भाषा

ENहिગુ
ग्रंथ पाठ

अष्टावक्र गीता · अध्याय 1

1.1

कथं ज्ञानम् अवाप्तो ऽति कथं मुक्तिर् भविष्यति
वैराग्यं च कथं प्राप्तम् एतद् ब्रूहि मम प्रभो ॥

1.2

मुक्तिम् इच्छसि चेत् तात विषयान् विषवत् त्यज
क्षमार्जवदयातोष सत्यं पीयूषवद् भज ॥

1.3

न पृथ्वी न जलं नाग्निर् न वायुर् द्यौर् न वा भवान्
एषां साक्षिणम् आत्मानं चिद्रूपं विद्धि मुक्तये ॥

1.4

यदि देहं पृथक् कृत्य चिति विश्राम्य तिष्ठसि
अधुनैव सुखी शान्तो बन्धमुक्तो भविष्यसि ॥

1.5

न त्वं विप्रादिको वर्णो नाश्रमी नाक्षगोचरः
असङ्गो ऽसि निराकारो विश्वसाक्षी सुखी भव ॥

1.6

धर्माधर्मौ सुखं दुःखं मानसानि न ते विभो
न कर्तासि न भोक्तासि मुक्त एवासि सर्वदा ॥

1.7

एको द्रष्टासि सर्वस्य मुक्तप्रायो ऽसि सर्वदा
अयम् एव हि ते बन्धो द्रष्टारं पश्यसीतरम् ॥

1.8

अहं कर्तेत्य् अहंमान महाकृष्णाहिदंशितः
नाहं कर्तेति विश्वासा मृतं पीत्वा सुखी भव ॥

1.9

एको विशुद्धबोधो ऽहम् इति निश्चयवह्निना
प्रज्वाल्याज्ञानगहनं वीतसोकः सुखी भव ॥

1.10

यत्र विश्वम् इदं भाति कल्पितं रज्जुसर्पवत्
आनन्दपरमानन्दः स बोधस् त्वं सुखं चर ॥

1.11

मुक्ताभिमानी मुक्तो हि बद्धो बद्धाभिमान्य् अपि
किं वदन्तीह सत्ये ऽयं या मतिः सा गतिर् भवेत् ॥

1.12

आत्मा साक्षी विभुः पूर्ण एको मुक्तश् चिद् अक्रियः
असङ्गो निस्पृहः शान्तो भ्रमात् संसारवान् इव ॥

1.13

कूटस्थं बोधम् अद्वैतम् आत्मानं परिभावय
आभासो ऽहं भ्रमं मुक्त्वा भावं बाह्यम् अथान्तरं ॥

1.14

देहाभिमानपाशेन चिरं बद्धो ऽसि पुत्रक
बोधो ऽहं ज्ञानखड्गेन तन् निष्कृत्य सुखी भव ॥

1.15

निःसङ्गो निष्क्रियो ऽसि त्वं स्वप्रकाशो निरञ्जनः
अयम् एव हि ते बन्धः समाधिम् अनुतिष्ठसि ॥

1.16

त्वया व्याप्तम् इदं विश्वं त्वयि प्रोतं यथार्थतः
शुद्द्धबुद्धस्वरूपस् त्वं, मा गमः क्षुद्रचित्तताम् ॥

1.17

निरपेक्षो निर्विकारो निर्भरः शीतलाशयः
अगाधबुद्धिर् अक्षुब्धो भव चिन्मात्रवासनः ॥

1.18

साकारम् अनृतं विद्धि निराकारं तु निश्चलम्
एतत्तत्त्वोपदेशेन न पुनर्भवसम्भवः ॥

1.19

यथैवादर्शम् अध्यस्थे रूपे ऽन्तः परितस् तु सः
तथैवास्मिन् शरीरे ऽन्तः परितः परमेश्वरः ॥

1.20

एकं सर्वगतं व्योम बहिर् अन्तर् यथा घटे
नित्यं निरन्तरं ब्रह्म सर्वभूतगणे तथा ॥

मूल पाठ: Aṣṭāvakragītā · Data entry John Richards · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc