भाषा

ENहिગુ
ग्रंथ पाठ

अष्टावक्र गीता · अध्याय 15

15.1

यथातथोपदेशेन कृतार्थः सत्त्वबुद्धिमान्
आजीवम् अपि जिज्ञासुः परस् तत्र विमुह्यति ॥

15.2

मोक्षो विषयवैरस्यं बन्धो वैषयिको रसः
एतावद् एव विज्ञानं यथेच्छसि तथा कुरु ॥

15.3

वाग्मिप्राज्ञमहोद्योगं जनं मूकजडालसम्
करोति तत्त्वबोधो ऽयम् अतस् त्यक्तो बुभुक्षुभिः ॥

15.4

न त्वं देहो न ते देहो भोक्ता कर्ता न वा भवान्
चिद्रूपो ऽसि सदा साक्षी निरपेक्षः सुखं चर ॥

15.5

रागद्वेषौ मनोधर्मौ न मनस् ते कदाचन
निर्विकल्पो ऽसि बोधात्मा निर्विकारः सुखं चर ॥

15.6

सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि
विज्ञाय निरहंकारो निर्ममस् त्वं सुखी भव ॥

15.7

विष्वं स्फुरति यत्रेदं तरङ्गा इव सागरे
तत् त्वम् एव न सन्देहश् चिन्मूर्ते विज्वरो भव ॥

15.8

श्रद्धत्स्व तात श्रद्धत्स्व नात्र मोहं कुरुष्व भोः
ज्ञानस्वरूपो भगवान् आत्मा त्वं प्रकृतेः परः ॥

15.9

गुणैः संवेष्टितो देहस् तिष्ठत्य् आयाति याति च
आत्मा न गन्ता नागन्ता किम् एनम् अनुशोचसि ॥

15.10

देहस् तिष्ठतु कल्पान्तं गच्छत्व् अद्यैव वा पुनः
क्व वृद्धिः क्व च वा हानिस् तव चिन्मात्ररूपिणः ॥

15.11

त्वय्य् अनन्तमहाम्भोधौ विश्ववीचिः स्वभावतः
उदेतु वास्तम् आयातु न ते वृद्धिर् न वा क्षतिः ॥

15.12

तात चिन्मात्ररूपो ऽसि न ते भिन्नम् इदं जगत्
अतः कस्य कथं कुत्र हेयोपादेयकल्पना ॥

15.13

एकस्मिन्न् अव्यये शान्ते चिदाकाशे ऽमले त्वयि
कुतो जन्म कुतः कर्म कुतो ऽहंकार एव च ॥

15.14

यत् त्वं पश्यसि तत्रैकस् त्वम् एव प्रतिभाससे
किं पृथक् भासते स्वर्णात् कटकाङ्गदनूपुरम् ॥

15.15

अयं सो ऽहम् अयम् नाहं विभागम् इति सन्त्यज
सर्वम् आत्मेति निश्चित्य निःसङ्कल्पः सुखी भव ॥

15.16

तवैवाज्ञानतो विश्वं त्वम् एकः परमार्थतः
त्वत्तो ऽन्यो नास्ति संसारी नासंसारी च कश्चन ॥

15.17

भ्रान्तिमात्रम् इदं विश्वं न किंचिद् इति निश्चयी
निर्वासनः स्फूर्तिमात्रो न किंचिद् इव शाम्यति ॥

15.18

एक एव भवाम्भोधाव् आसीद् अस्ति भविष्यति
न ते बन्धो ऽस्ति मोक्षो वा कृतकृत्यः सुखं चर ॥

15.19

मा सङ्कल्पविकल्पाभ्यां चित्तं क्षोभय चिन्मय
उपशाम्य सुखं तिष्ठ स्वात्मन्य् आनन्दविग्रहे ॥

15.20

त्यजैव ध्यानं सर्वत्र मा किंचिद् धृदि धारय
आत्मा त्वं मुक्त एवासि किं विमृश्य करिष्यसि ॥

मूल पाठ: Aṣṭāvakragītā · Data entry John Richards · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc