भाषा

ENहिગુ
ग्रंथ पाठ

अष्टाङ्गहृदयसूत्र · अध्याय 61

61.1

8.164द्व् रक्षेत् ततस् तेषु विशेषतो ऽग्निम्
चिकित्सास्थान
अतीसारो हि भूयिष्ठं भवत्य् आमाशयान्वयः ।
हत्वाग्निं वात-जे ऽप्य् अस्मात् प्राक् तस्मिō̃ लङ्घनं हितम्

61.2

9.1द्व् प्राग् अस्मिō̃ लङ्घनं हितम्
शूलानाह-प्रसेकार्तं वामयेद् अतिसारिणम् ।
दोषाः संनिचिता ये च विदग्धाहार-मूर्छिताः

61.3

अतीसाराय कल्पन्ते तेषूपेक्षैव भेषजम् ।
भृशोत्क्लेश-प्रवृत्तेषु स्वयम् एव चलात्मसु

61.4

न तु संग्रहणं योज्यं पूर्वम् आमातिसारिणि ।
अपि चाध्मान-गुरु-ता-शूल-स्तैमित्य-कारिणि

61.5

9.4अव् प्रयोज्यं न तु संग्राहि 9.4ब्व् पूर्वम् आमोल्बणे न तु
प्राणदा प्राण-दा दोषे विबद्धे संप्रवर्तिनी ।
पिबेत् प्रक्वथितास् तोये मध्य-दोषो विशोषयन्

61.6

भूतिक-पिप्पली-शुण्ठी-वचा-धान्य-हरीतकीः ।
अथ-वा बिल्व-धनिका-मुस्त-नागर-वालकम्

61.7

विड-पाठा-वचा-पथ्या-कृमिजिन्-नागराणि वा ।
शुण्ठी-घन-वचा-माद्री-बिल्व-वत्सक-हिङ्गु वा

61.8

शस्यते त्व् अल्प-दोषाणाम् उपवासो ऽतिसारिणाम् ।
वचा-प्रतिविषाभ्यां वा मुस्ता-पर्पटकेन वा

61.9

ह्रीवेर-नागराभ्यां वा विपक्वं पाययेज् जलम् ।
युक्ते ऽन्न-काले क्षुत्-क्षामं लघ्व्-अन्न-प्रति भोजयेत्

61.10

9.9द्व् लघ्व् अन्नं प्रतिभोजयेत्
तथा स शीघ्रं प्राप्नोति रुचिम् अग्नि-बलं बलम् ।
तक्रेणावन्ति-सोमेन यवाग्वा तर्पणेन वा

61.11

सुरया मधुना वाथ यथा-सात्म्यम् उपाचरेत् ।
भोज्यानि कल्पयेद् ऊर्ध्वं ग्राहि-दीपन-पाचनैः

61.12

9.11अव् सुरया मधुना चाथ
बाल-बिल्व-शठी-धान्य-हिङ्गु-वृक्षाम्ल-दाडिमैः ।
पलाश-हपुषाजाजी-यवानी-विड-सैन्धवैः

61.13

लघुना पञ्च-मूलेन पञ्च-कोलेन पाठया ।
शालिपर्णी-बला-बिल्वैः पृश्निपर्ण्या च साधिता

61.14

दाडिमाम्ला हिता पेया कफ-पित्ते समुल्बणे ।
अभया-पिप्पली-मूल-बिल्वैर् वातानुलोमनी

61.15

विबद्धं दोष-बहुलो दीप्ताग्निर् यो ऽतिसार्यते ।
कृष्णा-विडङ्ग-त्रि-फला-कषायैस् तं विरेचयेत्

61.16

पेयां युञ्ज्याद् विरिक्तस्य वात-घ्नैर् दीपनैः कृताम् ।
आमे परिणते यस् तु दीप्ते ऽग्नाव् उपवेश्यते

61.17

स-फेन-पिच्छं स-रुजं स-विबन्धं पुनः पुनः ।
अल्पाल्पम् अल्प-शमलं निर्-विड् वा स-प्रवाहिकम्

61.18

9.17च्व् अल्पाल्पम् अल्पं स-मलं
दधि-तैल-घृत-क्षीरैः स शुण्ठीं स-गुडां पिबेत् ।
स्विन्नानि गुड-तैलेन भक्षयेद् बदराणि वा

61.19

गाढ-विड्-विहितैः शाकैर् बहु-स्नेहैस् तथा रसैः ।
क्षुधितं भोजयेद् एनं दधि-दाडिम-साधितैः

61.20

9.19द्व् दधि-दाडिम-संस्कृतैः
शाल्य्-ओदनं तिलैर् माषैर् मुद्गैर् वा साधु साधितम् ।
शठ्या मूलक-पोतायाः पाठायाः स्वस्तिकस्य वा

61.21

9.20च्व् शुण्ठ्या मूलक-पोतायाः
सूषा-यवानी-कर्कारु-क्षीरिणी-चिर्भटस्य वा ।
उपोदकाया जीवन्त्या वाकुच्या वास्तुकस्य वा

61.22

सुवर्चलायाश् चुञ्चोर् वा लोणिकाया रसैर् अपि ।
कूर्म-वर्तक-लोपाक-शिखि-तित्तिरि-कौक्कुटैः

61.23

9.22द्व् -शिखि-तित्तिरि-दक्ष-जैः
बिल्व-मुस्ताक्षि-भैषज्य-धातकी-पुष्प-नागरैः ।
पक्वातीसार-जित् तक्रे यवागूर् दाधिकी तथा

61.24

कपित्थ-कच्छुरा-फञ्जी-यूथिका-वट-शेलु-जैः ।
दाडिमी-शण-कार्पासी-शाल्मलीनां च पल्लवैः

61.25

9.24द्व् -शाल्मली-मोच-पल्लवैः
कल्को बिल्व-शलाटूनां तिल-कल्कश् च तत्-समः ।
दध्नः सरो ऽम्लः स-स्नेहः खलो हन्ति प्रवाहिकाम्

61.26

मरिचं धनिकाजाजी तिन्तिडीकं शठी विडम् ।
दाडिमं धातकी पाठा त्रि-फला पञ्च-कोलकम्

61.27

याव-शूकं कपित्थाम्र-जम्बू-मध्यं स-दीप्यकम् ।
पिष्टैः षड्-गुण-बिल्वैस् तैर् दध्नि मुद्ग-रसे गुडे

61.28

स्नेहे च यमके सिद्धः खलो ऽयम् अ-पराजितः ।
दीपनः पाचनो ग्राही रुच्यो बिम्बिशि-नाशनः

61.29

कोलानां बाल-बिल्वानां कल्कैः शालि-यवस्य च ।
मुद्ग-माष-तिलानां च धान्य-यूषं प्रकल्पयेत्

61.30

ऐकध्यं यमके भृष्टं दधि-दाडिम-सारिकम् ।
वर्चः-क्षये शुष्क-मुखं शाल्य्-अन्नं तेन भोजयेत्

61.31

दध्नः सरं वा यमके भृष्टं स-गुड-नागरम् ।
सुरां वा यमके भृष्टां व्यञ्जनार्थं प्रयोजयेत्

61.32

फलाम्लं यमके भृष्टं यूषं गृञ्जनकस्य वा ।
भृष्टान् वा यमके सक्तून् खादेद् व्योषावचूर्णितान्

61.33

माषान् सु-सिद्धांस् तद्-वद् वा घृत-मण्डोपसेवनान् ।
रसं सु-सिद्ध-पूतं वा छाग-मेषान्तर्-आधि-जम्

61.34

9.33च्व् रसं सु-सिद्धं पूतं वा
पचेद् दाडिम-साराम्लं स-धान्य-स्नेह-नागरम् ।
रक्त-शाल्य्-ओदनं तेन भुञ्जानः प्रपिबंश् च तम्

61.35

वर्चः-क्षय-कृतैर् आशु विकारैः परिमुच्यते ।
बाल-बिल्वं गुडं तैलं पिप्पलीं विश्व-भेषजम्

61.36

9.35द्व् पिप्पली-विश्व-भेषजम्
लिह्याद् वाते प्रतिहते स-शूलः स-प्रवाहिकः ।
वल्कलं शाबरं पुष्पं धातक्या बदरी-दलम्

61.37

9.36ब्व् स-शूले स-प्रवाहिके 9.36द्व् धातक्या बदरी-फलम्
एरण्ड-बिल्व-यव-गोक्षुरकाम्ल-सिद्धां पथ्यां लिहन् मधु-युताम् अथ वा गुडेन ।
कृच्छ्र-प्रवृत्तम् अति-शूलम् असृग्-विमिश्रं हन्याद् अवश्यम् अतिसारम् उदीर्ण-वेगम् ॥
36.1+1 ॥
पिबेद् दधि-सर-क्षौद्र-कपित्थ-स्व-रसाप्लुतम् ।
विबद्ध-वात-वर्चास् तु बहु-शूल-प्रवाहिकः

61.38

स-रक्त-पिच्छस् तृष्णार्तः क्षीर-सौहित्यम् अर्हति ।
यमकस्योपरि क्षीरं धारोष्णं वा प्रयोजयेत्

61.39

शृतम् एरण्ड-मूलेन बाल-बिल्वेन वा पुनः ।
पयस्य् उत्क्वाथ्य मुस्तानां विंशतिं त्रि-गुणे ऽम्भसि

61.40

9.39द्व् विंशतिं त्रि-गुणाम्भसि
क्षीरावशिष्टं तत् पीतं हन्याद् आमं स-वेदनम् ।
पिप्पल्याः पिबतः सूक्ष्मं रजो मरिच-जन्म वा

61.41

चिर-कालानुषक्तापि नश्यत्य् आशु प्रवाहिका ।
निर्-आम-रूपं शूलार्तं लङ्घनाद्यैश् च कर्षितम्

61.42

रूक्ष-कोष्ठम् अपेक्ष्याग्निं स-क्षारं पाययेद् घृतम् ।
सिद्धं दधि-सुरा-मण्डे दश-मूलस्य चाम्भसि

61.43

9.42द्व् दश-मूलस्य वाम्भसि
सिन्धूत्थ-पञ्च-कोलाभ्यां तैलं सद्यो ऽर्ति-नाशनम् ।
षड्भिः शुण्ठ्याः पलैर् द्वाभ्यां द्वाभ्यां ग्रन्थ्य्-अग्नि-सैन्धवात्

61.44

तैल-प्रस्थं पचेद् दध्ना निः-सारक-रुजापहम् ।
एकतो मांस-दुग्धाज्यं पुरीष-ग्रह-शूल-जित्

61.45

पानानुवासनाभ्यङ्ग-प्रयुक्तं तैलम् एकतः ।
तद् धि वात-जिताम् अग्र्यं शूलं च वि-गुणो ऽनिलः

61.46

धात्व्-अन्तरोपमर्देद्धश् चलो व्यापी स्व-धाम-गः ।
तैलं मन्दानलस्यापि युक्त्या शर्म-करं परम्

61.47

9.46अव् धात्व्-अन्तरोपमर्दाद् वै 9.46अव् धात्व्-अन्तरोपमर्देन
वाय्व्-आशये स-तैले हि बिम्बिशिर् नावतिष्ठते ॥ 46ऊअब् ॥
क्षीणे मले स्वायतन-च्युतेषु दोषान्तरेष्व् ईरण एक-वीरे ।
को निष्टनन् प्राणिति कोष्ठ-शूली नान्तर्-बहिस्-तैल-परो यदि स्यात्

61.49

गुद-रुग्-भ्रंशयोर् युञ्ज्यात् स-क्षीरं साधितं हविः ॥ 48अब् ॥
रसे कोलाम्ल-चाङ्गेर्योर् दध्नि पिष्टे च नागरे ।
तैर् एव चाम्लैः संयोज्य सिद्धं सु-श्लक्ष्ण-कल्कितैः

61.50

9.49च्व् तैर् एव चाम्लैः संयुक्तैः
धान्योषण-विडाजाजी-पञ्च-कोलक-दाडिमैः ।
योजयेत् स्नेह-वस्तिं वा दश-मूलेन साधितम्

61.51

शठी-शताह्वा-कुष्ठैर् वा वचया चित्रकेण वा ।
प्रवाहणे गुद-भ्रंशे मूत्राघाते कटी-ग्रहे

61.52

मधुराम्लैः शृतं तैलं घृतं वाप्य् अनुवासनम् ।
प्रवेशयेद् गुदं ध्वस्तम् अभ्यक्तं स्वेदितं मृदु

61.53

कुर्याच् च गो-फणा-बन्धं मध्य-च्छिद्रेण चर्मणा ।
पञ्च-मूलस्य महतः क्वाथं क्षीरे विपाचयेत्

61.54

9.53द्व् क्वाथं क्षीरेण पाचयेत्
उन्दुरुं चान्त्र-रहितं तेन वात-घ्न-कल्क-वत् ।
तैलं पचेद् गुद-भ्रंशं पानाभ्यङ्गेन तज् जयेत्

61.55

पैत्ते तु सामे तीक्ष्णोष्ण-वर्ज्यं प्राग् इव लङ्घनम् ।
तृड्-वान् पिबेत् षड्-अङ्गाम्बु स-भूनिम्बं स-शारिवम्

61.56

पेयादि क्षुधितस्यान्नम् अग्नि-संधुक्षणं हितम् ।
बृहत्य्-आदि-गणाभीरु-द्वि-बला-शूर्पपर्णिभिः

61.57

पाययेद् अनुबन्धे तु स-क्षौद्रं तण्डुलाम्भसा ।
कुटजस्य फलं पिष्टं स-वल्कं स-घुणप्रियम्

61.58

9.57ब्व् स-क्षौद्रं तण्डुलाम्बुना 9.57च्व् वत्सकस्य फलं पिष्टं
पाठा-वत्सक-बीज-त्वग्-दार्वी-ग्रन्थिक-शुण्ठि वा ।
क्वाथं वातिविषा-बिल्व-वत्सकोदीच्य-मुस्त-जम्

61.59

अथ-वातिविषा-मूर्वा-निशेन्द्रयव-तार्क्ष्य-जम् ।
स-मध्व्-अतिविषा-शुण्ठी-मुस्तेन्द्रयव-कट्फलम्

61.60

पलं वत्सक-बीजस्य श्रपयित्वा रसं पिबेत् ।
यो रसाशी जयेच् छीघ्रं स पैत्तं जठरामयम्

61.61

मुस्ता-कषायम् एवं वा पिबेन् मधु-समायुतम् ।
स-क्षौद्रं शाल्मली-वृन्त-कषायं वा हिमाह्वयम्

61.62

किराततिक्तकं मुस्तं वत्सकं स-रसाञ्जनम् ।
कटङ्कटेरी ह्रीवेरं बिल्व-मध्यं दुरालभा

61.63

तिला मोच-रसं लोध्रं समङ्गा कमलोत्पलम् ।
नागरं धातकी-पुष्पं दाडिमस्य त्वग् उत्पलम्

61.64

अर्ध-श्लोकैः स्मृता योगाः स-क्षौद्रास् तण्डुलाम्बुना ।
निशेन्द्रयव-लोध्रैला-क्वाथः पक्वातिसार-जित्

61.65

9.64द्व् -क्वाथः पक्वातिसार-नुत्
नागरातिविषा-मुस्ता-भूनिम्बामृत-वत्सकैः ।
सर्व-ज्वर-हरः क्वाथः सर्वातीसार-नाशनः ॥ 64+1 ॥
गुडूच्य्-अतिविषा-धान्य-शुण्ठी-बिल्वाब्द-वालकैः ।
पाठा-भूनिम्ब-कुटज-चन्दनोशीर-पद्मकैः ॥ 64+2 ॥
कषायः शितलः पेयो ज्वरातीसार-शान्तये ।
हृल्-लासा-रोचक-च्छर्दि-पिपासा-दाह-नाशनः ॥ 64+3 ॥
लोध्राम्बष्ठा-प्रियङ्ग्व्-आदि-गणांस् तद्-वत् पृथक् पिबेत् ।
कट्वङ्ग-वल्क-यष्ट्य्-आह्व-फलिनी-दाडिमाङ्कुरैः

61.66

पेया-विलेपी-खलकान् कुर्यात् स-दधि-दाडिमान् ।
तद्-वद् दधित्थ-बिल्वाम्र-जम्बू-मध्यैः प्रकल्पयेत्

61.67

अजा-पयः प्रयोक्तव्यं निर्-आमे तेन चेच् छमः ।
दोषाधिक्यान् न जायेत बलिनं तं विरेचयेत्

61.68

व्यत्यासेन शकृद्-रक्तम् उपवेश्येत यो ऽपि वा ।
पलाश-फल-निर्यूहं युक्तं वा पयसा पिबेत्

61.69

ततो ऽनु कोष्णं पातव्यं क्षीरम् एव यथा-बलम् ।
प्रवाहिते तेन मले प्रशाम्यत्य् उदरामयः

61.70

पलाश-वत् प्रयोज्या वा त्रायमाणा विशोधनी ।
संसर्ग्यां क्रियमाणायां शूलं यद्य् अनुवर्तते

61.71

9.70ब्व् त्रायमाणा विशोधने
स्रुत-दोषस्य तं शीघ्रं यथा-वह्न्य् अनुवासयेत् ।
शतपुष्पा-वरीभ्यां च बिल्वेन मधुकेन च

61.72

तैल-पादं पयो-युक्तं पक्वम् अन्वासनं घृतम् ।
अ-शान्ताव् इत्य् अतीसारे पिच्छा-वस्तिः परं हितः

61.73

परिवेष्ट्य कुशैर् आर्द्रैर् आर्द्र-वृन्तानि शाल्मलेः ।
कृष्ण-मृत्तिकयालिप्य स्वेदयेद् गो-मयाग्निना

61.74

मृच्-छोषे तानि संक्षुद्य तत्-पिण्डं मुष्टि-संमितम् ।
मर्दयेत् पयसः प्रस्थे पूतेनास्थापयेत् ततः

61.75

नत-यष्ट्य्-आह्व-कल्काज्य-क्षौद्र-तैल-वतानु च ।
स्नातो भुञ्जीत पयसा जाङ्गलेन रसेन वा

61.76

पित्तातिसार-ज्वर-शोफ-गुल्म-समीरणास्र-ग्रहणी-विकारान् ।
जयत्य् अयं शीघ्रम् अति-प्रवृत्तिं विरेचनास्थापनयोश् च वस्तिः

61.77

कट्वङ्ग-बिल्व-जं त्व् अस्थि कपित्थं सुरसाञ्जनम् ।
लाक्षा-हरिद्रे ह्रीवेरं कट्फलं शुकनासिका ॥ 76+1 ॥
लोध्रं मोच-रसं मुस्तं धातकी वट-शुङ्गकान् ।
पिष्ट्वा तण्डुल-तोयेन वटकान् अक्ष-संमितान् ॥ 76+2 ॥
पिबेत् तेनैव तोयेन ज्वरातीसार-नाशनः ।
रक्त-प्रसादनो ह्य् एष शोफातीसार-नाशनः ॥ 76+3 ॥
फाणितं कुटजोत्थं च सर्वातीसार-नाशनम् ।
वत्सकादि-समायुक्तं साम्बष्ठादि स-माक्षिकम्

61.78

नी-रुङ्-निर्-आमं दीप्ताग्नेर् अपि सास्रं चिरोत्थितम् ।
नाना-वर्णम् अतीसारं पुट-पाकैर् उपाचरेत्

61.79

त्वक्-पिण्डाद् दीर्घवृन्तस्य श्रीपर्णी-पत्त्र-संवृतात् ।
मृल्-लिप्ताद् अग्निना स्विन्नाद् रसं निष्पीडितं हिमम्

61.80

अतीसारी पिबेद् युक्तं मधुना सितयाथ-वा ।
एवं क्षीरि-द्रुम-त्वग्भिस् तत्-प्ररोहैश् च कल्पयेत्

61.81

9.80च्व् एवं क्षीर-द्रुम-त्वग्भिस्
कट्वङ्ग-त्वग्-घृत-युता स्वेदिता सलिलोष्मणा ।
स-क्षौद्रा हन्त्य् अतीसारं बल-वन्तम् अपि द्रुतम्

61.82

पित्तातीसारी सेवेत पित्तलान्य् एव यः पुनः ।
रक्तातीसारं कुरुते तस्य पित्तं स-तृड्-ज्वरम्

61.83

दारुणं गुद-पाकं च तत्र च्छागं पयो हितम् ।
पद्मोत्पल-समङ्गाभिः शृतं मोच-रसेन च

61.84

शारिवा-यष्टि-लोध्रैर् वा प्रसवैर् वा वटादि-जैः ।
स-क्षौद्र-शर्करं पाने भोजने गुद-सेचने

61.85

तद्-वद् रसादयो ऽन्-अम्लाः साज्याः पानान्नयोर् हिताः ।
काश्मर्य-फल-यूषश् च किञ्-चिद्-अम्लः स-शर्करः

61.86

पयस्य् अर्धोदके छागे ह्रीवेरोत्पल-नागरैः ।
पेया रक्तातिसार-घ्नी पृश्निपर्णी-रसान्विता

61.87

प्राग्-भक्तं नव-नीतं वा लिह्यान् मधु-सिता-युतम् ।
बलिन्य् अस्रे ऽस्रम् एवाजं मार्गं वा घृत-भर्जितम्

61.88

क्षीरानु-पानं क्षीराशी त्र्य्-अहं क्षीरोद्भवं घृतम् ।
कपिञ्जल-रसाशी वा लिहन्न् आरोग्यम् अश्नुते

61.89

पीत्वा शतावरी-कल्कं क्षीरेण क्षीर-भोजनः ।
रक्तातीसारं हन्त्य् आशु तया वा साधितं घृतम्

61.90

लाक्षा-नागर-वैदेही-कटुका-दार्वि-वल्कलैः ।
सर्पिः सेन्द्रयवैः सिद्धं पेया-मण्डावचारितम्

61.91

अतीसारं जयेच् छीघ्रं त्रि-दोषम् अपि दारुणम् ।
कृष्ण-मृच्-छङ्ख-यष्ट्य्-आह्व-क्षौद्रासृक्-तण्डुलोदकम्

61.92

जयत्य् अस्रं प्रियङ्गुश् च तण्डुलाम्बु-मधु-प्लुता ।
कल्कस् तिलानां कृष्णानां शर्करा-पाञ्चभागिकः

61.93

9.92द्व् शर्करा-भाग-संयुतः
आजेन पयसा पीतः सद्यो रक्तं नियच्छति ।
पीत्वा स-शर्करा-क्षौद्रं चन्दनं तण्डुलाम्बुना

61.94

दाह-तृष्णा-प्रमोहेभ्यो रक्त-स्रावाच् च मुच्यते ।
गुदस्य दाहे पाके वा सेक-लेपा हिता हिमाः

61.95

9.94अव् दाह-तृष्णा-प्रमेहेभ्यो 9.94द्व् सेका लेपा हिता हिमाः
अल्पाल्पं बहु-शो रक्तं स-शूलम् उपवेश्यते ।
यदा विबद्धो वायुश् च कृच्छ्राच् चरति वा न वा

61.96

पिच्छा-वस्तिं तदा तस्य पूर्वोक्तम् उपकल्पयेत् ।
पल्लवान् जर्जरी-कृत्य शिंशिपा-कोविदारयोः

61.97

पचेद् यवांश् च स क्वाथे घृत-क्षीर-समन्वितः ।
पिच्छा-स्रुतौ गुद-भ्रंशे प्रवाहण-रुजासु वा

61.98

पिच्छा-वस्तिः प्रयोक्तव्यः क्षत-क्षीण-बलावहः ।
प्रपौण्डरीक-सिद्धेन सर्पिषा चानुवासनम्

61.99

रक्तं विट्-सहितं पूर्वं पश्चाद् वा यो ऽतिसार्यते ।
शतावरी-घृतं तस्य लेहार्थम् उपकल्पयेत्

61.100

शर्करार्धांशकं लीढं नव-नीतं नवोद्धृतम् ।
क्षौद्र-पादं जयेच् छीघ्रं तं विकारं हिताशिनः

61.101

न्यग्रोधोदुम्बराश्वत्थ-शुङ्गान् आपोथ्य वासयेत् ।
अहो-रात्रं जले तप्ते घृतं तेनाम्भसा पचेत्

61.102

तद् अर्ध-शर्करा-युक्तं लेहयेत् क्षौद्र-पादिकम् ।
अधो वा यदि वाप्य् उर्ध्वं यस्य रक्तं प्रवर्तते

61.103

9.102च्व् अधो वा यदि वात्य्-उर्ध्वं
श्लेष्मातीसारे वातोक्तं विशेषाद् आम-पाचनम् ।
कर्तव्यम् अनुबन्धे ऽस्य पिबेत् पक्त्वाग्नि-दीपनम्

61.104

बिल्व-कर्कटिका-मुस्त-प्राणदा-विश्व-भेषजम् ।
वचा-विडङ्ग-भूतीक-धानकामरदारु वा

61.105

9.104द्व् -धान्यकामरदारु वा
अथ-वा पिप्पली-मूल-पिप्पली-द्वय-चित्रकम् ।
पाठाग्नि-वत्सक-ग्रन्थि-तिक्ता-शुण्ठी-वचाभयाः

61.106

9.105ब्व् -पिप्पली-द्वय-चित्रकान्
क्वथिता यदि वा पिष्टाः श्लेष्मातीसार-भेषजम् ।
सौवर्चल-वचा-व्योष-हिङ्गु-प्रतिविषाभयाः

61.107

पिबेच् छ्लेष्मातिसारार्तश् चूर्णिताः कोष्ण-वारिणा ।
मध्यं लीढ्वा कपित्थस्य स-व्योष-क्षौद्र-शर्करम्

61.108

9.107द्व् स-क्षौद्रं व्योष-शर्करम्
कट्फलं मधु-युक्तं वा मुच्यते जठरामयात् ।
कणां मधु-युतां लीढ्वा तक्रं पीत्वा स-चित्रकम्

61.109

भुक्त्वा वा बाल-बिल्वानि व्यपोहत्य् उदरामयम् ।
पाठा-मोच-रसाम्भोद-धातकी-बिल्व-नागरम्

61.110

सु-कृच्छ्रम् अप्य् अतीसारं गुड-तक्रेण नाशयेत् ।
यवानी-पिप्पली-मूल-चातुर्जातक-नागरैः

61.111

मरिचाग्नि-जलाजाजी-धान्य-सौवर्चलैः समैः ।
वृषाम्ल-धातकी-कृष्णा-बिल्व-दाडिम-दीप्यकैः

61.112

9.111च्च् वृक्षाम्ल-धातकी-कृष्णा- 9.111द्च् -बिल्व-दाडिम-तिन्दुकैः
त्रि-गुणैः षड्-गुण-सितैः कपित्थाष्ट-गुणैः कृतः ।
चूर्णो ऽतीसार-ग्रहणी-क्षय-गुल्म-गलामयान्

61.113

9.112अव् त्रि-गुणैः षड्-गुण-सिते 9.112ब्व् कपित्थे ऽष्ट-गुणे कृतः 9.112द्व्
-क्षय-गुल्मोदरामयान्
कास-श्वासाग्नि-सादार्शः-पीनसा-रोचकाञ् जयेत् ।
कर्षोन्मिता तवक्षीरी चातुर्जातं द्वि-कार्षिकम्

61.114

9.113च्व् कर्षोन्मितं तवक्षीरी- 9.113द्व् -चातुर्जातं द्वि-कार्षिकम्
यवानी-धान्यकाजाजी-ग्रन्थि-व्योषं पलांशकम् ।
पलानि दाडिमाद् अष्टौ सितायाश् चैकतः कृतः

61.115

9.114अव् यवानी-धान्यकाजाजि 9.114ब्व् ग्रन्थि-व्योषं पलांशकम्
गुणैः कपित्थाष्टक-वच् चूर्णो ऽयं दाडिमाष्टकः ।
भोज्यो वातातिसारोक्तैर् यथावस्थं खलादिभिः

61.116

स-विडङ्गः स-मरिचः स-कपित्थः स-नागरः ।
चाङ्गेरी-तक्र-कोलाम्लः खलः श्लेष्मातिसार-जित्

61.117

क्षीणे श्लेष्मणि पूर्वोक्तम् अम्लं लाक्षादि षट्-पलम् ।
पुराणं वा घृतं दद्याद् यवागू-मण्ड-मिश्रितम्

61.118

कट्फलं मधुकं लोध्रं त्वग्-दाडिम-फलस्य च ।
वात-पित्तातिसार-घ्नं पिबेत् तण्डुल-वारिणा ॥ 117+1 ॥
मुस्तं सातिविषा दार्वी वचा शुण्ठी च तत्-समम् ।
कषायं क्षौद्र-संयुक्तं श्लेष्म-वातातिसारिणे ॥ 117+2 ॥
पीतदारु वचा लोध्रं कलिङ्ग-फल-नागरम् ।
दाडिमाम्बु-युतं दद्यात् पित्त-श्लेष्मातिसारिणे ॥ 117+3 ॥
वात-श्लेष्म-विबन्धे वा स्रवत्य् अति कफे ऽपि वा ।
शूले प्रवाहिकायां वा पिच्छा-वस्तिः प्रशस्यते

61.119

9.118अव् वात-श्लेष्म-विबन्धे च
वचा-बिल्व-कणा-कुष्ठ-शताह्वा-लवणान्वितः ।
बिल्व-तैलेन तैलेन वचाद्यैः साधितेन वा

61.120

बहु-शः कफ-वातार्ते कोष्णेनान्वासनं हितम् ।
क्षीणे कफे गुदे दीर्घ-कालातीसार-दुर्-बले

61.121

अनिलः प्रबलो ऽवश्यं स्व-स्थान-स्थः प्रजायते ।
स बली सहसा हन्यात् तस्मात् तं त्वरया जयेत्

61.122

वायोर् अन्-अन्तरं पित्तं पित्तस्यान्-अन्तरं कफम् ।
जयेत् पूर्वं त्रयाणां वा भवेद् यो बल-वत्-तमः

61.123

भी-शोकाभ्याम् अपि चलः शीघ्रं कुप्यत्य् अतस् तयोः ।
कार्या क्रिया वात-हरा हर्षणाश्वासनानि च

61.124

यस्योच्चाराद् विना मूत्रं पवनो वा प्रवर्तते ।
दीप्ताग्नेर् लघु-कोष्ठस्य शान्तस् तस्योदरामयः

मूल पाठ: Aṣṭāṅgahṛdayasūtra · Data entry R. P. Das R. E. Emmerick · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc