अष्टावक्र गीता · अध्याय 10
विहाय वैरिणं कामम् अर्थं चानर्थसङ्कुलम्
धर्मम् अप्य् एतयोर् हेतुं सर्वत्रानादरं कुरु ॥
स्वप्नेन्द्रजालवत् पश्य दिनानि त्रीणि पञ्च वा
मित्रक्षेत्रधनागार दारदायादिसम्पदः ॥
यत्र यत्र भवेत् तृष्णा, संसारं विद्धि तत्र वै
प्रौढवैराग्यम् आश्रित्य वीततृष्णः सुखी भव ॥
तृष्णामात्रात्मको बन्धस्, तन्नाशो मोक्ष उच्यते
भवासंसक्तिमात्रेण प्राप्तितुष्टिर् मुहुर्मुहुः ॥
त्वम् एकश् चेतनः शुद्धो जडं विश्वम् असत् तथा
अविद्यापि न किंचित् सा का बुभुत्सा तथापि ते ॥
राज्यं सुताः कलत्राणि शरीराणि सुखानि च
संसक्तस्यापि नष्टानि तव जन्मनि जन्मनि ॥
अलम् अर्थेन कामेन सुकृतेनापि कर्मणा
एभ्यः संसारकान्तारे न विश्रान्तम् अभून् मनः ॥
कृतं न कति जन्मानि कायेन मनसा गिरा
दुःखम् आयासदं कर्म तद् अद्याप्य् उपरम्यताम् ॥
मूल पाठ: Aṣṭāvakragītā · Data entry John Richards · GRETIL (Göttingen) · CC BY-NC-SA 4.0