अष्टाङ्गहृदयसूत्र · अध्याय 67
आनाहादाव् उदावर्त-बलास-घ्न्यो यथा-यथम् ॥ 129ऊअब् ॥
चिकित्सास्थान
दोषाति-मात्रोपचयात् स्रोतो-मार्ग-निरोधनात् ।
संभवत्य् उदरं तस्मान् नित्यम् एनं विरेचयेत्
15.1ब्व् स्रोतो-मार्ग-विघातनात्
पाययेत् तैलम् ऐरण्डं स-मूत्रं स-पयो ऽपि वा ।
मासं द्वौ वाथ-वा गव्यं मूत्रं माहिषम् एव वा
15.2च्व् मासं द्वौ वा तथा गव्यं
पिबेद् गो-क्षीर-भुक् स्याद् वा करभी-क्षीर-वर्तनः ।
दाहानाहाति-तृण्-मूर्छा-परीतस् तु विशेषतः
रूक्षाणां बहु-वातानां दोष-संशुद्धि-काङ्क्षिणाम् ।
स्नेहनीयानि सर्पींषि जठर-घ्नानि योजयेत्
षट्-पलं दश-मूलाम्बु-मस्तु-द्व्य्-आढक-साधितम् ।
नागर-त्रि-पलं प्रस्थं घृत-तैलात् तथाढकम्
15.5च्व् नागरं त्रि-पलं प्रस्थं
मस्तुनः साधयित्वैतत् पिबेत् सर्वोदरापहम् ।
कफ-मारुत-संभूते गुल्मे च परमं हितम्
चतुर्-गुणे जले मूत्रे द्वि-गुणे चित्रकात् पले ।
कल्के सिद्धं घृत-प्रस्थं स-क्षारं जठरी पिबेत्
यव-कोल-कुलत्थानां पञ्च-मूलस्य चाम्भसा ।
सुरा-सौवीरकाभ्यां च सिद्धं वा पाययेद् घृतम्
एभिः स्निग्धाय संजाते बले शान्ते च मारुते ।
स्रस्ते दोषाशये दद्यात् कल्प-दृष्टं विरेचनम्
पटोल-मूलं त्रि-फलां निशां वेल्लं च कार्षिकम् ।
कम्पिल्ल-नीलिनी-कुम्भ-भागान् द्वि-त्रि-चतुर्-गुणान्
पिबेत् संचूर्ण्य मूत्रेण पेया-पूर्वं ततो रसैः ।
विरिक्तो जाङ्गलैर् अद्यात् ततः षड्-दिवसं पयः
शृतं पिबेद् व्योष-युतं पीतम् एवं पुनः पुनः ।
हन्ति सर्वोदराण्य् एतच् चूर्णं जातोदकान्य् अपि
गवाक्षीं शङ्खिनीं दन्तीं तिल्वकस्य त्वचं वचाम् ।
पिबेत् कर्कन्धु-मृद्वीका-कोलाम्भो-मूत्र-सीधुभिः
यवानी हपुषा धान्यं शतपुष्पोपकुञ्चिका ।
कारवी पिप्पली-मूलम् अजगन्धा शठी वचा
चित्रको ऽजाजिकं व्योषं स्वर्णक्षीरी फल-त्रयम् ।
द्वौ क्षारौ पौष्करं मूलं कुष्ठं लवण-पञ्चकम्
विडङ्गं च समांशानि दन्त्या भाग-त्रयं तथा ।
त्रिवृद्-विशाले द्वि-गुणे सातला च चतुर्-गुणा
एष नारायणो नाम चूर्णो रोग-गणापहः ।
नैनं प्राप्याभिवर्धन्ते रोगा विष्णुम् इवासुराः
15.17च्व् नैनं प्राप्यातिवर्तन्ते
तक्रेणोदरिभिः पेयो गुल्मिभिर् बदराम्बुना ।
आनाह-वाते सुरया वात-रोगे प्रसन्नया
दधि-मण्डेन विट्-सङ्गे दाडिमाम्भोभिर् अर्शसैः ।
परिकर्ते स-वृक्षाम्लैर् उष्णाम्बुभिर् अ-जीर्णके
भगन्दरे पाण्डु-रोगे कासे श्वासे गल-ग्रहे ।
हृद्-रोगे ग्रहणी-दोषे कुष्ठे मन्दे ऽनले ज्वरे
दंष्ट्रा-विषे मूल-विषे स-गरे कृत्रिमे दोषे ।
यथार्हं स्निग्ध-कोष्ठेन पेयम् एतद् विरेचनम्
हपुषां काञ्चनक्षीरीं त्रि-फलां नीलिनी-फलम् ।
त्रायन्तीं रोहिणीं तिक्तां सातलां त्रिवृतां वचाम्
सैन्धवं काल-लवणं पिप्पलीं चेति चूर्णयेत् ।
दाडिम-त्रि-फला-मांस-रस-मूत्र-सुखोदकैः
पेयो ऽयं सर्व-गुल्मेषु प्लीह्नि सर्वोदरेषु च ।
श्वित्रे कुष्ठेष्व् अ-जरके सदने विषमे ऽनले
शोफार्शः-पाण्डु-रोगेषु कामलायां हलीमके ।
वात-पित्त-कफांश् चाशु विरेकेण प्रसाधयेत्
नीलिनीं निचुलं व्योषं क्षारौ लवण-पञ्चकम् ।
चित्रकं च पिबेच् चूर्णं सर्पिषोदर-गुल्म-नुत्
पूर्व-वच् च पिबेद् दुग्धं क्षामः शुद्धो ऽन्तरान्तरा ।
कारभं गव्यम् आजं वा दद्याद् आत्ययिके गदे
स्नेहान् एव विरेकार्थे दुर्-बलेभ्यो विशेषतः ।
हरीतकी-सूक्ष्म-रजः-प्रस्थ-युक्तं घृताढकम्
15.28अव् स्नेहम् एव विरेकार्थे
अग्नौ विलाप्य मथितं खजेन यव-पल्लके ।
निधापयेत् ततो मासाद् उद्धृतं गालितं पचेत्
हरीतकीनां क्वाथेन दध्ना चाम्लेन संयुतम् ।
उदरं गरं अष्ठीलाम् आनाहं गुल्म-विद्रधी
हन्त्य् एतत् कुष्ठम् उन्मादम् अपस्मारं च पानतः ।
स्नुक्-क्षीर-युक्ताद् गो-क्षीराच् छृत-शीतात् खजाहतात्
यज् जातम् आज्यं स्नुक्-क्षीर-सिद्धं तच् च तथा-गुणम् ।
क्षीर-द्रोणं सुधा-क्षीर-प्रस्थार्ध-सहितं दधि
15.32द्व् -प्रस्थार्धेन युतं दधि
जातं मथित्वा तत्-सर्पिस् त्रिवृत्-सिद्धं च तद्-गुणम् ।
तथा सिद्धं घृत-प्रस्थं पयस्य् अष्ट-गुणे पिबेत्
15.33द्व् पयस्य् अष्ट-गुणे पचेत्
स्नुक्-क्षीर-पल-कल्केन त्रिवृता-षट्-पलेन च ।
एषां चानु पिबेत् पेयां रसं स्वादु पयो ऽथ-वा
घृते जीर्णे विरिक्तश् च कोष्णं नागर-साधितम् ।
पिबेद् अम्बु ततः पेयां ततो यूषं कुलत्थ-जम्
पिबेद् रूक्षस् त्र्य्-अहं त्व् एवं भूयो वा प्रतिभोजितः ।
पुनः पुनः पिबेत् सर्पिर् आनुपूर्व्यानयैव च
घृतान्य् एतानि सिद्धानि विदध्यात् कुशलो भिषक् ।
गुल्मानां गर-दोषाणाम् उदराणां च शान्तये
पीलु-कल्कोपसिद्धं वा घृतम् आनाह-भेदनम् ।
तैल्वकं नीलिनी-सर्पिः स्नेहं वा मिश्रकं पिबेत्
हृत-दोषः क्रमाद् अश्नन् लघु-शाल्य्-ओदन-प्रति ।
उपयुञ्जीत जठरी दोष-शोष-निवृत्तये
हरीतकी-सहस्रं वा गो-मूत्रेण पयो-ऽनुपः ।
सहस्रं पिप्पलीनां वा स्नुक्-क्षीरेण सु-भावितम्
पिप्पली-वर्धमानं वा क्षीराशी वा शिला-जतु ।
तद्-वद् वा गुग्गुलुं क्षीरं तुल्यार्द्रक-रसं तथा
15.41अव् पिप्पलीं वर्धमानं वा
चित्रकामरदारुभ्यां कल्कं क्षीरेण वा पिबेत् ।
मासं युक्तस् तथा हस्ति-पिप्पली-विश्व-भेषजम्
विडङ्गं चित्रको दन्ती चव्यं व्योषं च तैः पयः ।
कल्कैः कोल-समैः पीत्वा प्रवृद्धम् उदरं जयेत्
भोज्यं भुञ्जीत वा मासं स्नुही-क्षीर-घृतान्वितम् ।
उत्कारिकां वा स्नुक्-क्षीर-पीत-पथ्या-कणा-कृताम्
पार्श्व-शूलम् उपस्तम्भं हृद्-ग्रहं च समीरणः ।
यदि कुर्यात् ततस् तैलं बिल्व-क्षारान्वितम् पिबेत्
पक्वं वा टुण्टुक-बला-पलाश-तिल-नाल-जैः ।
क्षारैः कदल्य्-अपामार्ग-तर्कारी-जैः प्र्ठक्-कृतैः
कफे वातेन पित्ते वा ताभ्यां वाप्य् आवृते ऽनिले ।
बलिनः स्वौषध-युतं तैलम् एरण्ड-जं हितम्
देवदारु-पलाशार्क-हस्ति-पिप्पलि-शिग्रुकैः ।
साश्वकर्णैः स-गो-मूत्रैः प्रदिह्याद् उदरं बहिः
वृश्चिकाली-वचा-शुण्ठी-पञ्च-मूल-पुनर्नवात् ।
वर्षाभू-धान्य-कुष्ठाच् च क्वाथैर् मूत्रैश् च सेचयेत्
विरिक्त-म्लानम् उदरं स्वेदितं शाल्वणादिभिः ।
वाससा वेष्टयेद् एवं वायुर् नाध्मापयेत् पुनः
15.50ब्व् स्वेदितं शाल्वलादिभिः
सु-विरिक्तस्य यस्य स्याद् आध्मानं पुनर् एव तम् ।
सु-स्निग्धैर् अम्ल-लवणैर् निरूहैः समुपाचरेत्
सोपस्तम्भो ऽपि वा वायुर् आध्मापयति यं नरम् ।
तीक्ष्णाः स-क्षार-गो-मूत्राः शस्यन्ते तस्य वस्तयः
इति सामान्यतः प्रोक्ताः सिद्धा जठरिणां क्रियाः ।
वातोदरे ऽथ बलिनं विदार्य्-आदि-शृतं घृतम्
15.53अव् इति सामान्यतः प्रोक्ता 15.53ब्व् सिद्धा जठरिणां क्रिया
पाययेत ततः स्निग्धं स्वेदिताङ्गं विरेचयेत् ।
बहु-शस् तैल्वकेनैनं सर्पिषा मिश्रकेण वा
कृते संसर्जने क्षीरं बलार्थम् अवचारयेत् ।
प्राग् उत्क्लेशान् निवर्त्यं च बले लब्धे क्रमात् पयः
15.55च्व् प्राग् उत्क्लेशान् निवर्तेत
यूषै रसैर् वा मन्दाम्ल-लवणैर् एधितानलम् ।
सोदावर्तं पुनः स्निग्ध-स्विन्नम् आस्थापयेत् ततः
तीक्ष्णाधो-भाग-युक्तेन दश-मूलिक-वस्तिना ।
तिलोरुबूक-तैलेन वात-घ्नाम्ल-शृतेन च
15.57ब्व् दश-मूलेन वस्तिना
स्फुरणाक्षेप-संध्य्-अस्थि-पार्श्व-पृष्ठ-त्रिकार्तिषु ।
रूक्षं बद्ध-शकृद्-वातं दीप्ताग्निम् अनुवासयेत्
अ-विरेच्यस्य शमना वस्ति-क्षीर-घृतादयः ।
बलिनं स्वादु-सिद्धेन पैत्ते संस्नेह्य सर्पिषा
श्यामा-त्रिभण्डी-त्रि-फला-विपक्वेन विरेचयेत् ।
सिता-मधु-घृताढ्येन निरूहो ऽस्य ततो हितः
न्यग्रोधादि-कषायेण स्नेह-वस्तिश् च तच्-छृतः ।
दुर्-बलं त्व् अनुवास्यादौ शोधयेत् क्षीर-वस्तिभिः
जाते चाग्नि-बले स्निग्धं भूयो भूयो विरेचयेत् ।
क्षीरेण स-त्रिवृत्-कल्केनोरुबूक-शृतेन वा
15.62अव् जाते त्व् अग्नि-बले स्निग्धं 15.62द्व् ंनोरुबूक-शृतेन तम्
सातला-त्रायमाणाभ्यां शृतेनारग्वधेन वा ।
स-कफे वा स-मूत्रेण स-तिक्ताज्येन सानिले
15.63अव् सप्तला-त्रायमाणाभ्यां
पयसान्य-तमेनैषां विदार्य्-आदि-शृतेन वा ।
भुञ्जीत जठरं चास्य पायसेनोपनाहयेत्
पुनः क्षीरं पुनर् वस्तिं पुनर् एव विरेचनम् ।
क्रमेण ध्रुवम् आतिष्ठन् यत्तः पित्तोदरं जयेत्
15.65द्व् यतः पित्तोदरं जयेत्
वत्सकादि-विपक्वेन कफे संस्नेह्य सर्पिषा ।
स्विन्नं स्नुक्-क्षीर-सिद्धेन बल-वन्तं विरेचितम्
संसर्जयेत् कटु-क्षार-युक्तैर् अन्नैः कफापहैः ।
मूत्र-त्र्य्-ऊषण-तैलाढ्यो निरूहो ऽस्य ततो हितः
मुष्ककादि-कषायेण स्नेह-वस्तिश् च तच्-छृतः ।
भोजनं व्योष-दुग्धेन कौलत्थेन रसेन वा
स्तैमित्या-रुचि-हृल्-लासे मन्दे ऽग्नौ मद्य-पाय च ।
दद्याद् अरिष्टान् क्षारांश् च कफ-स्त्यान-स्थिरोदरे
15.69अव् स्तैमित्या-रुचि-हृल्-लासैर् 15.69द्व् कफे स्त्याने स्थिरोदरे
हिङ्गूपकुल्ये त्रि-फलां देवदारु निशा-द्वयम् ।
भल्लातकं शिग्रु-फलं कटुकां तिक्तकं वचां
शुण्ठीं माद्रीं घनं कुष्ठं सरलं पटु-पञ्चकम् ।
दाहयेज् जर्जरी-कृत्य दधि-स्नेह-चतुष्क-वत्
अन्तर्-धूमं ततः क्षाराद् बिडाल-पदकं पिबेत् ।
मदिरा-दधि-मण्डोष्ण-जलारिष्ट-सुरासवैः
15.72द्व् -जलारिष्ट-सुधासवैः
उदरं गुल्मम् अष्ठीलां तूण्यौ शोफं विषूचिकाम् ।
प्लीह-हृद्-रोग-गुद-जान् उदावर्तं च नाशयेत्
जयेद् अरिष्ट-गो-मूत्र-चूर्णायस्-कृति-पानतः ।
स-क्षार-तैल-पानैश् च दुर्-बलस्य कफोदरम्
उपनाह्यं स-सिद्धार्थ-किण्वैर् बीजैश् च मूलकात् ।
कल्कितैर् उदरं स्वेदम् अभीक्ष्णं चात्र योजयेत्
15.75च्व् कल्कितैर् उदर-स्वेदम्
संनिपातोदरे कुर्यान् नाति-क्षीण-बलानले ।
दोषोद्रेकानुरोधेन प्रत्याख्याय क्रियाम् इमाम्
दन्ती-द्रवन्ती-फल-जं तैलं पाने च शस्यते ।
क्रिया-निवृत्ते जठरे त्रि-दोषे तु विशेषतः
दद्याद् आपृच्छ्य तज्-ज्ञातीन् पातुं मद्येन कल्कितम् ।
मूलं काकादनी-गुञ्जा-करवीरक-संभवम्
पान-भोजन-संयुक्तं दद्याद् वा स्थावरं विषम् ।
यस्मिन् वा कुपितः सर्पो विमुञ्चति फले विषम्
तेनास्य दोष-संघातः स्थिरो लीनो वि-मार्ग-गः ।
बहिः प्रवर्तते भिन्नो विषेणाशु प्रमाथिना
तथा व्रजत्य् अ-गद-तां शरीरान्तरम् एव वा ।
हृत-दोषं तु शीताम्बु-स्नातं तं पाययेत् पयः
पेयां वा त्रिवृतः शाकं माण्डूक्या वास्तुकस्य वा ।
काल-शाकं यवाख्यं वा खादेत् स्व-रस-साधितम्
निर्-अम्ल-लवण-स्नेहं स्विन्ना-स्विन्नम् अन्-अन्न-भुक् ।
मासम् एकं ततश् चैव तृषितः स्व-रसं पिबेत्
15.83च्व् मासम् एकं ततश् चैवं
एवं विनिर्हृते शाकैर् दोषे मासात् परं ततः ।
दुर्-बलाय प्रयुञ्जीत प्राण-भृत् कारभं पयः
प्लीहोदरे यथा-दोषं स्निग्धस्य स्वेदितस्य च ।
सिरां भुक्त-वतो दध्ना वाम-बाहौ विमोक्षयेत्
लब्धे बले च भूयो ऽपि स्नेह-पीतं विशोधितम् ।
समुद्र-शुक्ति-जं क्षारं पयसा पाययेत् तथा
अम्ल-स्रुतं विड-कणा-चूर्णाढ्यं नक्तमाल-जम् ।
शौभाञ्जनस्य वा क्वाथं सैन्धवाग्नि-कणान्वितम्
हिङ्ग्व्-आदि-चूर्णं क्षाराज्यं युञ्जीत च यथा-बलम् ।
पिप्पली-नागरं दन्ती-समांशं द्वि-गुणाभयम्
15.88द्व् -समांशं द्वि-गुणाभया
विडार्धांश-युतं चूर्णम् इदम् उष्णाम्बुना पिबेत् ।
विडङ्गं चित्रकं सक्तून् स-घृतान् सैन्धवं वचाम्
दग्ध्वा कपाले पयसा गुल्म-प्लीहापहं पिबेत् ।
तैलोन्मिश्रैर् बदरक-पत्त्रैः संमर्दितैः समुपनद्धः
मुसलेन पीडितो ऽनु च याति प्लीहा पयो-भुजो नाशम् ।
रोहीतक-लताः कॢप्ताः खण्ड-शः साभया जले
मूत्रे वासुनुयात् तच् च सप्त-रात्र-स्थितं पिबेत् ।
कामला-प्लीह-गुल्मार्शः-कृमि-मेहोदरापहम्
15.92अव् मूत्रे वासुनुयात् तत् तु
रोहीतक-त्वचः कृत्वा पलानां पञ्च-विंशतिम् ।
कोल-द्वि-प्रस्थ-संयुक्तं कषायम् उपकल्पयेत्
पालिकैः पञ्च-कोलैस् तु तैः समस्तैश् च तुल्यया ।
रोहीतक-त्वचा पिष्टैर् घृत-प्रस्थं विपाचयेत्
प्लीहाभिवृद्धिं शमयत्य् एतद् आशु प्रयोजितम् ।
कदल्यास् तिल-नालानां क्षारेण क्षुरकस्य च
15.95अव् प्लीहाभिवृद्धिं शमयेद् 15.95अच् प्लीहाति-वृद्धिं शमयत्य् 15.95द्व्
क्षारेणेक्षुरकस्य च
तैलं पक्वं जयेत् पानात् प्लीहानं कफ-वात-जम् ।
अ-शान्तौ गुल्म-विधिना योजयेद् अग्नि-कर्म च
अ-प्राप्त-पिच्छा-सलिले प्लीह्नि वात-कफोल्बणे ।
पैत्तिके जीवनीयानि सर्पींषि क्षीर-वस्तयः
रक्तावसेकः संशुद्धिः क्षीर-पानं च शस्यते ।
यकृति प्लीह-वत् कर्म दक्षिणे तु भुजे सिराम्
स्विन्नाय बद्धोदरिणे मूत्र-तीक्ष्णौषधान्वितम् ।
स-तैल-लवणं दद्यान् निरूहं सानुवासनम्
परिस्रंसीनि चान्नानि तीक्ष्णं चास्मै विरेचनम् ।
उदावर्त-हरं कर्म कार्यं यच् चानिलापहम्
छिद्रोदरम् ऋते स्वेदाच् छ्लेष्मोदर-वद् आचरेत् ।
जातं जातं जलं स्राव्यम् एवं तद् यापयेद् भिषक्
अपां दोष-हराण्य् आदौ योजयेद् उदकोदरे ।
मूत्र-युक्तानि तीक्ष्णानि विविध-क्षार-वन्ति च
दीपनीयैः कफ-घ्नैश् च तम् आहारैर् उपाचरेत् ।
क्षारं छाग-करीषाणां स्रुतं मूत्रे ऽग्निना पचेत्
घनी-भवति तस्मिंश् च कर्षांशं चूर्णितं क्षिपेत् ।
पिप्पली पिप्पली-मूलं शुण्ठी लवण-पञ्चकम्
निकुम्भ-कुम्भ-त्रि-फला-स्वर्णक्षीरी-विषाणिकाः ।
स्वर्जिका-क्षार-षड्ग्रन्था-सातला-यव-शूक-जम्
कोलाभा गुटिकाः कृत्वा ततः सौवीरकाप्लुताः ।
पिबेद् अ-जरके शोफे प्रवृद्धे चोदकोदरे
15.106द्व् प्रवृद्धे च दकोदरे
इत्य् औषधैर् अ-प्रशमे त्रिषु बद्धोदरादिषु ।
प्रयुञ्जीत भिषक् शस्त्रम् आर्त-बन्धु-नृपार्थितः
स्निग्ध-स्विन्न-तनोर् नाभेर् अधो बद्ध-क्षतान्त्रयोः ।
पाटयेद् उदरं मुक्त्वा वामतश् चतुर्-अङ्गुलात्
चतुर्-अङ्गुल-मानं तु निष्कास्यान्त्राणि तेन च ।
निरीक्ष्यापनयेद् वाल-मल-लेपोपलादिकम्
छिद्रे तु शल्यम् उद्धृत्य विशोध्यान्त्र-परिस्रवम् ।
मर्कोटैर् दंशयेच् छिद्रं तेषु लग्नेषु चाहरेत्
15.110ब्व् विशोध्यान्त्रं परिस्रवम्
कायं मूर्ध्नो ऽनु चान्त्राणि यथा-स्थानं निवेशयेत् ।
अक्तानि मधु-सर्पिर्भ्याम् अथ सीव्येद् बहिर् व्रणम्
15.111ब्व् यथा-स्थानं विवेशयेत्
ततः कृष्ण-मृदालिप्य बध्नीयाद् यष्टि-मिश्रया ।
निवात-स्थः पयो-वृत्तिः स्नेह-द्रोण्यां वसेत् ततः
स-जले जठरे तैलैर् अभ्यक्तस्यानिलापहैः ।
स्विन्नस्योष्णाम्बुना-कक्षम् उदरे पट्ट-वेष्टिते
15.113द्व् उदरे परिवेष्टिते
बद्ध-च्छिद्रोदित-स्थाने विध्येद् अङ्गुल-मात्रकम् ।
निधाय तस्मिन् नाडीं च स्रावयेद् अर्धम् अम्भसः
अथास्य नाडीम् आकृष्य तैलेन लवणेन च ।
व्रणम् अभ्यज्य बद्ध्वा च वेष्टयेद् वाससोदरम्
तृतीये ऽह्नि चतुर्थे वा यावद् आ-षो-डशं दिनम् ।
तस्य विश्रम्य विश्रम्य स्रावयेद् अल्प-शो जलम्
15.116ब्व् यावद् वा-दिन-षो-डश
विवेष्टयेद् गाढ-तरं जठरं वाससा श्लथम् ।
निःस्रुते लङ्घितः पेयाम् अ-स्नेह-लवणां पिबेत्
15.117ब्व् जठरं च श्लथा-श्लथम्
स्यात् क्षीर-वृत्तिः षण्-मासांश् त्रीन् पेयां पयसा पिबेत् ।
त्रींश् चान्यान् पयसैवाद्यात् फलाम्लेन रसेन वा
अल्प-शो ऽ-स्नेह-लवणं जीर्णं श्यामाक-कोद्रवम् ।
प्रयतो वत्सरेणैवं विजयेत जलोदरम्
वर्ज्येषु यन्त्रितो दिष्टे नात्य्-अ-दिष्टे जितेन्द्रियः ।
सर्वम् एवोदरं प्रायो दोष-संघात-जं यतः
अतो वातादि-शमनी क्रिया सर्व-त्र शस्यते ।
वह्निर् मन्द-त्वम् आयाति दोषैः कुक्षौ प्रपूरिते
15.121ब्व् क्रिया सर्वा प्रशस्यते
तस्माद् भोज्यानि भोज्यानि दीपनानि लघूनि च ।
स-पञ्च-मूलान्य् अल्पाम्ल-पटु-स्नेह-कटूनि च
भावितानां गवां मूत्रे षष्टिकानां च तण्डुलैः ।
यवागूं पयसा सिद्धां प्र-कामं भोजयेन् नरम्
पिबेद् इक्षु-रसं चानु जठराणां निवृत्तये ।
स्वं स्वं स्थानं व्रजन्त्य् एषां वात-पित्त-कफास् तथा
अत्य्-अर्थोष्णाम्ल-लवणं रूक्षं ग्राहि हिमं गुरु ।
गुडं तैल-कृतं शाकं वारि पानावगाहयोः
15.125अव् अत्य्-अर्थोष्णाम्बु-लवणं
आयासाध्व-दिवा-स्वप्न-यानानि च परित्यजेत् ।
नात्य्-अच्छ-सान्द्र-मधुरं तक्रं पाने प्रशस्यते
स-कणा-लवणं वाते पित्ते सोषण-शर्करम् ।
यवानी-सैन्धवाजाजी-मधु-व्योषैः कफोदरे
त्र्य्-ऊषण-क्षार-लवणैः संयुतं निचयोदरे ।
मधु-तैल-वचा-शुण्ठी-शताह्वा-कुष्ठ-सैन्धवैः
15.128च्व् मधु-तैल-वरा-शुण्ठी- 15.128च्व् मधु-तैल-वसा-शुण्ठी-
प्लीह्नि बद्धे तु हपुषा-यवानी-पट्व्-अजाजिभिः ।
स-कृष्णा-माक्षिकं छिद्रे व्योष-वत् सलिलोदरे
गौरवा-रोचकानाह-मन्द-वह्न्य्-अतिसारिणाम् ।
तक्रं वात-कफार्तानाम् अमृत-त्वाय कल्पते
प्रयोगाणां च सर्वेषाम् अनु क्षीरं प्रयोजयेत् ।
स्थैर्य-कृत् सर्व-धातूनां बल्यं दोषानुबन्ध-हृत्
मूल पाठ: Aṣṭāṅgahṛdayasūtra · Data entry R. P. Das R. E. Emmerick · GRETIL (Göttingen) · CC BY-NC-SA 4.0