अष्टावक्र गीता · अध्याय 2
अहो निरञ्जनः शान्तो बोधो ऽहं प्रकृतेः परः
एतावन्तम् अहं कालं मोहेनैव विडम्बितः ॥
यथा प्रकाशयाम्य् एको देहम् एनं तथा जगत्
अतो मम जगत् सर्वम् अथवा न च किंचन ॥
सशरीरम् अहो विश्वं परित्यज्य मयाधुना
कुतश्चित् कौशलाद् एव परमात्मा विलोक्यते ॥
यथा न तोयतो भिन्नास् तरङ्गाः फेनबुद्बुदाः
आत्मनो न तथा भिन्नं विश्वम् आत्मविनिर्गतम् ॥
तन्तुमात्रो भवेद् एव पटो यद्वद् विचारितः
आत्मतन्मत्रम् एवेदं तद्वद् विश्वं विचारितम् ॥
यथैवेक्षुरसे कॢप्ता तेन व्याप्तैव शर्करा
तथा विश्वं मयि कॢप्तं मया व्याप्तं निरन्तरम् ॥
आत्माज्ञानाज् जगद् भाति आत्मज्ञानान् न भासते
रज्ज्वज्ञानाद् अहिर् भाति तज्ज्ञानाद् भासते न हि ॥
प्रकाशो मे निजं रूपं नातिरिक्तो ऽस्म्य् अहं ततः
यदा प्रकाशते विश्वं तदाहम् भास एव हि ॥
अहो विकल्पितं विश्वम् अज्ञानान् मयि भासते
रूप्यं शुक्तौ फणी रज्जौ वारि सूर्यकरे यथा ॥
मत्तो विनिर्गतं विश्वं मय्य् एव लयम् एष्यति
मृदि कुम्भो जले वीचिः कनके कटकं यथा ॥
अहो अहं नमो मह्यं, विनाशो यस्य नास्ति मे
ब्रह्मादिस्तम्बपर्यन्तं जगन्नाशे ऽपि तिष्ठतः ॥
अहो अहं नमो मह्यं एको ऽहं देहवान् अपि
क्वचिन् न गन्ता नागन्ता व्याप्य विश्वम् अवस्थितः ॥
अहो अहं नमो मह्यं दक्षो नास्तीह मत्समः
असंस्पृश्य शरीरेण येन विश्वं चिरं धृतम् ॥
अहो अहं नमो मह्यं यस्य मे नास्ति किंचन
अथवा यस्य मे सर्वं यद् वाङ्मनसगोचरम् ॥
ज्ञानं ज्ञेयं तथा ज्ञाता त्रितयं नास्ति वास्तवम्
अज्ञानाद् भाति यत्रेदं सो ऽहम् अस्मि निरञ्जनः ॥
द्वैतमूलम् अहो दुःखं नान्यत् तस्यास्ति भेषजम्
दृश्यम् एतन् मृषा सर्वं एको ऽहं चिद्रसो ऽमलः ॥
बोधमात्रो ऽहम् अज्ञानाद् उपधिः कल्पितो मया
एवं विमृशतो नित्यं निर्विकल्पे स्थितिर् मम ॥
न मे बन्धो ऽस्ति मोक्षो वा भ्रान्तिः शान्ता निराश्रया
अहो मयि स्थितं विश्वं वस्तुतो न मयि स्थितम् ॥
सशरीरम् इदं विश्वं न किंचिद् इति निश्चितम्
शुद्धचिन्मात्र आत्मा च तत् कस्मिन् कल्पनाधुना ॥
शरीरं स्वर्गनरकौ बन्धमोक्षौ भयं तथा
कल्पनामात्रम् एवैतत् किं मे कार्यं चिदात्मनः ॥
अहो जनसमूहे ऽपि न द्वैतं पश्यतो मम
अरण्यम् इव संवृत्तं क्व रतिं करवाण्य् अहम् ॥
नाहम् देहो न मे देहो जीवो नाहम्, अहं हि चित्
अयम् एव हि मे बन्ध आसीत् या जीविते स्पृहा ॥
अहो भुवनकल्लोलैर् विचित्रैर् द्राक् समुत्थितम्
मय्य् अनन्तमहाम्भोधौ चित्तवाते समुद्यते ॥
मय्य् अनन्तमहाम्भोधौ चित्तवाते प्रशाम्यति
अभाग्याज् जीववणिजो जगत् पोतो विनश्वरः ॥
मय्य् अनन्तमहाम्भोधव् आश्चर्यं जीववीचयः
उद्यन्ति घ्नन्ति खेलन्ति प्रविशन्ति स्वभावतः ॥
मूल पाठ: Aṣṭāvakragītā · Data entry John Richards · GRETIL (Göttingen) · CC BY-NC-SA 4.0