भाषा

ENहिગુ
ग्रंथ पाठ

अष्टावक्र गीता · अध्याय 16

16.1

आचक्ष्व शृणु वा तात नानाशास्त्राण्यनेकशः
तथापि न तव स्वास्थ्यं सर्वविस्मरणाद् ऋते ॥

16.2

भोगं कर्म समाधिं वा कुरु विज्ञ तथापि ते
चित्तं निरस्तसर्वाशम् अत्यर्थं रोचयिष्यति ॥

16.3

आयासात् सकलो दुःखी नैनं जानाति कश्चन
अनेनैवोपदेशेन धन्यः प्राप्नोति निर्वृतिम् ॥

16.4

व्यापारे खिद्यते यस् तु निमेषोन्मेषयोर् अपि
तस्यालस्यधुरीणस्य सुखं नान्यस्य कस्यचित् ॥

16.5

इदं कृतम् इदं नेति द्वन्द्वैर् मुक्तं यदा मनः
धर्मार्थकाममोक्षेषु निरपेक्षं तदा भवेत् ॥

16.6

विरक्तो विषयद्वेष्टा रागी विषयलोलुपः
ग्रहमोक्षविहीनस् तु न विरक्तो न रागवान् ॥

16.7

हेयोपादेयता तावत् संसारविटपाङ्कुरः
स्पृहा जीवति यावद् वै निर्विचारदशास्पदम् ॥

16.8

प्रवृत्तौ जायते रागो निर्वृत्तौ द्वेष एव हि
निर्द्वन्द्वो बालवद् धीमान् एवम् एव व्यवस्थितः ॥

16.9

हातुम् इच्छति संसारं रागी दुःखजिहासया
वीतरागो हि निर्दुःखस् तस्मिन्न् अपि न खिद्यति ॥

16.10

यस्याभिमानो मोक्षे ऽपि देहे ऽपि ममता तथा
न च ज्ञानी न वा योगी केवलं दुःखभाग् असौ ॥

16.11

हरो यद्य् उपदेष्टा ते हरिः कमलजो ऽपि वा
तथापि न तव स्वास्थ्यं सर्वविस्मरणाद् ऋते ॥

मूल पाठ: Aṣṭāvakragītā · Data entry John Richards · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc