भाषा

ENहिગુ
ग्रंथ पाठ

अष्टावक्र गीता · अध्याय 14

14.1

प्रकृत्या शून्यचित्तो यः प्रमादाद् भावभावनः
निद्रितो बोधित इव क्षीणसंस्मरणो हि सः ॥

14.2

क्व धनानि क्व मित्राणि क्व मे विषयदस्यवः
क्व शास्त्रं क्व च विज्ञानं यदा मे गलिता स्पृहा ॥

14.3

विज्ञाते साक्षिपुरुषे परमात्मनि चेश्वरे
नैराश्ये बन्धमोक्षे च न चिन्ता मुक्तये मम ॥

14.4

अन्तर्विकल्पशून्यस्य बहिः स्वच्छन्दचारिणः
भ्रान्तस्येव दशास् तास् तास् तादृशा एव जानते ॥

मूल पाठ: Aṣṭāvakragītā · Data entry John Richards · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc