अष्टावक्र गीता · अध्याय 13
अकिंचनभवं स्वास्थ्यं कौपीनत्वे ऽपि दुर्लभम्
त्यागादाने विहायास्माद् अहम् आसे यथासुखम् ॥
कुत्रापि खेदः कायस्य, जिह्वा कुत्रापि खिद्यते
मनः कुत्रापि तत् त्यक्त्वा पुरुषार्थे स्थितः सुखम् ॥
कृतं किम् अपि नैव स्याद् इति सञ्चिन्त्य तत्त्वतः
यदा यत् कर्तुम् आयाति तत् कृत्वासे यथासुखम् ॥
कर्मनैष्कर्म्यनिर्बन्ध भावा देहस्थयोगिनः
संयोगायोगविरहाद् अहम् आसे यथासुखम् ॥
अर्थानर्थौ न मे स्थित्या गत्या न शयनेन वा
तिष्ठन् गच्छन् स्वपन् तस्माद् अहम् आसे यथासुखम् ॥
स्वपतो नास्ति मे हानिः सिद्धिर् यत्नवतो न वा
नाशोल्लासौ विहायास्माद् अहम् आसे यथासुखम् ॥
सुखादिरूपा नियमं भावेष्व् आलोक्य भूरिशः
शुभाशुभे विहायास्माद् अहम् आसे यथासुखम् ॥
मूल पाठ: Aṣṭāvakragītā · Data entry John Richards · GRETIL (Göttingen) · CC BY-NC-SA 4.0