भाषा

ENहिગુ
ग्रंथ पाठ

अष्टावक्र गीता · अध्याय 9

9.1

कृताकृते च द्वन्द्वानि कदा शान्तानि कस्य वा
एवं ज्ञात्वेह निर्वेदाद् भव त्यागपरो ऽव्रती ॥

9.2

कस्यापि तात धन्यस्य लोकचेष्टावलोकनात्
जीवितेच्छा बुभुक्षा च बुभुत्सोपशमः गताः ॥

9.3

अनित्यं सर्वम् एवेदं तापत्रितयदूषितम्
असारं निन्दितं हेयम् इति निश्चित्य शाम्यति ॥

9.4

को ऽसौ कालो वयः किं वा यत्र द्वन्द्वानि नो नृणाम्
तान्य् उपेक्ष्य यथाप्राप्त वर्ती सिद्धिम् अवाप्नुयात् ॥

9.5

नाना मतं महर्षीषां साधूनां योगिनां तथा
दृष्ट्वा निर्वेदम् आपन्नः को न शाम्यति मानवः ॥

9.6

कृत्वा मूर्तिपरिज्ञानं चैतन्यस्य न किं गुरुः
निर्वेदसमतायुक्त्या यस् तारयति संसृतेः ॥

9.7

पश्य भूतविकारांस् त्वं भूतमात्रान् यथार्थतः
तत्क्षणाद् बन्धनिर्मुक्तः स्वरूपस्थो भविष्यसि ॥

9.8

वासना एव संसार इति सर्वा विमुञ्च ताः
तत्त्यागो वासनात्यागात् स्थितिर् अद्य यथा तथा ॥

मूल पाठ: Aṣṭāvakragītā · Data entry John Richards · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc