अष्टाङ्गहृदयसूत्र · अध्याय 66
मूलं बिल्व-कपित्थयोः अरलुकस्याग्नेर् बृहत्योर् द्वयोः ॥ 51+1अ ॥
श्यामा-पूति-करञ्ज-शिग्रुक-तरोर् विश्वौषधारुष्करम् ॥ 51+1ब् ॥
कृष्णा-ग्रन्थिक-वेल्ल-पञ्च-लवण-क्षाराजमोदान्वितं ॥ 51+1च् ॥
पीतं काञ्जिक-तोय-...-मथितैश् चूर्णी-कृतं वर्ध्म-जित् ॥ 51+1द् ॥
अजाजी-कुष्ठ-गोमेद-हपुषा-बदराणि च ।
आरनालेन लेपः स्याद् वर्ध्म-जित् परम् औषधम् ॥ 51+2 ॥
अवि-क्षीरेण गोधूम-चूर्णं कन्दुरुकस्य च ।
प्रलेपनं सुखोष्णं स्याद् वर्ध्म-जित् परम् औषधम् ॥ 51+3 ॥
मृत-मात्रे तु वै काके विशस्तेन प्रलेपयेत् ।
मुहूर्तं वर्ध्म मेधावी तत्-क्षणाद् अ-रुजो भवेत् ॥ 51+4 ॥
चिकित्सास्थान
गुल्मं बद्ध-शकृद्-वातं वातिकं तीव्र-वेदनम् ।
रूक्ष-शीतोद्भवं तैलैः साधयेद् वात-रोगिकैः
पानान्नान्वासनाभ्यङ्गैः स्निग्धस्य स्वेदम् आचरेत् ।
आनाह-वेदना-स्तम्भ-विबन्धेषु विशेषतः
स्रोतसां मार्दवं कृत्वा जित्वा मारुतम् उल्बणम् ।
भित्त्वा विबन्धं स्निग्धस्य स्वेदो गुल्मम् अपोहति
स्नेह-पानं हितं गुल्मे विशेषेणोर्ध्व-नाभि-जे ।
पक्वाशय-गते वस्तिर् उभयं जठराश्रये
दीप्ते ऽग्नौ वातिके गुल्मे विबन्धे ऽनिल-वर्चसोः ।
बृंहणान्य् अन्न-पानानि स्निग्धोष्णानि प्रदापयेत्
पुनः पुनः स्नेह-पानं निरूहाः सानुवासनाः ।
प्रयोज्या वात-जे गुल्मे कफ-पित्तानुरक्षिणः
14.6द्व् कफ-पित्तानुरक्षिणा
वस्ति-कर्म परं विद्याद् गुल्म-घ्नं तद् धि मारुतम् ।
स्व-स्थाने प्रथमं जित्वा सद्यो गुल्मम् अपोहति
तस्माद् अभीक्ष्ण-शो गुल्मा निरूहैः सानुवासनैः ।
प्रयुज्यमानैः शाम्यन्ति वात-पित्त-कफात्मकाः
हिङ्गु-सौवर्चल-व्योष-विड-दाडिम-दीप्यकैः ।
पुष्कराजाजी-धान्याम्ल-वेतस-क्षार-चित्रकैः
शठी-वचाजगन्धैला-सुरसैर् दधि-संयुतैः ।
शूलानाह-हरं सर्पिः साधयेद् वात-गुल्मिनाम्
हपुषोषण-पृथ्वीका-पञ्च-कोलक-दीप्यकैः ।
साजाजी-सैन्धवैर् दध्ना दुग्धेन च रसेन च
दाडिमान् मूलकात् कोलात् पचेत् सर्पिर् निहन्ति तत् ।
वात-गुल्मोदरानाह-पार्श्व-हृत्-कोष्ठ-वेदनाः
योन्य्-अर्शो-ग्रहणी-दोष-कास-श्वासा-रुचि-ज्वरान् ।
दश-मूलं बलां कालां सुषवीं द्वौ पुनर्नवौ
14.13च्व् दश-मूलं बलां कालीं
पौष्करैरण्ड-रास्नाश्वगन्धा-भार्ग्य्-अमृता-शठीः ।
पचेद् गन्ध-पलाशं च द्रोणे ऽपां द्वि-पलोन्मितम्
यवैः कोलैः कुलत्थैश् च माषैश् च प्रास्थिकैः सह ।
क्वाथे ऽस्मिन् दधि-पात्रे च घृत-प्रस्थं विपाचयेत्
स्व-रसैर् दाडिमाम्रात-मातुलुङ्गोद्भवैर् युतम् ।
तथा तुषाम्बु-धान्याम्ल-शुक्तैः श्लक्ष्णैश् च कल्कितैः
भार्गी-तुम्बुरु-षड्ग्रन्था-ग्रन्थि-रास्नाग्नि-धान्यकैः ।
यवानक-यवान्य्-अम्ल-वेतसासित-जीरकैः
अजाजी-हिङ्गु-हपुषा-कारवी-वृषकोषकैः ।
निकुम्भ-कुम्भ-मूर्वेभ-पिप्पली-वेल्ल-दाडिमैः
श्वदंष्ट्रा-त्रपुसैर्वारु-बीज-हिंस्राश्मभेदकैः ।
मिशि-द्वि-क्षार-सुरस-शारिवा-नीलिनी-फलैः
त्रि-कटु-त्रि-पटूपेतैर् दाधिकं तद् व्यपोहति ।
रोगान् आशु-तरान् पूर्वान् कष्टान् अपि च शीलितम्
अपस्मार-गदोन्माद-मूत्राघातानिलामयान् ।
त्र्य्-ऊषण-त्रि-फला-धान्य-चविका-वेल्ल-चित्रकैः
14.21अव् अपस्मार-गरोन्माद-
कल्की-कृतैर् घृतं पक्वं स-क्षीरं वात-गुल्म-नुत् ।
तुलां लशुन-कन्दानां पृथक् पञ्च-पलांशकम्
पञ्च-मूलं महच् चाम्बु-भारार्धे तद् विपाचयेत् ।
पाद-शेषं तद्-अर्धेन दाडिम-स्व-रसं सुराम्
धान्याम्लं दधि चादाय पिष्टांश् चार्ध-पलांशकान् ।
त्र्य्-ऊषण-त्रि-फला-हिङ्गु-यवानी-चव्य-दीप्यकान्
साम्ल-वेतस-सिन्धूत्थ-देवदारून् पचेद् घृतात् ।
तैः प्रस्थं तत् परं सर्व-वात-गुल्म-विकार-जित्
14.25अव् साम्ल-वेतस-सिन्धूत्थं 14.25ब्व् देवदारु पचेद् घृतात्
षट्-पलं वा पिबेत् सर्पिर् यद् उक्तं राज-यक्ष्मणि ।
प्रसन्नया वा क्षीरार्थः सुरया दाडिमेन वा
घृते मारुत-गुल्म-घ्नः कार्यो दध्नः सरेण वा ।
वात-गुल्मे कफो वृद्धो हत्वाग्निम् अ-रुचिं यदि
हृल्-लासं गौरवं तन्द्रां जनयेद् उल्लिखेत् तु तम् ।
शूलानाह-विबन्धेषु ज्ञात्वा स-स्नेहम् आशयम्
निर्यूह-चूर्ण-वटकाः प्रयोज्या घृत-भेषजैः ।
कोल-दाडिम-घर्माम्बु-तक्र-मद्याम्ल-काञ्जिकैह्
मण्डेन वा पिबेत् प्रातश् चूर्णान्य् अन्नस्य वा पुरः ।
चूर्णानि मातुलुङ्गस्य भावितान्य् अ-सकृद् रसे
कुर्वीत कार्मुक-तरान् वटकान् कफ-वातयोः ॥ 31अब् ॥
हिङ्गु-वचा-विजया-पशुगन्धा-दाडिम-दीप्यक-धान्यक-पाठाः ॥ 31च्द् ॥
पुष्कर-मूल-शठी-हपुषाग्नि-क्षार-युग-त्रि-पटु-त्रि-कटूनि ॥ 31एf ॥
साजाजि-चव्यं सह-तिन्तिडीकं स-वेतसाम्लं विनिहन्ति चूर्णं ।
हृत्-पार्श्व-वस्ति-त्रिक-योनि-पायु-शूलानि वाय्व्-आम-कफोद्भवानि
कृच्छ्रान् गुल्मान् वात-विण्-मूत्र-सङ्गं कण्ठे बन्धं हृद्-ग्रहं पाण्डु-रोगम् ।
अन्ना-श्रद्धा-प्लीह-दुर्-नाम-हिध्मा-वर्ध्माध्मान-श्वास-कासाग्नि-सादान्
लवण-यवानी-दीप्यक-कण-नागरम् उत्तरोत्तरं वृद्धम् ।
सर्व-समांश-हरीतकी- चूर्णं वैश्वानरः साक्षात्
14.34च्व् सर्व-समांशं हरीतकी- 14.34च्व् सर्व-समांशा विजया- 14.34द्व्
चूर्णो वैश्वानरः साक्षात्
त्रि-कटुकम् अजमोदा सैन्धवं जीरके द्वे ॥ 35अ ॥
सम-धरण-घृतानाम् अष्टमो हिङ्गु-भागः ॥ 35ब् ॥
प्रथम-कवड-भोज्यः सर्पिषा संप्रयुक्तो ॥ 35च् ॥
14.35च्व् प्रथम-कवड-भोज्यः सर्पिषा चूर्णको ऽयं
जनयति जठराग्निं वात-गुल्मं निहन्ति ॥ 35द् ॥
14.35द्व् जनयति भृशम् अग्निं वात-गुल्मं निहन्ति
हिङ्गूग्रा-विड-शुण्ठ्य्-अजाजि-विजया-वाट्याभिधानामयैश् ॥ 36अ ॥
चूर्णः कुम्भ-निकुम्भ-मूल-सहितैर् भागोत्तरं वर्धितैः ॥ 36ब् ॥
पीतः कोष्ण-जलेन कोष्ठ-ज-रुजो गुल्मोदरादीन् अयं ॥ 36च् ॥
शार्दूलः प्रसभं प्रमथ्य हरति व्याधीन् मृगौघान् इव ॥ 36द् ॥
सिन्धूत्थ-पथ्या-कण-दीप्यकानां ॥ 37अ ॥
चूर्णानि तोयैः पिबतां कवोष्णैः ॥ 37ब् ॥
प्रयाति नाशं कफ-वात-जन्मा ॥ 37च् ॥
नाराच-निर्भिन्न इवामयौघः ॥ 37द् ॥
पूतीक-पत्त्र-गज-चिर्भट-चव्य-वह्नि- ॥ 38अ ॥
-व्योषं च संस्तर-चितं लवणोपधानम् ॥ 38ब् ॥
दग्ध्वा विचूर्ण्य दधि-मस्तु-युतं प्रयोज्यं ॥ 38च् ॥
गुल्मोदर-श्वयथु-पाण्डु-गुदोद्भवेषु ॥ 38द् ॥
14.38द्व् गुल्मोदर-श्वयथु-पाण्डु-गदोद्भवेषु
हिङ्गु-त्रि-गुणं सैन्धवम् अस्मात् त्रि-गुणं च तैलम् ऐरण्डम् ॥ 39अब् ॥
तत् त्रि-गुण-लशुन-रसं गुल्मोदर-वर्ध्म-शूल-घ्नम् ।
मातुलुङ्ग-रसो हिङ्गु दाडिमं विड-सैन्धवम्
सुरा-मण्डेन पातव्यं वात-गुल्म-रुजापहम् ।
शुण्ठ्याः कर्षं गुडस्य द्वौ धौतात् कृष्ण-तिलात् पलम्
14.41ब्व् वात-गुल्म-ज्वरापहम्
खादन्न् एक-त्र संचूर्ण्य कोष्ण-क्षीरानुपो जयेत् ।
वात-हृद्-रोग-गुल्मार्शो-योनि-शूल-शकृद्-ग्रहान्
पिबेद् एरण्ड-तैलं तु वात-गुल्मी प्रसन्नया ।
श्लेष्मण्य् अनु-बले वायौ पित्ते तु पयसा सह
विवृद्धं यदि वा पित्तं संतापं वात-गुल्मिनः ।
कुर्याद् विरेचनीयो ऽसौ स-स्नेहैर् आनुलोमिकैः
तापानुवृत्ताव् एवं च रक्तं तस्यावसेचयेत् ।
साधयेच् छुद्ध-शुष्कस्य लशुनस्य चतुः-पलम्
क्षीरोदके ऽष्ट-गुणिते क्षीर-शेषं च पाचयेत् ।
वात-गुल्मम् उदावर्तं गृध्रसीं विषम-ज्वरम्
हृद्-रोगं विद्रधिं शोषं साधयत्य् आशु तत् पयः ।
तैलं प्रसन्ना गो-मूत्रम् आरनालं यवाग्र-जः
14.47ब्व् नाशयत्य् आशु तत् पयः
गुल्मं जठरम् आनाहं पीतम् एक-त्र साधयेत् ।
चित्रक-ग्रन्थिकैरण्ड-शुण्ठी-क्वाथः परं हितः
शूलानाह-विबन्धेषु स-हिङ्गु-विड-सैन्धवैः ।
पुष्करैरण्डयोर् मूलं यव-धन्वयवासकम्
जलेन क्वथितं पीतं कोष्ठ-दाह-रुजापहम् ।
वाट्याह्वैरण्ड-दर्भाणां मूलं दारु महौषधम्
पीतं निःक्वाथ्य तोयेन कोष्ठ-पृष्ठांस-शूल-जित् ।
शिला-जं पयसान्-अल्प-पञ्च-मूल-शृतेन वा
14.51ब्व् कोष्ठ-पृष्ट्य्-अंस-शूल-जित्
वात-गुल्मी पिबेद् वाट्यम् उदावर्ते तु भोजयेत् ।
स्निग्धं पैप्पलिकैर् यूषैर् मूलकानां रसेन वा
बद्ध-विण्-मारुतो ऽश्नीयात् क्षीरेणोष्णेन यावकम् ।
कुल्माषान् वा बहु-स्नेहान् भक्षयेल् लवणोत्तरान्
नीलिनी-त्रिवृता-दन्ती-पथ्या-कम्पिल्लकैः सह ।
स-मलाय घृतं देयं स-विड-क्षार-नागरम्
नीलिनीं त्रि-फलां रास्नां बलां कटुक-रोहिणीम् ।
पचेद् विडङ्गं व्याघ्रीं च पालिकानि जलाढके
रसे ऽष्ट-भाग-शेषे तु घृत-प्रस्थं विपाचयेत् ।
दध्नः प्रस्थेन संयोज्य सुधा-क्षीर-पलेन च
ततो घृत-पलं दद्याद् यवागू-मण्ड-मिश्रितम् ।
जीर्णे सम्यग्-विरिक्तं च भोजयेद् रस-भोजनम्
गुल्म-कुष्ठोदर-व्यङ्ग-शोफ-पाण्ड्व्-आमय-ज्वरान् ।
श्वित्रं प्लीहानम् उन्मादं हन्त्य् एतन् नीलिनी-घृतम्
कुक्कुटाश् च मयूराश् च तित्तिरि-क्रौञ्च-वर्तकाः ।
शालयो मदिरा सर्पिर् वात-गुल्म-चिकित्सितम्
मितम् उष्णं द्रवं स्निग्धं भोजनं वात-गुल्मिनाम् ।
स-मण्डा वारुणी पानं तप्तं वा धान्यकैर् जलम्
स्निग्धोष्णेनोदिते गुल्मे पैत्तिके स्रंसनं हितम् ।
द्राक्षाभया-गुड-रसं कम्पिल्लं वा मधु-द्रुतम्
14.61द्व् कम्पिल्लं वा मधु-द्रवम्
कल्पोक्तं रक्त-पित्तोक्तं गुल्मे रूक्षोष्ण-जे पुनः ।
परं संशमनं सर्पिस् तिक्तं वासा-घृतं शृतम्
तृणाख्य-पञ्चक-क्वाथे जीवनीय-गणेन वा ।
शृतं तेनैव वा क्षीरं न्यग्रोधादि-गणेन वा
तत्रापि स्रंसनं युञ्ज्याच् छीघ्रम् आत्ययिके भिषक् ।
वैरेचनिक-सिद्धेन सर्पिषा पयसापि वा
रसेनामलकेक्षूणां घृत-प्रस्थं विपाचयेत् ।
पथ्या-पादं पिबेत् सर्पिस् तत् सिद्धं पित्त-गुल्म-नुत्
पिबेद् वा तैल्वकं सर्पिर् यच् चोक्तं पित्त-विद्रधौ ।
द्राक्षां पयस्यां मधुकं चन्दनं पद्मकं मधु
पिबेत् तण्डुल-तोयेन पित्त-गुल्मोपशान्तये ।
द्वि-पलं त्रायमाणाया जल-द्वि-प्रस्थ-साधितम्
अष्ट-भाग-स्थितं पूतं कोष्णं क्षीर-समम् पिबेत् ।
पिबेद् उपरि तस्योष्णं क्षीरम् एव यथा-बलम्
तेन निर्हृत-दोषस्य गुल्मः शाम्यति पैत्तिकः ।
दाहे ऽभ्यङ्गो घृतैः शीतैः साज्यैर् लेपो हिमौषधैः
स्पर्शः सरो-रुहां पत्त्रैः पात्रैश् च प्रचलज्-जलैः ।
विदाह-पूर्व-रूपेषु शूले वह्नेश् च मार्दवे
बहु-शो ऽपहरेद् रक्तं पित्त-गुल्मे विशेषतः ।
छिन्न-मूला विदह्यन्ते न गुल्मा यान्ति च क्षयम्
रक्तं हि व्य्-अम्ल-तां याति तच् च नास्ति न चास्ति रुक् ।
हृत-दोषं परिम्लानं जाङ्गलैस् तर्पितं रसैः
समाश्वस्तं स-शेषार्तिं सर्पिर् अभ्यासयेत् पुनः ।
रक्त-पित्ताति-वृद्ध-त्वात् क्रियाम् अन्-उपलभ्य वा
गुल्मे पाकोन्-मुखे सर्वा पित्त-विद्रधि-वत् क्रिया ।
शालिर् गव्याज-पयसी पटोली जाङ्गलं घृतम्
धात्री परूषकं द्राक्षा खर्जूरं दाडिमं सिता ।
भोज्यं पाने ऽम्बु बलया बृहत्य्-आद्यैश् च साधितम्
श्लेष्म-जे वामयेत् पूर्वम् अ-वम्यम् उपवासयेत् ।
तिक्तोष्ण-कटु-संसर्ग्या वह्निं संधुक्षयेत् ततः
14.76अव् कफ-जे वामयेत् पूर्वम्
हिङ्ग्व्-आदिभिश् च द्वि-गुण-क्षार-हिङ्ग्व्-अम्ल-वेतसैः ।
निगूढं यदि वोन्नद्धं स्तिमितं कठिनं स्थिरम्
आनाहादि-युतं गुल्मं संस्वेद्य विनयेद् अनु ।
घृतं स-क्षार-कटुकं पातव्यं कफ-गुल्मिनाम्
14.78ब्व् संशोध्य विनयेद् अनु
स-व्योष-क्षार-लवणं स-हिङ्गु-विड-दाडिमम् ।
कफ-गुल्मं जयत्य् आशु दश-मूल-शृतं घृतम्
भल्लातकानां द्वि-पलं पञ्च-मूलं पलोन्मितम् ।
अल्पं तोयाढके साध्यं पाद-शेषेण तेन च
तुल्यं घृतं तुल्य-पयो विपचेद् अक्ष-संमितैः ।
विडङ्ग-हिङ्गु-सिन्धूत्थ-याव-शूक-शठी-विडैः
स-द्वीपि-रास्ना-यष्ट्य्-आह्व-षड्ग्रन्था-कण-नागरैः ।
एतद् भल्लातक-घृतं कफ-गुल्म-हरं परम्
प्लीह-पाण्ड्व्-आमय-श्वास-ग्रहणी-रोग-कास-जित् ।
ततो ऽस्य गुल्मे देहे च समस्ते स्वेदम् आचरेत्
14.83ब्व् -ग्रहणी-रोग-कास-नुत्
सर्व-त्र गुल्मे प्रथमं स्नेह-स्वेदोपपादिते ।
या क्रिया क्रियते याति सा सिद्धिं न विरूक्षिते
स्निग्ध-स्विन्न-शरीरस्य गुल्मे शैथिल्यम् आगते ।
यथोक्तां घटिकां न्यस्येद् गृहीते ऽपनयेच् च ताम्
वस्त्रान्तरं ततः कृत्वा भिन्द्याद् गुल्मं प्रमाण-वित् ।
वि-मार्गाज-पदादर्शैर् यथा-लाभं प्रपीडयेत्
प्रमृज्याद् गुल्मम् एवैकं न त्व् अन्त्र-हृदयं स्पृशेत् ।
तिलैरण्डातसी-बीज-सर्षपैः परिलिप्य च
14.87द्व् -सर्षपैः परिलिप्य वा
श्लेष्म-गुल्मम् अयः-पात्रैः सुखोष्णैः स्वेदयेत् ततः ।
एवं च विसृतं स्थानात् कफ-गुल्मं विरेचनैः
स-स्नेहैर् वस्तिभिश् चैनं शोधयेद् दाशमूलिकैः ।
पिप्पल्य्-आमलक-द्राक्षा-श्यामाद्यैः पालिकैः पचेत्
एरण्ड-तैल-हविषोः प्रस्थौ पयसि षड्-गुणे ।
सिद्धो ऽयं मिश्रकः स्नेहो गुल्मिनां स्रंसनं हितम्
वृद्धि-विद्रधि-शूलेषु वात-व्याधिषु चामृतम् ।
पिबेद् वा नीलिनी-सर्पिर् मात्रया द्वि-पलीनया
14.91द्व् मात्रया द्वि-पलीकया
तथैव सु-कुमाराख्यं घृतान्य् औदरिकाणि वा ।
द्रोणे ऽम्भसः पचेद् दन्त्याः पलानां पञ्च-विंशतिम्
चित्रकस्य तथा पथ्यास् तावतीस् तद्-रसे स्रुते ।
द्वि-प्रस्थे साधयेत् पूते क्षिपेद् दन्ती-समं गुडम्
14.93ब्व् तावतीस् तद्-रसे शृते
तैलात् पलानि चत्वारि त्रिवृतायश् च चूर्णतः ।
कणा-कर्षौ तथा शुण्ठ्याः सिद्धे लेहे तु शीतले
मधु तैल-समं दद्याच् चतुर्-जाताच् चतुर्थिकाम् ।
अतो हरीतकीम् एकां सावलेह-पलाम् अदन्
सुखं विरिच्यते स्निग्धो दोष-प्रस्थम् अन्-आमयः ।
गुल्म-हृद्-रोग-दुर्-नाम-शोफानाह-गरोदरान्
कुष्ठोत्क्लेशा-रुचि-प्लीह-ग्रहणी-विषम-ज्वरान् ।
घ्नन्ति दन्ती-हरीतक्यः पाण्डु-तां च स-कामलाम्
14.97द्व् पाण्डु-तां च स-कामलान्
सुधा-क्षीर-द्रवं चूर्णं त्रि-वृतायाः सु-भावितम् ।
कार्षिकं मधु-सर्पिर्भ्यां लीढ्वा साधु विरिच्यते
कुष्ठ-श्यामा-त्रिवृद्-दन्ती-विजया-क्षार-गुग्गुलून् ।
गो-मूत्रेण पिबेद् एकं तेन गुग्गुलुम् एव वा
निरूहान् कल्प-सिद्ध्य्-उक्तान् योजयेद् गुल्म-नाशनान् ।
कृत-मूलं महा-वास्तुं कठिनं स्तिमितं गुरुम्
गूढ-मांसं जयेद् गुल्मं क्षारारिष्टाग्नि-कर्मभिः ।
एकान्तरम् द्व्य्-अन्तरं वा विश्रमय्याथ-वा त्र्य्-अहम्
शरीर-दोष-बलयोर् वर्धन-क्षपणोद्यतः ।
अर्शो-ऽश्मरी-ग्रहण्य्-उक्ताः क्षारा योज्याः कफोल्बणे
देवदारु-त्रिवृद्-दन्ती-कटुका-पञ्च-कोलकम् ।
स्वर्जिका-याव-शूकाख्यौ श्रेष्ठा-पाठोपकुञ्चिकाः
कुष्ठं सर्पसुगन्धां च द्व्य्-अक्षांशं पटु-पञ्चकम् ।
पालिकं चूर्णितं तैल-वसा-दधि-घृताप्लुतम्
घटस्यान्तः पचेत् पक्वम् अग्नि-वर्णे घटे च तम् ।
क्षारं गृहीत्वा क्षीराज्य-तक्र-मद्यादिभिः पिबेत्
गुल्मोदावर्त-वर्ध्मार्शो-जठर-ग्रहणी-कृमीन् ।
अपस्मार-गरोन्माद-योनि-शुक्रामयाश्मरीः
क्षारा-गदो ऽयं शमयेद् विषं चाखु-भुजङ्ग-जम् ।
श्लेष्माणं मधुरं स्निग्धं रस-क्षीर-घृताशिनः
छित्त्वा भित्त्वाशयात् क्षारः क्षार-त्वात् क्षारयत्य् अधः ।
मन्दे ऽग्नाव् अ-रुचौ सात्म्यैर् मद्यैः स-स्नेहम् अश्नताम्
14.108अव् छित्त्वा छित्त्वाशयात् क्षारः 14.108अव् छित्त्वा भित्त्वाशयं क्षारः
14.108ब्व् क्षार-त्वात् पातयत्य् अधः
योजयेद् आसवारिष्टान् निगदान् मार्ग-शुद्धये ।
शालयः षष्टिका जीर्णाः कुलत्था जाङ्गलं पलम्
चिरिबिल्वाग्नि-तर्कारी-यवानी-वरुणाङ्कुराः ।
शिग्रुस् तरुण-बिल्वानि बालं शुष्कं च मूलकम्
14.110च्व् शिग्रोस् तरुण-मूलानि
बीजपूरक-हिङ्ग्व्-अम्ल-वेतस-क्षार-दाडिमम् ।
व्योषं तक्रं घृतं तैलं भक्तं पानं तु वारुणी
धान्याम्लं मस्तु तक्रं च यवानी-विड-चूर्णितम् ।
पञ्च-मूल-शृतं वारि जीर्णं मार्द्वीकम् एव वा
पिप्पली-पिप्पली-मूल-चित्रकाजाजी-सैन्धवैः ।
सुरा गुल्मं जयत्य् आशु जगलश् च विमिश्रितः
14.113द्व् जाङ्गलश् च विमिश्रितः
वमनैर् लङ्घनैः स्वेदैः सर्पिः-पानैर् विरेचनैः ।
वस्ति-क्षारासवारिष्ट-गुटिका-पथ्य-भोजनैः
14.114च्व् वस्ति-क्षारासवारिष्टैर् 14.114द्व् -गुल्मिका-पथ्य-भोजनैः 14.114द्व्
गौल्मिकैः पथ्य-भोजनैः
श्लैष्मिको बद्ध-मूल-त्वाद् यदि गुल्मो न शाम्यति ।
तस्य दाहं हृते रक्ते कुर्याद् अन्ते शरादिभिः
अथ गुल्मं स-पर्य्-अन्तं वाससान्तरितं भिषक् ।
नाभि-वस्त्य्-अन्त्र-हृदयं रोम-राजीं च वर्जयन्
नाति-गाढं परिमृशेच् छरेण ज्वलताथ-वा ।
लोहेनारणिकोत्थेन दारुणा तैन्दुकेन वा
ततो ऽग्नि-वेगे शमिते शीतैर् व्रण इव क्रिया ।
आमान्वये तु पेयाद्यैः संधुक्ष्याग्निं विलङ्घिते
स्वं स्वं कुर्यात् क्रमं मिश्रं मिश्र-दोषे च काल-वित् ।
गत-प्रसव-कालायै नार्यै गुल्मे ऽस्र-संभवे
स्निग्ध-स्विन्न-शरीरायै दद्यात् स्नेह-विरेचनम् ।
तिल-क्वाथे घृत-गुड-व्योष-भार्गी-रजो-ऽन्वितः
पानं रक्त-भवे गुल्मे नष्टे पुष्पे च योषितः ।
भार्गी-कृष्णा-करञ्ज-त्वग्-ग्रन्थिकामरदारु-जम्
चूर्णं तिलानां क्वाथेन पीतं गुल्म-रुजापहम् ।
पलाश-क्षार-पात्रे द्वे द्वे पात्रे तैल-सर्पिषोः
गुल्म-शैथिल्य-जननीं पक्त्वा मात्रां प्रयोजयेत् ।
न प्रभिद्येत यद्य् एवं दद्याद् योनि-विरेचनम्
क्षारेण युक्तं पललं सुधा-क्षीरेण वा ततः ।
ताभ्यां वा भावितान् दद्याद् योनौ कटुक-मत्स्यकान्
वराह-मत्स्य-पित्ताभ्यां नक्तकान् वा सु-भावितान् ।
किण्वं वा स-गुड-क्षारं दद्याद् योनौ विशुद्धये
रक्त-पित्त-हरं क्षारं लेहयेन् मधु-सर्पिषा ।
लशुनं मदिरां तीक्ष्णां मत्स्यांश् चास्यै प्रयोजयेत्
वस्तिं स-क्षीर-गो-मूत्रं स-क्षारं दाशमूलिकम् ।
अ-वर्तमाने रुधिरे हितं गुल्म-प्रभेदनम्
14.127अव् वस्तिं स-क्षौद्र-गो-मुत्रं
यमकाभ्यक्त-देहायाः प्रवृत्ते समुपेक्षणम् ।
रसौदनस् तथाहारः पानं च तरुणी सुरा
रुधिरे ऽति-प्रवृत्ते तु रक्त-पित्त-हराः क्रियाः ।
कार्या वात-रुग्-आर्तायाः सर्वा वात-हराः पुनः
मूल पाठ: Aṣṭāṅgahṛdayasūtra · Data entry R. P. Das R. E. Emmerick · GRETIL (Göttingen) · CC BY-NC-SA 4.0