अष्टावक्र गीता · अध्याय 12
कायकृत्यासहः पूर्वं ततो वाग्विस्तरासहः
अथ चिन्तासहस् तस्माद् एवम् एवाहम् आस्थितः ॥
प्रीत्यभावेन शब्दादेर् अदृश्यत्वेन चात्मनः
विक्षेपैकाग्रहृदय एवम् एवाहं आस्थितः ॥
समाध्यासादिविक्षिप्तौ व्यवहारः समाधये
एवं विलोक्य नियमम् एवम् एवाहम् आस्थितः ॥
हेयोपादेयविरहाद् एवं हर्षविषादयोः
अभावाद् अद्य हे ब्रह्मन्न् एवम् एवाहम् आस्थितः ॥
आश्रमानाश्रमं ध्यानं चित्तस्वीकृतवर्जनम्
विकल्पं मम वीक्ष्यैतैर् एवम् एवाहम् आस्थितः ॥
कर्मानुष्ठानम् अज्ञानाद् यथैवोपरमस् तथा
बुद्ध्वा संयग् इदं तत्त्वम् एवम् एवाहम् आस्थितः ॥
अचिन्त्यं चिन्त्यमानो ऽपि चिन्तारूपं भजत्य् असौ
त्यक्त्वा तद्भावनं तस्माद् एवम् एवाहम् आस्थितः ॥
एवम् एव कृतं येन स कृतार्थो भवेद् असौ
एवम् एव स्वभावो यः स कृतार्थो भवेद् असौ ॥
मूल पाठ: Aṣṭāvakragītā · Data entry John Richards · GRETIL (Göttingen) · CC BY-NC-SA 4.0