18

वातास्रे सर्व-दोषे ऽपि परं शूलान्विते हितम् ।
कोकिलाक्षक-निर्यूहः पीतस् तच् छाक-भोजिना

74.19

22.18द्व् पीतस् तच् छाक-भक्षिणा
कृपाभ्यास इव क्रोधं वात-रक्तं नियच्छति ।
पञ्च-मूलस्य धात्र्या वा रसैर् लेलीतकीं वसाम्

74.20

खुडं सु-रूढम् अप्य् अङ्गे ब्रह्म-चारी पिबन् जयेत् ।
इत्य् आभ्यन्तरम् उद्दिष्टं कर्म बाह्यम् अतः परम्

74.21

त्रि-फलाष्ट-पलं क्वाथ्य पाद-शेषं जलाढके ।
षो-डशैव पलान्य् अत्र प्रक्षिपेच् छुद्ध-गुग्गुलोः ॥ 20.1+1 ॥
ततस् तस्मिन् घनी-भूते कल्की-कृत्य द्वि-कार्षिकाः ।
पथ्या-विडङ्ग-कटुका गुडूची पल-संमिता ॥ 20.1+2 ॥
कर्षांशे त्रिवृता दन्ती खादेद् इष्टानु-पानतः ।
विविधम् अपि वात-रक्तं स्रुत-शुष्क-स्फुटितम् अपि हन्ति ॥ 20.1+3 ॥
व्रण-कास-कुष्ठ-गुल्म-श्वयथूदर-पाण्डु-मेहम् अर्शांसि ।
अभिभूय जरा-दोषं करोति कैशोरकं कायम् ॥ 20.1+4 ॥
आरनालाढके तैलं पाद-सर्ज-रसं शृतम् ।
प्रभूते खजितं तोये ज्वर-दाहार्ति-नुत् परम्

74.22

स-मधूच्छिष्ट-मञ्जिष्ठं स-सर्ज-रस-शारिवम् ।
पिण्ड-तैलं तद् अभ्यङ्गाद् वात-रक्त-रुजापहम्

74.23

दश-मूल-शृतं क्षीरं सद्यः शूल-निवारणम् ।
परिषेको ऽनिल-प्राये तद्-वत् कोष्णेन सर्पिषा

74.24

स्नेहैर् मधुर-सिद्धैर् वा चतुर्भिः परिषेचयेत् ।
स्तम्भाक्षेपक-शूलार्तं कोष्णैर् दाहे तु शीतलैः

74.25

तद्-वद् गव्याविक-च्छागैः क्षीरैस् तैल-विमिश्रितैः ।
निःक्वाथैर् जीवनीयानां पञ्च-मूलस्य वा लघोः

74.26

द्राक्षेक्षु-रस-मद्यानि दधि-मस्त्व्-अम्ल-काञ्जिकम् ।
सेकार्थं तण्डुल-क्षौद्र-शर्कराम्भश् च शस्यते

74.27

प्रियाः प्रियं-वदाः नार्याश् चन्दनार्द्र-कर-स्तनाः ।
स्पर्श-शीताः सुख-स्पर्शा घ्नन्ति दाहं रुजं क्लमम्

74.28

स-रागे स-रुजे दाहे रक्तं हृत्वा प्रलेपयेत् ।
प्रपौण्डरीक-मञ्जिष्ठा-दार्वी-मधुक-चन्दनैः

74.29

सितोपलैरका-सक्तु-मसूरोशीर-पद्मकैः ।
लेपो रुग्-दाह-वीसर्प-राग-शोफ-निबर्हणः

74.30

22.29अव् स-सितोपल-कासेक्षु- 22.29ब्व् -मसूरैरक-सक्तुभिः
वात-घ्नैः साधितः स्निग्धः कृशरो मुद्ग-पायसः ।
तिल-सर्षप-पिण्डैश् च शूल-घ्नम् उपनाहनम्

74.31

22.30च्व् तिल-सर्षप-पिण्डश् च
औदक-प्रसहानूप-वेसवाराः सु-संस्कृताः ।
जीवनीयौषधैः स्नेह-युक्ताः स्युर् उपनाहने

74.32

22.31च्व् जीवनीयौषध-स्नेह-
स्तम्भ-तोद-रुग्-आयाम-शोफाङ्ग-ग्रह-नाशनाः ।
जीवनीयौषधैः सिद्धा स-पयस्का वसापि वा

74.33

घृतं सहचरान् मूलं जीवन्ती छागलं पयः ।
लेपः पिष्टास् तिलास् तद्-वद् भृष्टाः पयसि निर्वृताः

74.34

क्षीर-पिष्ट-क्षुमां लेपम् एरण्डस्य फलानि वा ।
कुर्याच् छूल-निवृत्त्य्-अर्थं शताह्वां वानिले ऽधिके

74.35

22.34अव् क्षीर-पिष्टाम् उमां लेपम्
मूत्र-क्षार-सुरा-पक्वं घृतम् अभ्यञ्जने हितम् ।
सिद्धं स-मधु शुक्तं वा सेकाभ्यङ्गे कफोत्तरे

74.36

22.35अव् मुस्त-क्षार-सिता-पक्वं 22.35द्व् सेकाभ्यङ्गः कफोत्तरे
गृह-धूमो वचा कुष्ठं शताह्वा रजनी-द्वयम् ।
प्रलेपः शूल-नुद् वात-रक्ते वात-कफोत्तरे

74.37

मधु-शिग्रोर् हितं तद्-वद् बीजं धान्याम्ल-संयुतम् ।
मुहूर्त-लिप्तम् अम्लैश् च सिञ्चेद् वात-कफोत्तरे

74.38

उत्तानं लेपनाभ्यङ्ग-परिषेकावगाहनैः ।
विरेकास्थापन-स्नेह-पानैर् गम्भीरम् आचरेत्

74.39

वात-श्लेष्मोत्तरे कोष्णा लेपाद्यास् तत्र शीतलैः ।
विदाह-शोफ-रुक्-कण्डू-विवृद्धिः स्तम्भनाद् भवेत्

74.40

पित्त-रक्तोत्तरे वात-रक्ते लेपादयो हिमाः ।
उष्णैः प्लोषोष-रुग्-राग-स्वेदावदरणोद्भवः

74.41

मधुयष्ट्याः पल-शतं कषाये पाद-शेषिते ।
तैलाढकं सम-क्षीरं पचेत् कल्कैः पलोन्मितैः

74.42

स्थिरा-तामलकी-दूर्वा-पयस्याभीरु-चन्दनैः ।
लोह-हंसपदी-मांसी-द्वि-मेदा-मधुपर्णिभिः

74.43

काकोली-क्षीर-काकोली-शतपुष्पर्द्धि-पद्मकैः ।
जीवकर्षभ-जीवन्ती-त्वक्-पत्त्र-नख-वालकैः

74.44

प्रपौण्डरीक-मञ्जिष्ठा-शारिवैन्द्री-वितुन्नकैः ।
चतुष्-प्रयोगं वातासृक्-पित्त-दाह-ज्वरार्ति-नुत्

74.45

22.44च्व् चतुष्-प्रयोगात् तद् धन्ति 22.44द्व् तैलं मारुत-शोणितम्
सोपद्रवं साङ्ग-शूलं सर्व-गात्रानुगं तथा ।
वातासृक्-पित्त-दाहार्ति-ज्वर-घ्नं बल-वर्ण-कृत् ॥ 44+1 ॥
बला-कषाय-कल्काभ्यां तैलं क्षीर-समं पचेत् ।
सहस्र-शत-पाकं तद् वातासृग्-वात-रोग-नुत्

74.46

रसायनं मुख्य-तमम् इन्द्रियाणां प्रसादनम् ।
जीवनं बृंहणं स्वर्यं शुक्रासृग्-दोष-नाशनम्

74.47

कुपिते मार्ग-संरोधान् मेदसो वा कफस्य वा ।
अति-वृद्ध्यानिले शस्तं नादौ स्नेहन-बृंहणम्

74.48

कृत्वा तत्राढ्य-वातोक्तं वात-शोणितिकं ततः ।
भेषजं स्नेहनं कुर्याद् यच् च रक्त-प्रसादनम्

74.49

प्राणादि-कोपे युग-पद् यथोद्दिष्टं यथामयम् ।
यथासन्नं च भैषज्यं विकल्प्यं स्याद् यथा-बलम्

74.50

नीते निर्-आम-तां सामे स्वेद-लङ्घन-पाचनैः ।
रूक्षैश् चालेप-सेकाद्यैः कुर्यात् केवल-वात-नुत्

74.51

शोषाक्षेपण-संकोच-स्तम्भ-स्वपन-कम्पनम् ।
हनु-स्रंसो ऽर्दितं खाञ्ज्यं पाङ्गुल्यं खुड-वात-ता

74.52

संधि-च्युतिः पक्ष-वधो मेदो-मज्जास्थि-गा गदाः ।
एते स्थानस्य गाम्भीर्यात् सिध्येयुर् यत्नतो नवाः

74.53

तस्माज् जयेन् नवान् एतान् बलिनो निर्-उपद्रवान् ।
वायौ पित्तावृते शीताम् उष्णां च बहु-शः क्रियाम्

74.54

व्यत्यासाद् योजयेत् सर्पिर् जीवनीयं च पाययेत् ।
धन्व-मांसं यवाः शालिर् विरेकः क्षीर-वान् मृदुः

74.55

स-क्षीरा वस्तयः क्षीरं पञ्च-मूल-बला-शृतम् ।
काले ऽनुवासनं तैलैर् मधुरौषध-साधितैः

74.56

22.55च्व् काले ऽनुवासनं तैलं 22.55द्व् मधुरौषध-साधितम्
यष्टीमधु-बला-तैल-घृत-क्षीरैश् च सेचनम् ।
पञ्च-मूल-कषायेण वारिणा शीतलेन वा

74.57

22.56द्व् वारिणा शीतलेन च
कफावृते यवान्नानि जाङ्गला मृग-पक्षिणः ।
स्वेदास् तीक्ष्णा निरूहाश् च वमनं स-विरेचनम्

74.58

पुराण-सर्पिस् तैलं च तिल-सर्षप-जं हितम् ।
संसृष्टे कफ-पित्ताभ्यां पित्तम् आदौ विनिर्जयेत्

74.59

कारयेद् रक्त-संसृष्टे वात-शोणितिकीं क्रियाम् ।
स्वेदाभ्यङ्ग-रसाः क्षीरं स्नेहो मांसावृते हितम्

74.60

22.59द्व् स्नेहो मांसावृते हितः
प्रमेह-मेदो-वात-घ्नम् आढ्य-वाते भिषग्-जितम् ।
महा-स्नेहो ऽस्थि-मज्ज-स्थे पूर्वोक्तं रेतसावृते

74.61

अन्नावृते पाचनीयं वमनं दीपनं लघु ।
मूत्रावृते मूत्रलानि स्वेदाश् चोत्तर-वस्तयः

74.62

22.61द्व् स्वेदा उत्तर-वस्तयः
एरण्ड-तैलं वर्चः-स्थे वस्ति-स्नेहाश् च भेदिनः ।
कफ-पित्ता-विरुद्धं यद् यच् च वातानुलोमनम्

74.63

सर्व-स्थानावृते ऽप्य् आशु तत् कार्यं मातरिश्वनि ।
अन्-अभिष्यन्दि च स्निग्धं स्रोतसां शुद्धि-कारणम्

74.64

22.63अव् सर्व-स्थानावृते चाशु 22.63अव् सर्व-स्थानावृते त्व् आशु
यापना वस्तयः प्रायो मधुराः सानुवासनाः ।
प्रसमीक्ष्य बलाधिक्यं मृदु कार्यं विरेचनम्

74.65

22.64द्व् मृदु काय-विरेचनम्
रसायनानां सर्वेषाम् उपयोगः प्रशस्यते ।
शिलाह्वस्य विशेषेण पयसा शुद्ध-गुग्गुलोः

74.66

लेहो वा भार्गवस् तद्-वद् एका-दश-सिताशितः ।
अपाने त्व् आवृते सर्वं दीपनं ग्राहि भेषजम्

74.67

22.66ब्व् एका-दश-सितासितः
वातानुलोमनं कार्यं मूत्राशय-विशोधनम् ।
इति संक्षेपतः प्रोक्तम् आवृतानां चिकित्सितम्

74.68

प्राणादीनां भिषक् कुर्याद् वितर्क्य स्वयम् एव तत् ।
उदानं योजयेद् ऊर्ध्वम् अपानं चानुलोमयेत्

74.69

समानं शमयेद् विद्वांस् त्रि-धा व्यानं तु योजयेत् ।
प्राणो रक्ष्यश् चतुर्भ्यो ऽपि तत्-स्थितौ देह-संस्थितिः

74.70

22.69ब्व् त्रि-धा व्यानं च योजयेत्
स्वं स्वं स्थानं नयेद् एवं वृतान् वातान् वि-मार्ग-गान् ।
सर्वं चावरणम् पित्त-रक्त-संसर्ग-वर्जितम्

74.71

रसायन-विधानेन लशुनो हन्ति शीलितः ।
पित्तावृते पित्त-हरं मरुतश् चानुलोमनम्

74.72

रक्तावृते ऽपि तद्-वच् च खुडोक्तं यच् च भेषजम् ।
रक्त-पित्तानिल-हरं विविधं च रसायनम्

74.73

यथा-निदानं निर्दिष्टम् इति सम्यक् चिकित्सितम् ।
आयुर्-वेद-फलं स्थानम् एतत् सद्यो ऽर्ति-नाशनात्

74.74

22.73द्व् एतत् सद्यो ऽर्ति-नाशनम्
चिकित्सितं हितं पथ्यं प्रायश्चित्तं भिषग्-जितम् ।
भेषजं शमनं शस्तं पर्यायैः स्मृतम् औषधम्

मूल पाठ: Aṣṭāṅgahṛdayasūtra · Data entry R. P. Das R. E. Emmerick · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc