भाषा

ENहिગુ
ग्रंथ पाठ

अष्टावक्र गीता · अध्याय 3

3.1

अविनाशिनम् आत्मानम् एकं विज्ञाय तत्त्वतः
तवात्मज्ञस्य धीरस्य कथम् अर्थार्जने रतिः ॥

3.2

आत्माज्ञानाद् अहो प्रीतिर् विषयभ्रमगोचरे
शुक्तेर् अज्ञानतो लोभो यथा रजतविभ्रमे ॥

3.3

विश्वं स्फुरति यत्रेदं तरङ्गा इव सागरे
सो ऽहम् अस्मीति विज्ञाय, किं दीन इव धावसि ॥

3.4

श्रुत्वापि शुद्धचैतन्यम् आत्मानम् अतिसुन्दरम्
उपस्थेत्यन्तसंसक्तो मालिन्यम् अधिगच्छति ॥

3.5

सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि
मुनेर् जानत आश्चर्यं ममत्वम् अनुवर्तते ॥

3.6

आस्थितः परमाद्वैतं मोक्षार्थे ऽपि व्यवस्थितः
आश्चर्यं कामवशगो विकलः केलिशिक्षया ॥

3.7

उद्भूतं ज्ञानदुर्मित्रम् अवधार्यातिदुर्बलः
आश्चर्यं कामम् आकाङ्क्षेत् कालम् अन्तम् अनुश्रितः ॥

3.8

इहामुत्र विरक्तस्य नित्यानित्यविवेकिनः
आश्चर्यं मोक्षकामस्य मोक्षाद् एव विभीषिका ॥

3.9

धीरस् तु भोज्यमानो ऽपि पीड्यमानो ऽपि सर्वदा
आत्मानं केवलं पश्यन् न तुष्यति न कुप्यति ॥

3.10

चेष्टमानं शरीरं स्वं पश्यत्य् अन्यशरीरवत्
संस्तवे चापि निन्दायां कथं क्षुभ्येत् महाशयः ॥

3.11

मायामात्रम् इदं विश्वं पश्यन् विगतकौतुकः
अपि सन्निहिते मृत्यौ कथं त्रस्यति धीरधीः ॥

3.12

निःस्पृहं मानसं यस्य नैराश्ये ऽपि महात्मनः
तस्यात्मज्ञानतृप्तस्य तुलना केन जायते ॥

3.13

स्वभावाद् एव जानानो दृश्यम् एतन् न किंचन
इदं ग्राह्यम् इदं त्याज्यं स किं पश्यति धीरधीः ॥

3.14

अन्तस्त्यक्तकषायस्य निर्द्वन्द्वस्य निराशिषः
यदृच्छयागतो भोगो न दुःखाय न तुष्टये ॥

मूल पाठ: Aṣṭāvakragītā · Data entry John Richards · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc