भाषा

ENहिગુ
ग्रंथ पाठ

अष्टावक्र गीता · अध्याय 8

8.1

तदा बन्धो यदा चित्तं किंचिद् वाञ्छति षोचति
किंचिन् मुञ्चति गृह्णाति किंचिद् धृष्यति कुप्यति ॥

8.2

तदा मुक्तिर् यदा चित्तं न वाञ्छति न शोचति
न मुञ्चति न गृह्णाति न हृष्यति न कुप्यति ॥

8.3

तदा बन्धो यदा चित्तं सक्तं कास्व् अपि दृष्टिषु
तदा मोक्षो यदा चित्तम् असक्तं सर्वदृष्टिषु ॥

8.4

यदा नाहं तदा मोक्षो यदाहं बन्धनं तदा
मत्वेति हेलया किंचित् मा गृहाण विमुञ्च मा ॥

मूल पाठ: Aṣṭāvakragītā · Data entry John Richards · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc