अष्टाङ्गहृदयसूत्र · अध्याय 60
चिकित्सास्थान
काले साधारणे व्य्-अभ्रे नाति-दुर्-बलम् अर्शसम् ।
विशुद्ध-कोष्ठं लघ्व्-अल्पम् अनुलोमनम् आशितम्
8.1च्व् विशुद्ध-कोष्ठं लघ्व्-अन्नम्
शुचिं कृत-स्वस्त्य्-अयनं मुक्त-विण्-मूत्रम् अ-व्यथम् ।
शयने फलके वान्य-नरोत्सङ्गे व्यपाश्रितम्
पूर्वेण कायेनोत्तानं प्रत्य्-आदित्य-गुदं समम् ।
समुन्नत-कटी-देशम् अथ यन्त्रण-वाससा
सक्थ्नोः शिरो-धरायां च परिक्षिप्तम् ऋजु स्थितम् ।
आलम्बितं परिचरैः सर्पिषाभ्यक्त-पायवे
ततो ऽस्मै सर्पिषाभ्यक्तं निदध्याद् ऋजु यन्त्रकम् ।
शनैर् अनु-सुखं पायौ ततो दृष्ट्वा प्रवाहणात्
यन्त्रे प्रविष्टं दुर्-नाम प्लोत-गुण्ठितयानु च ।
शलाकयोत्पीड्य भिषग् यथोक्त-विधिना दहेत्
8.6अव् यन्त्रे प्रविष्टे दुर्-नाम
क्षारेणैवार्द्रम् इतरत् क्षारेण ज्वलनेन वा ।
महद् वा बलिनश् छित्त्वा वीत-यन्त्रम् अथातुरम्
स्व्-अभ्यक्त-पायु-जघनम् अवगाहे निधापयेत् ।
निर्-वात-मन्दिर-स्थस्य ततो ऽस्याचारम् आदिशेत्
8.8च्व् निर्-वातागार-संस्थस्य
एकैकम् इति सप्ताहात् सप्ताहात् समुपाचरेत् ।
प्राग् दक्षिणं ततो वामम् अर्शः पृष्ठाग्र-जं ततः
बह्व्-अर्शसः सु-दग्धस्य स्याद् वायोर् अनुलोम-ता ।
रुचिर् अन्ने ऽग्नि-पटु-ता स्वास्थ्यं वर्ण-बलोदयः
वस्ति-शूले त्व् अधो नाभेर् लेपयेच् छ्लक्ष्ण-कल्कितैः ।
वर्षाभू-कुष्ठ-सुरभि-मिशि-लोहामराह्वयैः
शकृन्-मूत्र-प्रतीघाते परिषेकावगाहयोः ।
वरणालम्बुषैर् अण्ड-गोकण्टक-पुनर्नवैः
8.12अव् शकृन्-मूत्र-परीघाते
सुषवी-सुरभीभ्यां च क्वाथम् उष्णं प्रयोजयेत् ।
स-स्नेहम् अथ-वा क्षीरं तैलं वा वात-नाशनम्
युञ्जीतान्नं शकृद्-भेदि स्नेहान् वात-घ्न-दीपनान् ।
अथा-प्रयोज्य-दाहस्य निर्गतान् कफ-वात-जान्
स-स्तम्भ-कण्डू-रुक्-शोफान् अभ्यज्य गुद-कीलकान् ।
बिल्व-मूलाग्निक-क्षार-कुष्ठैः सिद्धेन सेचयेत्
8.15अव् संरम्भ-कण्डू-रुक्-शोफान् 8.15अव् संस्तम्भ-कण्डू-रुक्-शोफान्
तैलेनाहि-बिडालोष्ट्र-वराह-वसयाथ-वा ।
स्वेदयेद् अनु पिण्डेन द्रव-स्वेदेन वा पुनः
कासीसं सैन्धवं रास्ना शुण्ठी कुष्ठं च लाङ्गली ।
शिलाभ्रकाश्वमारं च जन्तुहृद् दन्ति-चित्रकौ ॥ 16.1+(1) ॥
हरितालं तथा स्वर्णक्षीरी तैश् च पचेत् समैः ।
तैलं सुधार्क-पयसी गवां मूत्रे चतुर्-गुणे ॥ 16.1+(2) ॥
एतद् अभ्यङ्गतो ऽर्शांसि क्षार-वत् पातयेद् द्रुतम् ।
क्षार-कर्म-करं ह्य् एतन् न च दूषयते वलीम् ॥ 16.1+(3) ॥
सक्तूनां पिण्डिकाभिर् वा स्निग्धानां तैल-सर्पिषा ।
रास्नाया हपुषाया वा पिण्डैर् वा कार्ष्ण्यगन्धिकैः
8.17द्व् पिण्डैर् वा कार्षकान्वितैः
अर्क-मूलं शमी-पत्त्रम् नृ-केशः सर्प-कञ्चुकम् ।
मार्जार-चर्म सर्पिश् च धूपनं हितम् अर्शसाम्
तथाश्वगन्धा सुरसा बृहती पिप्पली घृतम् ।
धान्याम्ल-पिष्टैर् जीमूत-बीजैस् तज्-जालकं मृदु
लेपितं छायया शुष्कं वर्तिर् गुद-ज-शातनी ।
स-जाल-मूल-जीमूत-लेहे वा क्षार-संयुते
गुञ्जा-सूरण-कूष्माण्ड-बीजैर् वर्तिस् तथा-गुणा ।
स्नुक्-क्षीरार्द्र-निशा-लेपस् तथा गो-मूत्र-कल्कितैः
कृकवाकु-शकृत्-कृष्णा-निशा-गुञ्जा-फलैस् तथा ।
स्नुक्-क्षीर-पिष्टैः षड्ग्रन्था-हलिनी-वारणास्थिभिः
कुलीरशृङ्गी-विजया-कुष्ठारुष्कर-तुत्थकैः ।
शिग्रु-मूलक-जैर् बीजैः पत्त्रैर् अश्वघ्न-निम्ब-जैः
8.23च्व् शिग्रु-मूलक-बीजैर् वा
पीलु-मूलेन बिल्वेन हिङ्गुना च समन्वितैः ।
कुष्ठं शिरीष-बीजानि पिप्पल्यः सैन्धवं गुडः
अर्क-क्षीरं सुधा-क्षीरं त्रि-फला च प्रलेपनम् ।
आर्कं पयः सुधा-काण्डं कटुकालाबु-पल्लवाः
8.25अव् आर्कं पयः स्नुही-काण्डं
करञ्जो बस्त-मूत्रं च लेपनं श्रेष्ठम् अर्शसाम् ।
आनुवासनिकैर् लेपः पिप्पल्य्-आद्यैश् च पूजितः
एभिर् एवौषधैः कुर्यात् तैलान्य् अभ्यञ्जनाय च ।
धूपनालेपनाभ्यङ्गैः प्रस्रवन्ति गुदाङ्कुराः
8.27अव् एभिर् लेपौषधैः कुर्यात् 8.27ब्व् तैलान्य् अभ्यञ्जनानि च
संचितं दुष्ट-रुधिरं ततः संपद्यते सुखी ।
अ-वर्तमानम् उच्छून-कठिनेभ्यो हरेद् असृक्
अर्शोभ्यो जल-जा-शस्त्र-सूची-कूर्चैः पुनः पुनः ।
शीतोष्ण-स्निग्ध-रूक्षैर् हि न व्याधिर् उपशाम्यति
8.29च्व् शीतोष्ण-स्निग्ध-रूक्षाद्यैर्
रक्ते दुष्टे भिषक् तस्माद् रक्तम् एवावसेचयेत् ।
यो जातो गो-रसः क्षीराद् वह्नि-चूर्णावचूर्णितात्
8.30द्व् बहु-मूलावचूर्णितात्
पिबंस् तम् एव तेनैव भुञ्जानो गुद-जान् जयेत् ।
कोविदारस्य मूलानां मथितेन रजः पिबन्
8.31द्व् मथितेन रजः पिबेत्
अश्नन् जीर्णे च पथ्यानि मुच्यते हत-नामभिः ।
गुद-श्वयथु-शूलार्तो मन्दाग्निर् गौल्मिकान् पिबेत्
हिङ्ग्व्-आदीन् अनु-तक्रं वा खादेद् गुड-हरीतकीम् ।
तक्रेण वा पिबेत् पथ्या-वेल्लाग्नि-कुटज-त्वचः
8.33अव् हिङ्ग्व्-आदीन् अनु-तक्रां वा 8.33च्व् तक्रेण वा पिबेत् पथ्यां 8.33द्व्
वेल्लाग्नि-कुटज-त्वचः
कलिङ्ग-मगधा-ज्योतिः-सूरणान् वांश-वर्धितान् ।
कोष्णाम्बुना वा त्रि-पटु-व्योष-हिङ्ग्व्-अम्ल-वेतसम्
युक्तं बिल्व-कपित्थाभ्यां महौषध-विडेन वा ।
अरुष्करैर् यवान्या वा प्रदद्यात् तक्र-तर्पणम्
8.35च्व् आरुष्करैर् यवान्या वा
दद्याद् वा हपुषा-हिङ्गु-चित्रकं तक्र-संयुतम् ।
मासं तक्रानु-पानानि खादेत् पीलु-फलानि वा
पिबेद् अहर् अहस् तक्रं निर्-अन्नो वा प्र-कामतः ।
अत्य्-अर्थं मन्द-कायाग्नेस् तक्रम् एवावचारयेत्
8.37च्व् अत्य्-अर्थ-मन्द-कायाग्नेस्
सप्ताहं वा दशाहं वा मासार्धं मासम् एव च ।
बल-काल-विकार-ज्ञो भिषक् तक्रं प्रयोजयेत्
सायं वा लाज-सक्तूनां दद्यात् तक्रावलेहिकाम् ।
जीर्णे तक्रे प्रदद्याद् वा तक्र-पेयां स-सैन्धवाम्
तक्रानु-पानं स-स्नेहं तक्रौदनम् अतः परम् ।
यूषै रसैर् वा तक्राढ्यैः शालीन् भुञ्जीत मात्रया
रूक्षम् अर्धोद्धृत-स्नेहं यतश् चान्-उद्धृतं घृतम् ।
तक्रं दोषाग्नि-बल-वित् त्रि-विधं तत् प्रयोज्येत्
न विरोहन्ति गुद-जाः पुनस् तक्र-समाहताः ।
निषिक्तं तद् धि दहति भूमाव् अपि तृणोलुपम्
8.42च्व् निषिक्तं तद् विदहति
स्रोतःसु तक्र-शुद्धेषु रसो धातून् उपैति यः ।
तेन पुष्टिर् बलं वर्णः परं तुष्टिश् च जायते
वात-श्लेष्म-विकाराणां शतं च विनिवर्तते ।
मथितं भाजने क्षुद्र-बृहती-फल-लेपिते
निशां पर्युषितं पेयम् इच्छद्भिर् गुद-ज-क्षयम् ।
धान्योपकुञ्चिकाजाजी-हपुषा-पिप्पली-द्वयैः
कारवी-ग्रन्थिक-शठी-यवान्य्-अग्नि-यवानकैः ।
चूर्णितैर् घृत-पात्र-स्थं नात्य्-अम्लं तक्रम् आसुतम्
8.46ब्व् -यवान्य्-अग्नि-यवानिकैः
तक्रारिष्टं पिबेज् जातं व्यक्ताम्ल-कटु कामतः ।
दीपनं रोचनं वर्ण्यं कफ-वातानुलोमनम्
गुद-श्वयथु-कण्ड्व्-अर्ति-नाशनं बल-वर्धनम् ।
त्वचं चित्रक-मूलस्य पिष्ट्वा कुम्भं प्रलेपयेत्
तक्रं वा दधि वा तत्र जातम् अर्शो-हरं पिबेत् ।
भार्ग्य्-आस्फोतामृता-पञ्च-कोलेष्व् अप्य् एष संविधिः
पिष्टैर् गज-कणा-पाठा-कारवी-पञ्च-कोलकैः ।
तुम्बुर्व्-अजाजी-धनिका-बिल्व-मध्यैश् च कल्पयेत्
फलाम्लान् यमक-स्नेहान् पेया-यूष-रसादिकान् ।
एभिर् एवौषधैः साध्यं वारि सर्पिश् च दीपनम्
क्रमो ऽयं भिन्न-शकृतां वक्ष्यते गाढ-वर्चसाम् ।
स्नेहाढ्यैः सक्तुभिर् युक्तां लवणां वारुणीं पिबेत्
लवणा एव वा तक्र-सीधु-धान्याम्ल-वारुणीः ।
प्राग्-भक्तान् यमके भृष्टान् सक्तुभिश् चावचूर्णितान्
8.53च्व् प्राग्-भक्तं यमके भृष्टान्
करञ्ज-पल्लवान् खादेद् वात-वर्चो-ऽनुलोमनान् ।
स-गुडं नागरं पाठां गुड-क्षार-घृतानि वा
8.54च्व् स-गुडं नागरं पाठा- 8.54द्व् -गुड-क्षार-घृतानि वा
गो-मूत्राध्युषिताम् अद्यात् स-गुडां वा हरीतकीम् ।
पथ्या-शत-द्वयान् मूत्र-द्रोणेना-मूत्र-संक्षयात्
8.55च्व् पथ्या-शत-द्वयं मूत्र-
पक्वात् खादेत् स-मधुनी द्वे द्वे हन्ति कफोद्भवान् ।
दुर्-नाम-कुष्ठ-श्वयथु-गुल्म-मेहोदर-कृमीन्
8.56अव् पक्त्वा खादेत् स-मधुनी
ग्रन्थ्य्-अर्बुदापची-स्थौल्य-पाण्डु-रोगाढ्य-मारुतान् ।
अजशृङ्गी-जटा-कल्कम् अजा-मूत्रेण यः पिबेत्
गुड-वार्ताक-भुक् तस्य नश्यन्त्य् आशु गुदाङ्कुराः ।
श्रेष्ठा-रसेन त्रिवृतां पथ्यां तक्रेण वा सह
पथ्यां वा पिप्पली-युक्तां घृत-भृष्टां गुडान्विताम् ।
अथ-वा स-त्रिवृद्-दन्तीं भक्षयेद् अनुलोमनीम्
हते गुदाश्रये दोषे गुद-जा यान्ति संक्षयम् ।
दाडिम-स्व-रसाजाजी-यवानी-गुड-नागरैः
8.60अव् हृते गुदाश्रये दोषे
पाठया वा युतं तक्रं वात-वर्चो-ऽनुलोमनम् ।
सीधुं वा गौडम् अथ-वा स-चित्रक-महौषधम्
पिबेत् सुरां वा हपुषा-पाठा-सौवर्चलान्विताम् ।
दशादि-दशकैर् वृद्धाः पिप्पलीर् द्वि-पिचुं तिलान्
8.62द्व् पिप्पलीर् द्वि-पिचुं तिलात्
पीत्वा क्षीरेण लभते बलं देह-हुताशयोः ।
दुःस्पर्शकेन बिल्वेन यवान्या नागरेण वा
8.63द्व् यवान्या नागरेण च
एकैकेनापि संयुक्ता पाठा हन्त्य् अर्शसां रुजम् ।
सलिलस्य वहे पक्त्वा प्रस्थार्धम् अभया-त्वचाम्
8.64द्व् प्रस्थार्धम् अभया-त्वचम्
प्रस्थं धात्र्या दश-पलं कपित्थानां ततो ऽर्धतः ।
विशालां लोध्र-मरिच-कृष्णा-वेल्लैलवालुकम्
द्वि-पलांशं पृथक् पाद-शेषे पूते गुडात् तुले ।
दत्त्वा प्रस्थं च धातक्याः स्थापयेद् घृत-भाजने
8.66च्व् दत्त्वा प्रस्थं तु धातक्याः
पक्षात् स शीलितो ऽरिष्टः करोत्य् अग्निं निहन्ति च ।
गुद-ज-ग्रहणी-पाण्डु-कुष्ठोदर-गर-ज्वरान्
श्वयथु-प्लीह-हृद्-रोग-गुल्म-यक्ष्म-वमि-कृमीन् ।
जल-द्रोणे पचेद् दन्ती-दश-मूल-वराग्निकान्
पालिकान् पाद-शेषे तु क्षिपेद् गुड-तुलां परम् ।
पूर्व-वत् सर्वम् अस्य स्याद् आनुलोमि-तरस् त्व् अयम्
पचेद् दुरालभा-प्रस्थं द्रोणे ऽपां प्रासृतैः सह ।
दन्ती-पाठाग्नि-विजया-वासामलक-नागरैः
8.70ब्व् द्रोणे ऽपां द्वि-पलैः सह
तस्मिन् सिता-शतं दद्यात् पाद-स्थे ऽन्यच् च पूर्व-वत् ।
लिम्पेत् कुम्भं तु फलिनी-कृष्णा-चव्याज्य-माक्षिकैः
प्राग्-भक्तम् आनुलोम्याय फलाम्लं वा पिबेद् घृतम् ।
चव्य-चित्रक-सिद्धं वा यव-क्षार-गुडान्वितम्
पिप्पली-मूल-सिद्धं वा स-गुड-क्षार-नागरम् ।
पिप्पली-पिप्पली-मूल-धानका-दाडिमैर् घृतम्
8.73द्व् -धान्यका-दाडिमैर् घृतम्
दध्ना च साधितं वात-शकृन्-मूत्र-विबन्ध-नुत् ।
पलाश-क्षार-तोयेन त्रि-गुणेन पचेद् घृतम्
8.74ब्व् -शकृन्-मूत्र-विबन्ध-हृत्
वत्सकादि-प्रतीवापम् अर्शो-घ्नं दीपनं परम् ।
पञ्च-कोलाभया-क्षार-यवानी-विड-सैन्धवैः
स-पाठा-धान्य-मरिचैः स-बिल्वैर् दधि-मत् घृतम् ।
साधयेत् तज् जयत्य् आशु गुद-वङ्क्षण-वेदनाम्
प्रवाहिकां गुद-भ्रंशं मूत्र-कृच्छ्रं परिस्रवम् ।
पाठाजमोद-धनिका-श्वदंष्ट्रा-पञ्च-कोलकैः
स-बिल्वैर् दध्नि चाङ्गेरी-स्व-रसे च चतुर्-गुणे ।
हन्त्य् आज्यं सिद्धम् आनाहं मूत्र-कृच्छ्रं प्रवाहिकाम्
गुद-भ्रंशार्ति-गुद-ज-ग्रहणी-गद-मारुतान् ।
शिखि-तित्तिरि-लावानां रसान् अम्लान् सु-संस्कृतान्
दक्षाणां वर्तकानां वा दद्याद् विड्-वात-संग्रहे ।
वास्तुकाग्नि-त्रिवृद्-दन्ती-पाठाम्लीकादि-पल्लवान्
अन्यच् च कफ-वात-घ्नं शाकं च लघु भेदि च ।
स-हिङ्गु यमके भृष्टं सिद्धं दधि-सरैः सह
8.81द्व् सिद्धं दधि-सरेण च
धनिका-पञ्च-कोलाभ्यां पिष्टाभ्यां दाडिमाम्बुना ।
आर्द्रिकायाः किसलयैः शकलैर् आर्द्रकस्य च
युक्तम् अङ्गार-धूपेन हृद्येन सुरभी-कृतम् ।
स-जीरकं स-मरिचं विड-सौवर्चलोत्कटम्
8.83अव् युक्तम् अङ्गार-धूमेन
वातोत्तरस्य रूक्षस्य मन्दाग्नेर् बद्ध-वर्चसः ।
कल्पयेद् रक्त-शाल्य्-अन्न-व्यञ्जनं शाक-वद् रसान्
8.84च्व् कल्पयेद् रक्त-शाल्य्-अन्नं 8.84द्व् व्यञ्जनं शाक-वद् रसान् 8.84द्व्
व्यञ्जनाञ् छाक-वद् रसान्
गो-गोधा-छगलोष्ट्राणां विशेषात् क्रव्य-भोजिनाम् ।
मदिरां शार्करं गौडं सीधुं तक्रं तुषोदकम्
अरिष्टं मस्तु पानीयं पानीयं वाल्पकं शृतम् ।
धान्येन धान्य-शुण्ठीभ्यां कण्टकारिकयाथ-वा
अन्ते भक्तस्य मध्ये वा वात-वर्चो-ऽनुलोमनम् ।
विड्-वात-कफ-पित्तानाम् आनुलोम्ये हि निर्-मले
गुदे शाम्यन्ति गुद-जाः पावकश् चाभिवर्धते ।
उदावर्त-परीता ये ये चात्य्-अर्थं विरूक्षिताः
विलोम-वाताः शूलार्तास् तेष्व् इष्टम् अनुवासनम् ।
पिप्पलीं मदनं बिल्वं शताह्वां मधुकं वचाम्
कुष्ठं शठीं पुष्कराख्यं चित्रकं देवदारु च ।
पिष्ट्वा तैलं विपक्तव्यं द्वि-गुण-क्षीर-संयुतम्
8.90अव् कुष्ठं शठीं पुष्कराह्वं 8.90अव् कुष्ठं शठीं पौष्कराख्यं
8.90अव् कुष्ठं शुण्ठीं पुष्कराख्यं
अर्शसां मूढ-वातानां तच् छ्रेष्ठम् अनुवासनम् ।
गुद-निःसरणं शूलं मूत्र-कृच्छ्रं प्रवाहिकाम्
कट्य्-ऊरु-पृष्ठ-दौर्बल्यम् आनाहं वङ्क्षणाश्रयम् ।
पिच्छा-स्रावं गुदे शोफं वात-वर्चो-विनिग्रहम्
उत्थानं बहु-शो यच् च जयेत् तच् चानुवासनात् ।
निरूहं वा प्रयुञ्जीत स-क्षीरं पाञ्चमूलिकम्
स-मूत्र-स्नेह-लवणं कल्कैर् युक्तं फलादिभिः ।
अथ रक्तार्शसां वीक्ष्य मारुतस्य कफस्य वा
8.94द्व् मारुतस्य कफस्य च
अनुबन्धं ततः स्निग्धं रूक्षं वा योजयेद् धिमम् ।
शकृच् छ्यावं खरं रूक्षम् अधो निर्याति नानिलः
कट्य्-ऊरु-गुद-शूलं च हेतुर् यदि च रूक्षणम् ।
तत्रानुबन्धो वातस्य श्लेष्मणो यदि विट् श्लथा
श्वेता पीता गुरुः स्निग्धा स-पिच्छः स्तिमितो गुदः ।
हेतुः स्निग्ध-गुरुर् विद्याद् यथा-स्वं चास्र-लक्षणात्
दुष्टे ऽस्रे शोधनं कार्यं लङ्घनं च यथा-बलम् ।
यावच् च दोषैः कालुष्यं स्रुतेस् तावद् उपेक्षणम्
दोषाणां पाचनार्थं च वह्नि-संधुक्षणाय च ।
संग्रहाय च रक्तस्य परं तिक्तैर् उपाचरेत्
यत् तु प्रक्षीण-दोषस्य रक्तं वातोल्बणस्य वा ।
स्नेहैस् तत् साधयेत् युक्तैः पानाभ्यञ्जन-वस्तिषु
यत् तु पित्तोल्बणं रक्तं घर्म-काले प्रवर्तते ।
स्तम्भनीयं तद् एकान्तान् न चेद् वात-कफानुगम्
स-कफे ऽस्रे पिबेत् पाक्यं शुण्ठी-कुटज-वल्कलम् ।
किराततिक्तकं शुण्ठीं धन्वयासं कु-चन्दनम्
दार्वी-त्वङ्-निम्ब-सेव्यानि त्वचं वा दाडिमोद्भवाम् ।
कुटज-त्वक्-फलं तार्क्ष्यं माक्षिकं घुणवल्लभाम्
पिबेत् तण्डुल-तोयेन कल्कितं वा मयूरकम् ।
तुलां दिव्याम्भसि पचेद् आर्द्रायाः कुटज-त्वचः
नी-रसायां त्वचि क्वाथे दद्यात् सूक्ष्म-रजी-कृतान् ।
समङ्गा-फलिनी-मोच-रसान् मुष्ट्य्-अंशकान् समान्
तैश् च शक्रयवान् पूते ततो दर्वी-प्रलेपनम् ।
पक्त्वावलेहं लीढ्वा च तं यथाग्नि-बलं पिबेत्
8.106अव् तैश् च शक्रयवान् पूतं
पेयां मण्डं पयश् छागं गव्यं वा छाग-दुग्ध-भुक् ।
लेहो ऽयं शमयत्य् आशु रक्तातीसार-पायु-जान्
बल-वद् रक्त-पित्तं च स्रवद् ऊर्ध्वम् अधो ऽपि वा ।
कुटज-त्वक्-तुलां द्रोणे पचेद् अष्टांश-शेषितम्
8.108द्व् पचेद् अष्टांश-शेषिताम्
कल्की-कृत्य क्षिपेत् तत्र तार्क्ष्य-शैलं कटु-त्रयम् ।
लोध्र-द्वयं मोच-रसं बलां दाडिम-जं त्वचम्
बिल्व-कर्कटिकां मुस्तं समङ्गां धातकी-फलम् ।
पलोन्मितं दश-पलं कुटजस्यैव च त्वचः
त्रिंशत् पलानि गुडतो घृतात् पूते च विंशतिः ।
तत् पक्वं लेह-तां यातं धान्ये पक्ष-स्थितं लिहन्
सर्वार्शो-ग्रहणी-दोष-श्वास-कासान् नियच्छति ।
लोध्रं तिलान् मोच-रसं समङ्गां चन्दनोत्पलम्
8.112ब्व् -श्वास-कासान् निबर्हति
पाययित्वाज-दुग्धेन शालींस् तेनैव भोजयेत् ।
यष्ट्य्-आह्व-पद्मकानन्ता-पयस्या-क्षीर-मोरटम्
स-सिता-मधु पातव्यं शीत-तोयेन तेन वा ।
लोध्र-कट्वङ्ग-कुटज-समङ्गा-शाल्मली-त्वचम्
8.114द्व् -समङ्गा-शाल्मली-त्वचः
हिम-केसर-यष्ट्य्-आह्व-सेव्यं वा तण्डुलाम्बुना ।
यवानीन्द्रयवाः पाट्ःआ बिल्वं शुण्ठी रसाञ्जनम्
चूर्णश् चले हितः शूले प्रवृत्ते चाति-शोणिते ।
दुग्धिका-कण्टकारीभ्यां सिद्धं सर्पिः प्रशस्यते
अथ-वा धातकी-लोध्र-कुटज-त्वक्-फलोत्पलैः ।
स-केसरैर् यव-क्षार-दाडिम-स्व-रसेन वा
शर्कराम्भो-ज-किञ्जल्क-सहितं सह वा तिलैः ।
अभ्यस्तं रक्त-गुद-जान् नव-नीतं नियच्छति
छागानि नव-नीताज्य-क्षीर-मांसानि जाङ्गलः ।
अन्-अम्लो वा कद्-अम्ल वा स-वास्तुक-रसो रसः
रक्त-शालिः सरो दध्नः षष्टिकस् तरुणी सुरा ।
तरुणश् च सुरा-मण्डः शोणितस्यौषधं परम्
पेया-यूष-रसाद्येषु पलाण्डुः केवलो ऽपि वा ।
स जयत्य् उल्बणं रक्तं मारुतं च प्रयोजितः
वातोल्बणानि प्रायेण भवन्त्य् अस्रे ऽति-निःसृते ।
अर्शांसि तस्माद् अधिकं तज्-जये यत्नम् आचरेत्
दृष्ट्वास्र-पित्तं प्रबलम् अ-बलौ च कफानिलौ ।
शीतोपचारः कर्तव्यः सर्व-था तत्-प्रशान्तये
न चेद् एवं शमस् तस्य स्निग्धोष्णैस् तर्पयेत् ततः ।
रसैः कोष्णैश् च सर्पिर्भिर् अवपीडक-योजितैः
8.124अव् यदा चैवं शमो न स्यात्
सेचयेत् तं कवोष्णैश् च कामं तैल-पयो-घृतैः ।
यवास-कुश-काशानां मूलं पुष्पं च शाल्मलेः
न्यग्रोधोदुम्बराश्वत्थ-शुङ्गाश् च द्वि-पलोन्मिताः ।
त्रि-प्रस्थे सलिलस्यैतत् क्षीर-प्रस्थे च साधयेत्
क्षीर-शेषे कषाये च तस्मिन् पूते विमिश्रयेत् ।
कल्की-कृतं मोच-रसं समङ्गां चन्दनोत्पलम्
प्रियङ्गुं कौटजं बीजं कमलस्य च केसरम् ।
पिच्छा-वस्तिर् अयं सिद्धः स-घृत-क्षौद्र-शर्करः
प्रवाहिका-गुद-भ्रंश-रक्त-स्राव-ज्वरापहः ।
यष्ट्य्-आह्व-पुण्डरीकेण तथा मोच-रसादिभिः
क्षीर-द्वि-गुणितः पक्वो देयः स्नेहो ऽनुवासनम् ।
मधुकोत्पल-लोध्राम्बु समङ्गा बिल्व-चन्दनम्
चविकातिविषा मुस्तं पाठा क्षारो यवाग्र-जः ।
दार्वी-त्वङ् नागरं मांसी चित्रको देवदारु च
चाङ्गेरी-स्व-रसे सर्पिः साधितं तैस् त्रि-दोष-जित् ।
अर्शो-ऽतीसार-ग्रहणी-पाण्डु-रोग-ज्वरा-रुचौ
मूत्र-कृच्छ्रे गुद-भ्रंशे वस्त्य्-आनाहे प्रवाहणे ।
पिच्छा-स्रावे ऽर्शसां शूले देयं तत् परमौषधम्
व्यत्यासान् मधुराम्लानि शीतोष्णानि च योजयेत् ।
नित्यम् अग्नि-बलापेक्षी जयत्य् अर्शः-कृतान् गदान्
8.134द्व् जयत्य् अर्शः-कृतां रुजम्
उदावर्तार्तम् अभ्यज्य तैलैः शीत-ज्वरापहैः ।
सु-स्निग्धैः स्वेदयेत् पिण्डैर् वर्तिम् अस्मै गुदे ततः
अभ्यक्तां तत्-कराङ्गुष्ठ-संनिभाम् अनुलोमनीम् ।
दद्याच् छ्यामा-त्रिवृद्-दन्ती-पिप्पली-नीलिनी-फलैः
विचूर्णितैर् द्वि-लवणैर् गुड-गो-मूत्र-संयुतैः ।
तद्-वन् मागधिका-राठ-गृह-धूमैः स-सर्षपैः
8.137ब्व् गुड-गो-मूत्र-पाचितैः
एतेषाम् एव वा चूर्णं गुदे नाड्या विनिर्धमेत् ।
तद्-विघाते सु-तीक्ष्णं तु वस्तिं स्निग्धं प्रपीडयेत्
ऋजू-कुर्याद् गुद-सिरा-विण्-मूत्र-मरुतो ऽस्य सः ।
भूयो ऽनुबन्धे वात-घ्नैर् विरेच्यः स्नेह-रेचनैः
8.139अव् ऋजू-कुर्याद् गुद-शिरो-
अनुवास्यश् च रौक्ष्याद् धि सङ्गो मारुत-वर्चसोः ।
त्रि-पटु-त्रि-कटु-श्रेष्ठा-दन्त्य्-अरुष्कर-चित्रकम्
जर्जरं स्नेह-मूत्राक्तम् अन्तर्-धूमं विपाचयेत् ।
शराव-संधौ मृल्-लिप्ते क्षारः कल्याणकाह्वयः
स पीतः सर्पिषा युक्तो भक्ते वा स्निग्ध-भोजिना ।
उदावर्त-विबन्धार्शो-गुल्म-पाण्डूदर-कृमीन्
मूत्र-सङ्गाश्मरी-शोफ-हृद्-रोग-ग्रहणी-गदान् ।
मेह-प्लीह-रुजानाह-श्वास-कासांश् च नाशयेत्
सर्वं च कुर्याद् यत् प्रोक्तम् अर्शसां गाढ-वर्चसाम् ॥ 144अब् ॥
द्रोणे ऽपां पूति-वल्क-द्वि-तुलम् अथ पचेत् पाद-शेषे च तस्मिन् ॥ 144च् ॥
8.144च्व् द्रोणे ऽपां पूति-वल्कं द्वि-तुलम् अथ पचेत् पाद-शेषे च तस्मिन्
देयाशीतिर् गुडस्य प्रतनुक-रजसो व्योषतो ऽष्टौ पलानि ॥ 144द् ॥
एतन् मासेन जातं जनयति परमाम् ऊष्मणः पक्ति-शक्तिं ॥ 144ए ॥
शुक्तं कृत्वानुलोम्यं प्रजयति गुद-ज-प्लीह-गुल्मोदराणि ॥ 144f ॥
पचेत् तुलां पूति-करञ्ज-वल्काद् द्वे मूलतश् चित्रक-कण्टकार्योः ।
द्रोण-त्रये ऽपि चरणावशेषे पूते शतं तत्र गुडस्य दद्यात्
पलिकं च सु-चूर्णितं त्रि-जात-त्रि-कटु-ग्रन्थिक-दाडिमाश्मभेदम् ।
पुर-पुष्कर-मूल-धान्य-चव्यं हपुषाम् आर्द्रकम् अम्ल-वेतसं च
शीती-भूतं क्षौद्र-विंशत्य्-उपेतम् आर्द्र-द्राक्षा-बीजपूरार्द्रकैश् च ।
युक्तं कामं गण्डिकाभिस् तथेक्षोः सर्पिः-पात्रे मास-मात्रेण जातम्
चुक्रं क्रकचम् इवेदं दुर्-नाम्नां वह्नि-दीपनं परमम् ।
पाण्डु-गरोदर-गुल्म-प्लीहानाहाश्म-कृच्छ्र-घ्नम्
द्रोणं पीलु-रसस्य वस्त्र-गलितं न्यस्तं हविर्-भाजने ॥ 149अ ॥
युञ्जीत द्वि-पलैर् मदा-मधुफला-खर्जूर-धात्री-फलैः ॥ 149ब् ॥
पाठा-माद्रि-दुरालभाम्ल-विदुल-व्योष-त्वग्-एलोल्लकैः ॥ 149च् ॥
8.149च्व् पाठा-माद्रि-दुरालभाम्ल-विदुल-व्योष-त्वग्-एल्लाल्लकैः
स्पृक्का-कोल-लवङ्ग-वेल्ल-चपला-मूलाग्निकैः पालिकैः ॥ 149द् ॥
गुड-पल-शत-योजितं निवाते निहितम् इदं प्रपिबंश् च पक्ष-मात्रात् ।
निशमयति गुदाङ्कुरान् स-गुल्मान् अनल-बलं प्रबलं करोति चाशु
8.150च्व् प्रशमयति गुदाङ्कुरान् स-गुल्मान्
एकैक-शो दश-पले दश-मूल-कुम्भ-पाठा-द्वयार्क-घुणवल्लभ-कट्फलानाम् ।
दग्धे स्रुते ऽनु कलशेन जलेन पक्वे पाद-स्थिते गुड-तुलां पल-पञ्चकं च
8.151ब्व् -पाठाभयार्क-घुणवल्लभ-कट्फलानाम्
दद्यात् प्रत्य्-एकं व्योष-चव्याभयानां वह्नेर् मुष्टी द्वे यव-क्षारतश् च ।
दर्वीम् आलिम्पन् हन्ति लीढो गुडो ऽयं गुल्म-प्लीहार्शः-कुष्ठ-मेहाग्नि-सादान्
तोय-द्रोणे चित्रक-मूल-तुलार्धं साध्यं यावत् पाद-दल-स्थम् अथेदम् ।
अष्टौ दत्त्वा जीर्ण-गुडस्य पलानि क्वाथ्यं भूयः सान्द्र-तया समम् एतत्
8.153ब्व् साध्यं यावत् पाद-जल-स्थम् अप्य् इदम्
त्रि-कटुक-मिशि-पथ्या-कुष्ठ-मुस्ता-वराङ्ग-कृमिरिपु-दहनैला-चूर्ण-कीर्णो ऽवलेहः ।
जयति गुद-ज-कुष्ठ-प्लीह-गुल्मोदराणि प्रबलयति हुताशं शश्वद् अभ्यस्यमानः
8.154च्व् जयति गुद-ज-युक्त-प्लीह-गुल्मोदराणि
गुड-व्योष-वरा-वेल्ल-तिलारुष्कर-चित्रकैः ।
अर्शांसि हन्ति गुटिका त्वग्-विकारं च शीलिता
मृल्-लिप्तं सौरणं कन्दं पक्त्वाग्नौ पुट-पाक-वत् ।
अद्यात् स-तैल-लवणं दुर्-नाम-विनिवृत्तये
मरिच-पिप्पलि-नागर-चित्रकान् क्रम-विवर्धित-भाग-समाहृतान् ।
शिखि-चतुर्-गुण-सूरण-योजितान् कुरु गुडेन गुडान् गुद-ज-च्छिदः
चूर्णी-कृताः षो-डश सूरणस्य भागास् ततो ऽर्धेन च चित्रकस्य ।
महौषधाद् द्वौ मरिचस्य चैको गुडेन दुर्-नाम-जयाय पिण्डी
पथ्या-नागर-कृष्णा-करञ्ज-वेल्लाग्निभिः सिता-तुल्यैः ।
वडबा-मुख इव जरयति बहु-गुर्व् अपि भोजनं चूर्णः
8.159द्व् बहु-गुर्व् अपि भोजनं चूर्णम्
कलिङ्ग-लाङ्गली-कृष्णा-वह्न्य्-अपामार्ग-तण्डुलैः ।
भूनिम्ब-सैन्धव-गुडैर् गुडा गुद-ज-नाशनाः
लवणोत्तम-वह्नि-कलिङ्ग-यवांश् चिरिबिल्व-महापिचुमन्द-युतान् ।
पिब सप्त-दिनं मथितालुडितान् यदि मर्दितुम् इच्छसि पायु-रुहान्
8.161च्व् पिब सप्त-दिनं मथितालुलितान् 8.161द्व् यदि मर्दितुम् इच्छसि
पायु-रुहः
शुष्केषु भल्लातकम् अग्र्यम् उक्तं भैषज्यम् आर्द्रेषु तु वत्सक-त्वक् ।
सर्वेषु सर्वर्तुषु कालशेयम् अर्शःसु बल्यं च मलापहं च
भित्त्वा विबन्धान् अनुलोमनाय यन् मारुतस्याग्नि-बलाय यच् च ।
तद् अन्न-पानौषधम् अर्शसेन सेव्यं विवर्ज्यं विपरीतम् अस्मात्
अर्शो-ऽतिसार-ग्रहणी-विकाराः प्रायेण चान्यो-ऽन्य-निदान-भूताः ।
सन्ने ऽनले सन्ति न सन्ति दीप्ते रक्षेद् अतस् तेषु विशेषतो ऽग्निम्
मूल पाठ: Aṣṭāṅgahṛdayasūtra · Data entry R. P. Das R. E. Emmerick · GRETIL (Göttingen) · CC BY-NC-SA 4.0